यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गः, पुं, (खडति भिनत्तीति । खड् + “छापू- खडिभ्यः कित् ।” उणां । १ । १२३ । इति गन् ।) गण्डकः । गण्डार इति भाषा ॥ (यथा, मनुः । ३ । २७२ । “कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥” “खड्गो गण्डकः लोहो लोहितवर्णश्छाग एव ।” इति कुल्लूकभट्टः ॥) गण्डकशृङ्गम् । खाग इति भाषा । बुद्धभेदः । इति मेदिनी ॥ चोरकनाम- गन्धद्रव्यम् । इति राजनिर्घण्टः ॥ अस्त्रविशेषः । खा~डा तरवाल इत्यादि भाषा ॥ (यथा, महा- भारते । ४ । ४१ । २५ । “यस्त्वयं विपुलः खड्गो गव्ये कोषे समर्पितः । सहदेवस्य विद्ध्येनं सर्व्वभारसहं दृढम् ॥”) तत्पर्य्यायः । निस्त्रिंशः २ चन्द्रहासः ३ असिः ४ रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करबालः ८ कृपाणः ९ । इत्यमरः । २ । ८ । ८९ ॥ ऋष्टिः १० कर- पालः ११ । इति तट्टीका ॥ विशसनः १२ तीक्ष्णधारः १३ दुरासदः १४ श्रीगर्भः १५ विजयः १६ धर्म्मपालः १७ कौक्षेयः १८ तरवारिः १९ तवराजः २० कृपाणकः २१ कृपाणी २२ शस्त्रः २३ । इति शब्दरत्नावली ॥ * ॥ तस्योत्- पत्तिर्ब्रह्मणो यज्ञाग्नौ यथा, -- “विकीर्य्याग्निं तथाभूतमुत्थितं श्रूयते तदा । नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ॥ प्रांशुं सुदुर्द्ध्वर्षतरं तथैव ह्यमितौजसम् । ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥ विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः । ततः स शितिकण्ठाय रुद्रायर्षभकेतवे ॥ ब्रह्मा ददावसिं तीक्ष्णमधर्म्मप्रतिवारणम् । ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् ॥ असिं धर्म्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे । विष्णुर्मरीचये स महर्षिभ्यः ते इन्द्राय स लोक- पालेभ्यः ते मनवे सूर्य्यपुत्त्राय स क्षुपाय स इक्ष्वाकवे स पुरूरवसे स आयवे स नहुषाय स ययातये स पूरवे स अमूर्त्तरयसे स भूमिशयाय सभरताय स ऐडविडाय स धुन्धुमाराय स काम्बोजाय स मुचुकुन्दाय स मरुत्ताय स रैव- ताय स यौवनाश्वाय स रघवे स हरिणाश्वाय स शुनकाय स उशीनराय स भोजाय स शिवये स प्रतर्द्दनाय स अष्टकाय स ऋषदश्वाय स भर- द्वाजाय स द्रोणाय स कृपाय स पाण्डवेभ्यो दत्तवान् ॥ * ॥ अथ खड्गविषयकत्रयोदश- विधसञ्चरणं यथा, महाभारते । “मण्डलाकारतः खड्गभ्रामणं भ्रान्तमुच्यते । तदेव बाहुमुद्यम्य कृतमुद्भ्रान्तमीरितम् ॥ भ्रामणं स्वस्य परितः खड्गस्याविद्धमुच्यते । परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् ॥ णत्रोराक्रमणार्थाय गमनन्त्वाप्लुतं मतम् । वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् । ऐश्वर्य्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ परतो न विशेषफलं विषमसमस्थास्तु पाप- शुभफलदाः । कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमितियावत् ॥ करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः । शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ॥ कूर्म्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ इदमौशनसं त्त शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥ वडवोष्ट्रकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् । झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक् छितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गः [khaḍgḥ], [खड्-भेदने गन् Uṇ.1.121]

A sword; न हि खड्गो विजानाति कर्मकारं स्वकारणम् Udb.; खड्गं परामृश्य &c.

The horn of a rhinoceros.

A rhinoceros; प्रायो विषाण- परिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः R.9.62; Ms.3. 272,5.18; ... खङ्गशृङ्गं चामरं च ... Śiva. B.3.12. -ड्गम् Iron. -Comp. -आघातः a sword-cut. -आधारः a sheath, scabbard. -आमिषम् a buffalo's flesh. -आह्वः a rhinoceros. -कोशः a scabbard. -धरः a swordsman. -धारा a sword-blade; खड्गधारा हता मे$य दीप्यमाना इवाग्नयः Rām.2.23.34. ˚व्रतम् an extremely difficult task.

धेनुः, धेनुका a small sword.

a female rhinoceros. -पत्रम् the blade of a sword. (-त्रः) a tree in hell having swords for leaves; cf. असिपत्र. -पाणि a. sword in hand. -पात्रम् a vessel made of buffalo's horns. -पिधानम्, -पिधानकम् a scabbard. -पुत्रिका a knife, small sword. -प्रहारः a sword-cut. -फलम् a sword-blade. -बन्धः a kind of artificial composition, the words being arranged in the form of a sword; see K. P.9 ad loc. -विद्या swrodsmanship.

"https://sa.wiktionary.org/w/index.php?title=खड्गः&oldid=314869" इत्यस्माद् प्रतिप्राप्तम्