यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगः, पुं, (खे आकाशे गच्छति । ख + गम् + डः ।) सूर्य्यः । ग्रहः । (यथा, ज्योतिषे । “आपोक्लिमे यदि खगाः स किलेन्दुवारः ॥”) देवः । वाणः । पक्षी । इति मेदिनी । गे । ६ ॥ (यथा, महाभारते । १ । ३३ । १९ । “तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥”) वायुः । इति शब्दचन्द्रिका ॥ (यथा, महाभारते वनपर्व्वणि । “तमांसीव यथा सूर्य्यो वृक्षानग्निर्घनान् खगः ॥”) शलभः । इत्यमरटीकायां भरतः ॥ (यथा, मनुः । १२ । ६३ । “मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ६६ । “आकाशनिर्व्विरूपश्च निपाती ह्यवशः खगः ॥”)

"https://sa.wiktionary.org/w/index.php?title=खगः&oldid=498234" इत्यस्माद् प्रतिप्राप्तम्