यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगासनः, पुं, (खगस्य सूर्य्यस्य आसनमिव उदय- स्थानं यत्र । आसनत्वेन कल्पितत्वात्तथात्वम् ।) उदयपर्व्वतः । इति शब्दमाला ॥ (खगो गरुड आसनं यस्येति विग्रहे ।) विष्णुः । (एतद्बिवरणं यथा, महाभारते । १ । सौपर्णे । ३३ । १२--१८ । “तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः ॥ उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥ एवमस्त्विति तं विष्णुरुवाच विनतासुतम् । प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ॥ भवतेऽपि वरं दद्यां वृणोतु भगवानपि । तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् । ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥ एवमस्त्विति तं देवमुक्त्वा नारायणं खगः । वव्राज तरसा वेगाद् वायुं स्पर्द्धन् महाजवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=खगासनः&oldid=130327" इत्यस्माद् प्रतिप्राप्तम्