यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकक्षा¦ स्त्री सूर्य्यरश्मिप्रचारावधिके वेष्टनाकारे[Page2413-b+ 38] ब्रह्माण्डसुषिरे गगनपरिधौ। सि॰ शि॰ तत्परिमाणमुक्तं यथा
“कोटिध्नैर्नखनन्दषट्कनखभूमूभृद्भजङ्गेन्दुभि

१८

७१

२०

६९

२०

००

०० ॰॰॰ र्ज्योतिःशास्त्रविदो वदन्तिनभसः कक्षामिमां योजनैः। तद् ब्रह्माण्डकटा-हसंपुटतटे केचिज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्य-दृश्यकगिरिं पौराणिकाः सूरयः। करतलकलिता-मलकवदमलं सकलं विदन्ति ये गोलम्। दिनकरकर-निकरनिहततमसो नभसः स परिधिरुदितस्तैः” मू॰।
“एभिर्योजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधिं वदन्ति। तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽ-हर्पतिद्युतियुजो नभसः परिधेरिदं वदन्ति। अत एवपौराणिका गणकास्ते ब्रह्याण्डपरिधिं वदन्ति। केचि-ल्लीकालोकं वदन्ति। यतस्तदन्तर्वर्त्तिन एवार्करश्मयः। एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्य-त्वात्। करतलकलितसकलब्रह्माण्डगोला एवं वक्तुंशक्नुवन्ति। इदानीं स्वमतमाह” प्रमि॰।
“ब्रह्माण्डमेत-न्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि। यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतंनः” मू॰। इदानीं ग्रहक्षका आह।
“ग्रहस्य चक्रै-र्विहृता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम्। ग्रहःखकक्षामितयीजनानि भ्रमत्यजस्रं परिवर्त्तमानः” मू॰।
“सा खकक्षा यस्य यस्य भगणैर्ह्रियते तस्य तस्य ग्रहस्यकक्षामितिर्लभ्यते। अस्योपपत्तिरूपं श्लोकस्योत्तरार्ध-मिति। यतः स्वकक्षाया ग्रहो भ्रमन्नजस्रं परिवर्त्तमानःखकक्षामितानि योजनानि पूरयति। अतो ग्रहभगणैःभक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामितिरित्यु-पपन्नम्।

"https://sa.wiktionary.org/w/index.php?title=खकक्षा&oldid=498227" इत्यस्माद् प्रतिप्राप्तम्