यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजन्द्र¦ पु॰ गज इन्द्र इव व्याघ्रा॰ उपमितस॰,

६ त॰ वा।

१ श्रेष्ठ-गजे।

२ गजयथपतौ च।
“नेत्रश्रियं विकसतो विदधुर्ग-जेन्द्राः” माघः। अगस्त्यशापेन गजेन्द्रतां प्राप्ते

३ इन्द्रद्युम्नेनृपे च तस्य तथाशापादिकथा भाग॰

८ क॰

४ अ॰ उक्ता यथा(
“स वै पूर्वमभूद्राजा पाण्ड्योद्रविडसत्तमः। इन्द्र-द्युम्न इति ख्यातो विष्णुव्रतपरायणः। स एकदा-राधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम्। जटाधरस्तापस आप्लुतोऽव्युतं समर्चयामास कुलाचला-श्रमः। यदृच्छया तत्र महायशा मुनिः समागमच्छिव्य-गणैः परिश्रितः। तं वीक्ष्य तूणीमकृतार्हणादिकंरहस्युपासीनमृषिश्चुकोप ह! तस्माइमं शापमदाद-साधुरयं दुरात्माऽकृतबुद्धिरद्य। विप्रावमन्ता विशतांतमित्रं यथा गजस्तब्धमतिः स एव। श्रीशुक उवाच। एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप! सानुगः। इन्द्र-द्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन्। आपन्नः कौ-ञ्जरीं योनिमात्मस्मृतिविनाशिनीम्। हर्य्यर्च्चनानु-भावेन यद्गजत्वेऽप्यनुस्मृतिः”। ततः तच्छापेन गजेन्द्रतां प्राप्तस्य कदाचित् त्रिकूटपर्वते वरुणोद्यानस्थसरसि निमग्नस्य ग्राहेण ग्रहणं[Page2497-a+ 38] पूर्वजन्माज्जि तहरिसेवावासनावशात् हरिस्तवनमेवतदुपायतया संचिन्त्य तस्य स्तवने कृते हरिणा तस्यततो विमोक्षणं कृतं तेनैव च दिव्यगतिलाभश्च तस्यजात इत्येषा कथा तत्रैव

३० अ॰ स्थिता दिग्मात्रं ततःउदाह्रियते।
“घृणी करेणुं करभांश्च दुर्भदो नाचष्ट कृच्छ्रं कृपणोऽज-मायया। तं तव कश्चिन्नृप! दैवचोदितो ग्राहो बलीयां-श्चरणे रुषाऽग्रहीत्। यदृच्छयैवं व्यसनं गतो गजो यथा-बलं सोऽतिबली विचक्रमे। यथातुरं यूथपतिं करेणवोविकृष्यमाणं तरसा बलीयसा। विचक्रुशुर्दीनधियो-ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन्। नियु-ध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतीरन्तरतो बहिर्म्मिथः। समाः सहस्रं व्यगमन्महीपते! सप्राणयाश्चित्रममं-सतामराः। तती गजन्द्रस्य मनोवलौजसां कालेन दी-र्वण महानभूद्व्यवः। विकृव्यमाणस्य जलेऽवसीदतोविपर्य्ययोऽभूत् सकलं जलौकसः। इत्थं गजेन्द्रः सयदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया। अपा-यन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यप-द्यत। न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यःभवति मोक्षधुम्। ग्राहेण पाशेन विधातुरावृतो-वहं च तं यामि परं परायणम्। यः कश्चनेशोब-लनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम्।{??}तं प्रपन्नं परिपाति, यद्भयान्मृत्युः प्रधावत्यरणंतमीमहि”। भा॰

८ ।

२ अ॰। ततः तत्कृतस्तुतिमुपवर्ण्ण्य

३ अ॰ शेषे, हरिणा ततोगजेन्द्रस्य मोक्षणमुक्तं यथा( एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविध-लिङ्गभिदाभिमानाः। नैते यदोपससृपुर्निखिलात्मक-त्वात्तत्राखिलामरमयो हरिराविरासीत्। तं तद्वदार्त्त-मुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सहसंस्तुवद्भिः। छन्दोमयेन गरुडेन समुह्यमानश्चकायुधोऽभ्यग-मदाशु यतो गजेन्द्रः। सोऽन्तःसरस्युरुवलेन गृही-त आर्त्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्। उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छान्नारायणाखिल-गुरो! भगवन्नमस्ते। तं वीक्ष्य पीडितमजः सहसा-ऽवतीर्व्य स ग्राहमाशु सरसः कृपयोज्जहार। ग्राहा-द्विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुच-दुच्छ्रियाणाम्”। [Page2497-b+ 38] गजेन्द्रमोक्षणरूपस्य हरिचरितस्य श्रवणे फलमाह
“एतन्महाराज! तवेरिता मया कृष्णानुभावो गजराजमोक्षणम्। स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशंकुरुवर्य! शृण्वताम्। यथानुकीर्त्तयन्त्येतच्छ्रयस्कामाद्वि-जातयः। शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये”। तद्गजेन्द्रकृतस्तवमाहात्म्यमपि तत्रैवोक्तं यथा
“ये मांस्त्युवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये। तेषां प्राणात्ययेचाहं ददामि विमलां मतिम्” तं प्रति हरेर्वरदानम्।

"https://sa.wiktionary.org/w/index.php?title=गजन्द्र&oldid=320883" इत्यस्माद् प्रतिप्राप्तम्