यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गगनम्, क्ली, (गं गानं शब्दात्मकं गुणं गच्छति यद्वा गकारं भूतेषु प्रथमभूतत्वात् प्राधान्यं गच्छति । यद्वा गच्छन्त्यस्मिन् देवादय इति । “गमेर्गश्च ।” उणां । २ । ७७ । इति युच् गश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ । २ । १ ॥ (यथा मेघदूते । ४८ । “प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥”) तत्पर्य्यायः । अमरोक्तपर्य्यायाः आकाशशब्दे द्रष्टव्याः ॥ (तेभ्यः परम् ।) वर्हिः १९ धन्व २० आपः २१ पृथिवी २२ भूः २३ स्वयम्भूः २४ अध्वा २५ सगरः २६ ससुद्रः २७ अध्वरः २८ । इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ “आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥” इत्याश्वमेधिकपर्व्व ॥ तस्य गुणाः । शब्दः १ व्यापृत्त्वम् २ छिद्रता ३ अनाश्रयम् ४ अनालम्बम् ५ आश्रयान्तर- शून्यम् । अव्यक्तम् ६ रूपस्पर्शशून्यत्त्वात् । अधि- कारिता ७ द्रव्यान्तरानारम्भकत्वम् । अप्रती- घातिता ८ भूतत्वम् ९ श्रोत्रेन्द्रियोपादानत्वात् । विकृतानि १० देहान्तर्गतच्छिद्राणि । तद्यथा, -- “आकाशस्य गुणः शब्दो व्यापृत्त्वं छिद्रमेव च । अनाश्रयमनालम्बमव्यक्तमविकारिता ॥ अप्रतीघातिता चैव भूतत्वं विकृतानि च । गुणाः पञ्चाशतः प्रोक्ताः पञ्चभूतात्मभूतता ॥” पञ्चानां भूतानां आत्मा प्राप्तिः स्वकं स्वरूपं तत्र लक्षिता । इति मोक्षधर्म्मः ॥ (गगनात् पतिताम्बुगुणविशेषो यथा, -- “गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने । बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ॥ रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गगन नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।2।3

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

1।2।1।6।2

वाचस्पत्यम्

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गगन¦ न॰ गम--युच् गोऽन्तादेशः। णत्वं प्रामादिकम्
“फाल्गुने गगने फेने णत्वमिच्छन्ति वर्वराः” इत्युक्तेः।

१ आकाशे

२ शून्याङ्को।

३ लग्नापेक्षया दशमराशौ तस्यउदितराश्यपेक्षया स्वस्वस्तिकस्थितत्वात् तथात्वं तथाहि पूर्वस्यामेव राशीनामुदयेन ततः मप्तमराश्युदये तस्यअस्तम् दशमराशिस्तु तदा स्वस्वस्तिकस्थितः इति तस्य[Page2482-b+ 38] मूर्द्धस्थाकाशस्थितत्वात् तथात्वम्। तद्गुणादेः आकाश-शब्दे

५९

२ पृ॰ विवृतिः। सुश्रुते देहस्य पाञ्चभौति-कत्वाङ्गीकारेण
“आन्तरीक्षास्तु शब्दः शब्देन्द्रियंसर्वच्छिद्रसमूहो विविक्तता चेति” देहस्थाकाशधर्म्मा उक्ताः
“पृथिव्यप्तेजो वाय्वाकाशानां समुदायात् द्रव्याभिनि-र्वृत्तिः” इत्युपक्रम्य द्रव्यगता गगनजधर्म्मास्तत्रोक्ता यथा
“श्लक्ष्णसूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमा-काशीयम् तन्मार्द्दवशौषिर्य्यलाघवकरम्”। तथाकाशगुण-भूमिष्ठंसंशमनम्” इत्युपक्रम्य भूतविशेषसाचिव्येन घातु-विशेषसंशमनकारित्वं तस्य दर्शितं सुश्रुतेन यथा
“खतेजोऽनिलजैः श्मेष्मा शममेति शरीरिणाम्। वियत्पब-नजाताभ्यां वृद्धिमाप्नोति मारुतः”
“तस्याकाशगुण-भूयिष्ठं मृदुत्वम्” इति च। तस्य धर्म्मविशेषाः भा॰शा॰ उक्ता यथा
“आकाशस्य गुणः शब्दोव्यापित्वम्छिद्रमेव च। अनाश्रयमनालम्बमव्यक्तमविकारिता। अप्रतीघातिता चैव भूतत्वं विकृतानि च”।
“गगबं गणा-धिपतिमूर्त्तिरिति” माघः।
“अवोचदेनं गगनस्पृशा(स्वरेण) रघुः।
“प्रेक्षिष्यन्ते गगनगतयो नूनमाव र्ज्य-दृष्टीः” मेघ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

गगन n. the atmosphere , sky , firmament R. Sus3r. Ragh. Na1rUp. etc.

गगन n. talc Bhpr.

"https://sa.wiktionary.org/w/index.php?title=गगन&oldid=498640" इत्यस्माद् प्रतिप्राप्तम्