यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौरम्, क्ली, (क्षुरस्य कार्य्यं कर्म्म क्षुरकृतं कर्म्मेति भावः क्षुरस्येदं वा ।) क्षुरकर्म्म । कामान इति भाषा । तत्पर्य्यायः । मुण्डनम् २ भद्रकरणम् ३ वपनम् ४ परिवापनम् ५ । इति हेमचन्द्रः ॥ अस्य गुणः । “केशश्मश्रुनखादीनां कर्त्तनं संप्रसाधनम् ।” संप्रसाधनं पवित्रीकरणमिति यावत् । इति राजवल्लभः ॥ * ॥ व्रतादिसंयमे क्षौरकर्म्मा- करणे दोषो यथा, -- “व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे । न करोति क्षौरकर्म्म अशुचिः सर्व्वकर्म्मसु ॥ स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि ! । तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥ नित्यक्षौरविहितनिषिद्धदिनादि यथाह राज- मार्त्तण्डः । “न स्नानमात्रगमनोत्सुकभूषिताना- मभ्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्यानिशाशनिकुजार्कदिनेषु रिक्ते क्षौरं हितं प्रतिपदह्रि न चापि विष्ट्याम् ॥” * ॥ “प्राचीसुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौरमनुत्कटस्थः ॥ उत्तरात्रितययाम्यरोहिणी- रौद्रसर्पपितृभेषु चाग्निभे । श्मश्रुक्रर्म्म सकलं विवर्ज्जयेत् प्रेतकार्य्यमपि बुद्धिमान्नरः ॥” प्रेतकार्य्यं पतितप्रेतसंप्रदानकदासीघटदानविषय- कम् । अन्यथा वक्ष्यमाणवचनविरोधः स्यात् ॥ “चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने ॥ मानं हन्ति गुरुः क्षौरे शुक्रं शुक्रो धनं रविः । आयुरङ्गारको हन्ति सर्व्वं हन्ति शनैश्चरः ॥” * ॥ श्रीपतिरत्नमालायाम् । “आज्ञया नरपतेर्द्विजन्मनां दारकर्म्ममृतसूतकेषु च । ब्रन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु ॥ देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये । क्षुरिकर्म्म न कुर्व्वीत जन्ममासे च जन्मभे ॥” * ॥ वृद्धगार्ग्यः । “केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहिच्छत्रम् । दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्या- णम् ॥ * ॥” अत्र क्रमो वराहपुराणे । “श्मश्रुकर्म्म कारयित्वा नखच्छेदमनन्तरम् ॥” इति ज्योतिस्तत्त्वम् ॥ अपि च । गोभिलः । “केशश्मश्रुलोमनखानि वाप- यीत शिखावर्ज्जम् ।” इति शुद्धितत्त्वम् ॥ * ॥ अन्यच्च । “रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च । मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् ॥ कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् । रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥ नापितगृहे क्षौरनिषेधो यथा, -- “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥ रवौ दुःखं सुखं चन्द्रे कुजे मृत्युर्बुधे धनम् । मानं हन्ति गुरोर्व्वारे शुक्रे शुक्रक्षयो भवेत् ॥ शनौ च सर्व्वदोषाः स्युः क्षौरमत्र विवर्ज्जयेत् ॥” इति कर्म्मलोचनम् ॥ * ॥ * ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर नपुं।

मुण्डनम्

समानार्थक:क्षौर,भद्राकरण,मुण्डन,वपन

2।7।49।2।1

नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर¦ न॰ क्षुरेण निर्वृत्तम् अण्।

१ क्षुरकर्म्मणि केशकर्त्तने। तत्र विहितनक्षत्रादि क्षुरकर्म्मशब्दे

२३

८६ पृ॰ उक्त-प्रायं विशेषोऽत्र कश्चिदभिधीयते
“व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे। न करोतिक्षौरकर्म अशुचिः सर्वकर्मसु। स च तिष्ठति कुण्डेषु न-खादीनाञ्च सुन्दरि!। तदेव दिनमानावदंतद्भोजी दण्ड-ताडितः” व्रह्म वै॰ पु॰

२७ अ॰।
“चन्द्रशुद्धिर्यदा नास्तितारायाश्च विशेषतः। अक्षौरभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने” ज्यो॰ त॰।
“मानं क्षौरे हन्तिगुरुः शुक्रं शुक्रो-धनं रविः। आयुरङ्गारको हन्ति सर्वं हन्ति शनैश्चरः” श्रीपतिरत्नमाला।
“आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृतसूतकेषु च। बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषुचोडुषु” भोजदे॰।
“दवकार्ये पितृश्राद्धे रवेरंशपरिक्षये। क्षुरिकर्म न कुर्वीत जन्ममासे च जन्मभे” वृद्धगार्ग्यः,
“केशवमावर्त्तपरं पाटलिपुत्त्रं पुरीमहिच्छत्राम्। दितिम दतिञ्च स्मरतां क्षौरविधौ भवति कल्याणम्” ज्यो॰ त॰। अत्र क्रमो वराहपु॰
“श्मश्रुकर्म कारयित्वानखच्छेदमनन्तरम्” ज्योति॰ त॰।
“केशश्मश्रुलोम-नखानि वापयीत शिखावर्ज्जम्” शु॰ त॰ गोभिलः। [Page2411-b+ 38]
“रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च। मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम्। कृत्वातु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन्। रुधिरंतद्भवेत्तोयं दाता च नरकं व्रजेत्” ब्रह्म॰ वै॰ पु॰नापितगृहे क्षौरनिषधो यथा
“स्वयं माल्यं स्वयंपुष्पं स्वयं घृष्टञ्च चन्दनम्। नापितस्य गृहे क्षौरंशक्रादपि हरेत् श्रियम्” कर्म्मलोचनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर¦ m. (-रः)
1. Shaving the head.
2. Shaving in general. f. (-री) A razor. E. क्षुर a razor, affix अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौरम् [kṣauram], Shaving. -री A razor. -a.

Performed with a razor.

Very sharp.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर mfn. (fr. क्षुर) , performed with a razor (with कर्मन्, " shaving ") VarBr2S. iic , 12

क्षौर m. = -मन्त्रSa1y. on TS. i

क्षौर n. shaving the head , shaving in general( रं1. कृ, to shave Hit. ; रं, Caus. 1. कृ, to have one's self shaved Hit. ) Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=क्षौर&oldid=498214" इत्यस्माद् प्रतिप्राप्तम्