यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाधरः, पुं, (धरतीति धरः । धृ + अच् । गङ्गाया धरः । स्वशिरोजटाभिरिति शेषः ।) शिवः । इत्य- मरः । १ । १ । ३६ ॥ (अस्य गङ्गाधारणविवरणं यथा, रामायणे । १ । ४३ । १-११ । “देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम ! वत्सरं समुपासत ॥ अथ संवत्सरे पूर्णे सर्व्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥ प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ततो हैमवती ज्येष्ठा सर्व्वलोकनमस्कता । तदा सातिमहद्रूपं कृत्वा वेगञ्च दुःसहम् ॥ आकाशादपतद्राम ! शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ॥ विशाम्यहं हि पातालं स्रोतस्रा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि ॥ हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे । सा कथञ्चित् महीं गन्तुं नाशक्नोत् यत्नमास्थिता ॥ नैव सा निर्गमं लोभे जटामण्डलमन्ततः । तत्रैवावभ्रमद्देवी संवत्सरगणान् बहून् ॥ तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ! ॥ विससर्ज ततो गङ्गां हरो विन्दुसरः प्रति ॥”) समुद्रः । इति त्रिकाण्डशेषः ॥ * ॥ (जीर्णाति- साररोगनाशकचूर्णौषधविशेषः । यथा, -- “धातक्यामलकीपयोधरवृकीकट्वङ्गयष्ठीमधु- श्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः । तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह- च्चूर्णं तूर्णमपाकरोति सकलं जीर्णातिसारं परम् ॥” इति शब्दार्थचिन्तामणिः ॥)

"https://sa.wiktionary.org/w/index.php?title=गङ्गाधरः&oldid=130919" इत्यस्माद् प्रतिप्राप्तम्