यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाननः, पुं, (गजस्य हस्तिन आननं मुखमेव आननं यस्य ।) गणेशः । इत्यमरः । १ । १ । ४१ ॥ (यथा, ब्रह्मवैवर्त्ते गणेशखण्डे ६ अध्याये । “शनिदृष्ट्या शिरश्छेदात् गजवक्त्रेण योजितः । गजाननः शिशुस्तेन नियतिः केन बाध्यते ॥” पुराणान्तरे मतभेदोऽपि दृश्यते यथा, स्कान्दे गणेशखण्डे ११ अध्याये । गुरुरुवाच । “अवतारो यदि धृतः साधुत्राणाय भो विभो ! प्रकाशयाशु वदनं सर्व्वेषां शोकनाशनम् ॥ नयस्व सर्व्वदेवानामानन्दं हृदये प्रभो ! । शिव उवाच । प्रत्युवाच गुरुं पुत्त्रः पार्व्वत्या हीनमस्तकः ॥ शिशुरुवाच । महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा । तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो मुदा ॥ गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता । तत् सर्व्वमभवत् तस्य विद्यते चारुमस्तकः ॥ पूज्यमानः शिवेनास्ते शुण्डादण्डः सुशोभनः । अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् ॥ शिव उवाच । आश्चर्य्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् ॥ गुरुरुवाच । भगवत ! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः । मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो ! ॥ अहमीशस्वरूपं ते परिच्छेत्तुं न च क्षमः । श्रुत्वैव ब्रह्मणः पुत्त्रो नारदस्तत्र चाब्रवीत् ॥ नारद उवाच । एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो ! । अथवा बालरूपस्य छिन्नं ते केन तच्छिरः ॥ एतन्मे संशयं छिन्धि कृपया परमेश्वर ! । शिव उवाच । निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः ॥ शिशुरुवाच । सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत् । अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः ॥ तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्बिज ! । शिव उवाच । श्रुत्वैव नारदः प्राह शिशुरूपिणमीश्वरम् ॥ नारद उवाच । अकिञ्चिज्ज्ञा वयं देव ! योजनेऽस्य मुखस्य ते । त्वमेव च स्वभावेन मखमेतन्नियोजय ॥ शिव उवाच । वदतीत्थं मुनिर्यावत् तावत् स ददृशेऽखिलैः । सर्व्वावयवसम्पूर्णो गजानन उमासुतः ॥ किरीटकुण्डलधरो युगबाहुः सुलोचनः । वामदक्षिणभागे च सिद्धिवृद्धिविराजितः ॥ दृष्ट्वा विनायकं स्कन्द ! तथाभूतं निजेच्छया । हर्षेणोत्फुल्लनयना देवाः सर्व्वे तदाब्रुवन् ॥ गजानन इति ख्यातो भविताऽयं जगत्त्रये । एवं भाद्रचतुर्थ्यां स अवतीर्णो गजाननः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजानन पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।2।4

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजानन¦ पु॰ गजस्याननमाननं यस्य।

१ गणेशे अमरः। इभाननशब्दे

९८

१ पृ॰ दृश्यम्। स्कन्दपु॰ गणेशख॰

११ अ॰ तुअन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तक-शून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन गजा-सुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा
“गुरुरुवाचअबतारो यदि धृतः साधुत्राणाय भो विभो!। प्रकाश-याशु वदनं सर्वेषां शोकनाशनम्। नयस्व सर्वदेवानामानन्दं हृदयं प्रभो!। शिव उवाच। प्रत्युवाच गुरुंपुत्रः पार्वत्या हीनमस्तकः। शिशुरुवाच। महेशाख्येनराज्ञा ते प्रणतौ चरणौ यदा। तदाशीर्या त्वया दत्तातस्मै राज्ञे गुरो! मुदा। गजयोनौ जनिर्मुक्तिः शिव-हस्तादुदीरिता। तत्सर्वमभवत् तस्य विद्यते चारुम-स्तकः। पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः। अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम्। शिवौवाचआश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम्। गुरुरुवाच। भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः। मया य-दुदितं तस्मै त्वया ज्ञातं यतः प्रभो!। अहमीशस्वरू-पन्ते परिच्छेत्तुं न च क्षमः। श्रुत्वैवं ब्रह्मणः पुत्रोनारदस्तव्र चाव्रवीत्। नारद उवाच।
“एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो!। अथवाबालरूपम्य छिन्नन्ते केन तच्छिरः। एतन्मे संशयं छिन्धिकृषया परमेश्वर!। शिव उवाच। निपीय नारदींवाणीमुवाच शिशुरुच्चकैः। शिशुरुवाच। सिन्दूरः कोऽपि[Page2496-a+ 38] दैत्यो मे वायुरूपधरोऽच्छिनत्। अष्टमे मासि सम्पूर्णेप्रविश्योमोदरं शिरः। तमिदानीं हनिष्येऽहं गजास्यंसाम्प्रतं द्विज!। शिवौवाच। श्रुत्वैवं नारदः प्राहशिशुरूपिणमोश्वरम्। नारदौवाच। अकिञ्चिज्ज्ञा वयंदेव! योजनेऽस्य मुखस्य ते। त्वमेव च स्वभावेन मुख-मेतन्नियोजय। शिवौवाच। वदतीत्थं मुनि र्यावत्तावत्स ददृशेऽखिलैः। सर्वावयवसम्पूर्णो गजाननौमासुतः। कीरीटकुण्डलधरो युगवाहुः सुलोचनः। वामदक्षिण-भागे च सिद्धिवृद्धिविराजितः। दृष्ट्वा विनायकं स्कन्द!तथाभूतं निजेच्छया। हर्षेणोत्फुल्लनयना देवाः सर्वेतदाऽब्रुवन्। गजानन इति ख्यातो भवितायं जगत्त्रये”
“एवं भाद्रचतुर्थ्यां स अवतीर्ण्णो गजाननः” इति चतत्राध्याये।

६ त॰। हस्तिमुखे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजानन¦ m. (-नः) The deity GANESHA. E. गज an elephant, and आनन a face; see गजवदन।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजानन/ गजा m. = ज-मुखGan2P. Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=गजानन&oldid=498733" इत्यस्माद् प्रतिप्राप्तम्