यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपिप्पली, स्त्री, (गजोपपदेन युक्ता पिप्पली । गजनाम्ना ख्याता पिप्पली वा ।) पिप्पलीभेदः । गजपि~पुल इति भाषा । तत्पर्य्यायः । करि- पिप्पली २ इभकणा ३ कपिवल्ली ४ कपिल्लिका ५ श्रेयसी ६ वशिरः ७ गजाह्वा ८ । इति रत्न- माला ॥ कोलवल्ली ९ । इत्यमरः ॥ वसिरः १० । इति तट्टीका ॥ गजोषणा ११ चव्यफलम् १२ चव्यजा १३ छिद्रवैदेही १४ दीर्घग्रन्थिः १५ तैजसी १६ वर्त्तली १७ स्थूलवैदेही १८ । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । रुजामल- विशोषणत्वम् । वलासवातहरत्वम् । स्तनकर्ण- विवर्द्ध्वनत्वञ्च । इति राजनिर्घण्टः ॥ भेदाग्नि- कारित्वम् । इति राजवल्लभः ॥ तत्पर्य्याय- मुणाः । यथा, भावप्रकाशः । “चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ॥ गजकृष्णा कटुवातश्लेष्मनुद्बह्निबर्द्धिनी । उष्णा निहन्त्यतीसारश्वासकण्ठामयक्रिमीन् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपिप्पली¦ स्त्री गजोपपदा पिप्पली शाक॰ त॰। स्वनाम-ख्यातायां पिप्पल्याम्।
“चविकायाः फलं प्राज्ञैः कथितागजपिप्पली। गजकृष्णा कटुर्वातश्लेष्मनुत् वह्निव-र्द्धिनी। उष्णा निहन्त्यतीसारश्वासकण्ठामयक्रमीन्” भावप्र॰ हरतीति शेषः।
“मूर्वा निर्दहनी गाठात्र्यूषणं गजपिप्पली” सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपिप्पली¦ f. (-ली) A plant bearing a seed which resembles pepper, (Poth- os officinalis) E. गज an elephant, and पिप्पली long pepper; consi- dered to be a large species of pepper: see similar names, as करि- पिप्पली, इभकणा, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपिप्पली/ गज--पिप्पली f. = -कृष्णाSus3r. vi , 40 , 36.

"https://sa.wiktionary.org/w/index.php?title=गजपिप्पली&oldid=498705" इत्यस्माद् प्रतिप्राप्तम्