यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जः, त्रि, (खजि गतिवैकल्ये + अच् ।) विकल- गतिः । खो~डा इति भाषा ॥ यथा, मनुः । ३ । २४२ । “खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत ॥”) तत्पर्य्यायः । खोडः २ । इत्यमरः । २ । ६ । ४९ । खोलः ३ । इति शब्दरत्नावली ॥ खोरः ४ खञ्जकः ५ । इति हेमचन्द्रः ॥ खोटः ६ । इति खोडधात्वर्थदर्शनात् ॥ तस्य लक्षणं यथाह माधवकरः । “वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा । खञ्जस्तदा भवेज्जन्तुः पङ्गुसक्य्नोर्द्वयोर्वधात् ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज पुं।

गतिविकलः

समानार्थक:खोड,खञ्ज

2।6।49।1।4

वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः। जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज¦ त्रि॰ खजि गतिवैकल्ये अच्। (खोंडा) एकपाद-विलले। तस्य लक्षणादिकं भावप्र॰ उक्तं यथा
“वायुःकट्याश्रितः सकथ्नः कण्डरामाक्षिपेत् यदा। खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्बवात्। सक्थ्नः कट्यादि-[Page2456-a+ 38] गुल्फस्य, कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौकम्पयेत्। बधात् गमनादिक्रियाघातात्”। तथाच एक-पादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्कुरिति भेदः। तस्यैव भेदः कलापखञ्जः तल्लक्षणं तत्रोक्तं यथा
“कम्पतेगमनारम्भे खञ्जन्निव चलक्ष्यते। कलापखञ्जन्तं विद्या-न्मुक्तसन्धिप्रबन्धनम्। गमनारम्भे कम्पते। एतस्यखञ्जादयमेव भेदः कलापखञ्ज इति शास्त्रे रूढा संज्ञा नतु यौगिकी”। तस्य कर्मविशेषविपाकत्वम् शातातपेनोक्तंयथा
“हरिणे निहते खञ्जः शृगाले तु विपादकः”। विपादकः पादद्वयगतिशून्यः पङ्गुरित्यर्थः।
“काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि शपन् दाप्यो-दण्डं कार्षापणावरम्” मनुः तस्य दैवपैत्रकर्मकरणकाले-ऽपसार्य्यतामाह” मनुः
“खञ्जो वा यदि काणोदातुःप्रेष्योऽपि वा भेवत्। हीनातिरिक्तगात्रो वा तमप्यप-नयेत्ततः” जन्मतः खञ्जत्वे सुश्रुतेन कारणमुक्तं यथा
“दौहदविमाननाच्चकुब्जं कुणिं खञ्जं जडं वामनं विकृ-ताक्षमनक्षं वा नारी सुतं जनयति”। स्वार्थे क ण्वुल्वा। खञ्जक तत्रार्थे हेम॰। अस्य कडारादिपाठात्वा पूर्वनिपातः खञ्जबाहुः कलापखञ्ज इत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज¦ mfn. (-ञ्जः-ञ्जा-ञ्जं) Lame, crippled, limpling. f. (-ञ्जा) A species of metre, a stanza of two lines, one of thirty-two, the other of thirty feet. E. खजि to limp or go lame, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज [khañja], a. [खञ्ज्-अच्] Lame, crippled, halt; पादेन खञ्जः Sk.; Ms.8.274; कृशः काणः खञ्जः (श्वा) Bh.1.64. -Comp. -खेटः, -खेलः the wag-tail.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज mfn. ( g. कडारा-दि) id. Mn. Sus3r. Bhartr2.

खञ्ज mfn. (with पादेन, " limping with one leg ") Pa1n2. 2-3 , 20 , Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=खञ्ज&oldid=498267" इत्यस्माद् प्रतिप्राप्तम्