यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वारूढः, त्रि, (खट्वामारूढः । “खट्वा क्षेपे ।” २ । १ । २६ । इति निन्दायां द्वितीयान्तस्य क्तान्तेन नित्यसमासः ।) अविनीतः । प्रमादवान् । इति त्रिकाण्डशेषभूरिप्रयोगौ ॥ (यथा, भट्टौ । ५ । १० । “वृतस्त्वं पात्रेसमितैः खट्वारूढः प्रमादवान् । पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः ॥” “खट्वारूढः उत्पथस्थितः । खट्वा क्षेपे इति द्वितीया ।” इति जयमङ्गलटीका ॥) खट्वारूढो नरो जाल्मः । इति कलापव्याकरणम् ॥ (वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वा रोढव्या ब्रह्मचर्य्य एव भूमिशयनार्होऽपि यः खट्वामारो- हति स जाल्मः । रूढश्चायं तेन खट्वामारोहतु मा वा निषिद्धानुष्ठानपरः सर्व्वोऽपि खट्वारूढ उच्यतो इति शब्दार्थचिन्तामणिः ॥) खट्वोपरिस्थितश्च ॥

"https://sa.wiktionary.org/w/index.php?title=खट्वारूढः&oldid=130415" इत्यस्माद् प्रतिप्राप्तम्