यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधरः, पुं, (धरतीति धरः । धृ + अच् । गङ्गाया धरः । स्वशिरोजटाभिरिति शेषः ।) शिवः । इत्य- मरः । १ । १ । ३६ ॥ (अस्य गङ्गाधारणविवरणं यथा, रामायणे । १ । ४३ । १-११ । “देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम ! वत्सरं समुपासत ॥ अथ संवत्सरे पूर्णे सर्व्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥ प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ततो हैमवती ज्येष्ठा सर्व्वलोकनमस्कता । तदा सातिमहद्रूपं कृत्वा वेगञ्च दुःसहम् ॥ आकाशादपतद्राम ! शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ॥ विशाम्यहं हि पातालं स्रोतस्रा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि ॥ हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे । सा कथञ्चित् महीं गन्तुं नाशक्नोत् यत्नमास्थिता ॥ नैव सा निर्गमं लोभे जटामण्डलमन्ततः । तत्रैवावभ्रमद्देवी संवत्सरगणान् बहून् ॥ तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ! ॥ विससर्ज ततो गङ्गां हरो विन्दुसरः प्रति ॥”) समुद्रः । इति त्रिकाण्डशेषः ॥ * ॥ (जीर्णाति- साररोगनाशकचूर्णौषधविशेषः । यथा, -- “धातक्यामलकीपयोधरवृकीकट्वङ्गयष्ठीमधु- श्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः । तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह- च्चूर्णं तूर्णमपाकरोति सकलं जीर्णातिसारं परम् ॥” इति शब्दार्थचिन्तामणिः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।34।1।1

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः। अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधर¦ पु॰ गङ्गां धरति मूर्द्ध्रा धृ--अच्

६ त॰।

१ महादेवेअमरः। गङ्गाशब्दे तद्धारणकथा दृश्या गङ्गामृदादवो-ऽप्यत्र।

२ समुद्रे त्रिका॰। लोलम्बराजोक्ते जीर्ण्णातिसार-नाशके चूर्णभेदे यथा
“धातक्यामलकीपयोधरवृकीकट्वङ्ग-यष्टीमधुश्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः। तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह-[Page2492-b+ 38] च्चूर्णंतूर्णमपाकरोति सकलं जीर्ण्णातिसारं परम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधर¦ m. (-रः)
1. An epithet of SIVA.
2. The ocean. E. गङ्गा the Ganges, and धर who possesses or receives; according to the legend, the Ganges in its descent first alighted on the head of SIVA, and con- tinued for some period entangled in his hair.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधर/ गङ्गा--धर m. " Ganges-receiver " , the ocean L.

गङ्गाधर/ गङ्गा--धर m. " Ganges-supporter " , N. of शिव(according to the legend the Ganges in its descent from heaven first alighted on the head of शिवand continued for a long period entangled in his hair See. R. i , ch. 44 )

गङ्गाधर/ गङ्गा--धर m. N. of a man

गङ्गाधर/ गङ्गा--धर m. of a lexicographer

गङ्गाधर/ गङ्गा--धर m. of a commentator on the शारीरक-सूत्रs

गङ्गाधर/ गङ्गा--धर m. of a commentator on भास्कर

"https://sa.wiktionary.org/w/index.php?title=गङ्गाधर&oldid=498665" इत्यस्माद् प्रतिप्राप्तम्