यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण, त् क संख्याने । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः । गणयति । इति दुर्गादासः ॥

गणः, पुं, (गण्यते गणयति वा कर्म्मण्यप् । कर्त्तरि अच् वा ।) समूहः । (यथा, हितोपदेशे १ । ९३ । “न गणस्याग्रतो गच्छेत् सिद्धे कार्य्ये समं फलम् ॥”) प्रमथः । (यथा, मेघदूते । ३५ । “भर्त्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः ॥”) रुद्रानुचरः । (यथा, गोः रामायणे । ५ । ८९ । ७ । “धनाध्यक्षसभां देवः प्राप्तो हि वृषभध्यजः । उमासहायो देवेशो गणैश्च बहुभिर्वृतः ॥”) सेनासंख्याविशेषः । तद्यथा । गजाः २७ रथाः २७ अश्वाः ८१ पदातिकाः १३५ समु- दायेन २७० । इत्यमरः । २ । ८ । ८१ ॥ (यथा, महाभारते । “त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ॥”) संख्या । चोरनामगन्धद्रव्यम् । इति मेदिनी ॥ * ॥ गणेशः । यथा, महानिर्व्वाणतन्त्रे । “गाणपस्तु महेशानि ! गणदीक्षाप्रवर्त्तकः ॥” अश्विन्यादिजन्मनक्षत्रानुसारेण देवमानुष- राक्षसगण इति तु पारिभाषिकम् । यथा, -- “दे म रा म दे मा दे दे रा रा म म द रा द रा ॥ दे रा रा म म दे रा रा म म देति गणत्रयम् ॥” इति ज्योतिषरत्नमाला ॥ “पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी । इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः । चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥ अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः । अनुराधा मृगशिरः श्रवणं देवतारकाः ॥” इति निबन्धः ॥ (तस्य मिलनकथनं यथा, ज्योतिषे । “सजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥”) धातुसमूहः । यथा, मनोरमा । “भ्वाद्यदादिजुहोत्यादिदिवादिः स्वादिरेव च । तुदारुधातनुक्र्यादिश्चुरादिश्च गणा दश ॥” (छन्दःशास्त्रोक्तपारिभाषिकाक्षरविशेषः । स तु म-न-भ-य-ज-र-स-त-ग-लसंज्ञः । इति छन्दो- मञ्जरी ॥ * ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥” दैत्यविशेषः । स तुं अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः । यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये । “अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ । पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥ तृषिता सा गुणवती पपौ चाञ्जलिना जलम् । यद्बीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥” “भार्य्यागुणवती तस्य नवमासादनन्तरम् । पुत्त्रं प्रसूताह्नि शुंभे दिव्यरूपं गुणाद्भुतम् ॥ ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता । कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥” स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् । कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेश- माराधयामास । अथ प्रसन्नेन गणपतिना तद्- गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा- कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।40।1।5

समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

गण पुं।

गणसेना

समानार्थक:गण

2।8।81।1।3

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥

पदार्थ-विभागः : नाम

गण पुं।

सङ्घातः

समानार्थक:गण

3।3।46।1।2

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

पदार्थ-विभागः : समूहः

गण पुं।

शिवानुचरः

समानार्थक:प्रमथ,पारिषद,गण

3।3।46।1।2

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

स्वामी : शिवः

सम्बन्धि1 : शिवः

 : नन्दिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण¦ सख्याने अद॰ चु॰ उभ॰ सक॰ सेट्। गणयति ते अ-[Page2498-b+ 38] जीगणत् त अजगणत् त। गणयाम्--बभूव आस-चकार चक्रे। गणयितव्यः। गण्यः। गणयिता गणयन्। गणितम्। गणनम् गणना। गणायत्वा। विग-णय्य। गणः,
“गणयति विहितहुताशविकल्पम्” गीतगो॰
“तां भक्तिरेवागणयत् पुरस्तात्” रघुः।
“पदानि गणयन्गच्छ स्वानि नैषध! कानिचित्” भा॰ व॰

२६

१८ । नलं प्रतिकर्कोटकनागोक्तिः
“यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्रिर्यदि नायुषः स्यात्। पारेपरार्द्ध ग-णितं यदि स्यात् गणेयनिःशषगुणोऽपि स स्यात्” नैष॰।
“लीलाकमलपत्राणि गणयामास पार्वती” कुमा॰।
“अजी-गणद्दाशरथं न वाक्यम्” भट्टिः।
“वाणीं काणभुजीमजी-गणदवासासीच्च वैयासिकीस्” माघटी॰, मल्लिनाथः
“वृह-स्पतिश्च भगवानादित्येष्येव गण्यते” भा॰ आ॰

२६

०३ श्लो॰अव + अवज्ञायाम्।
“नार्थनूनैर्नावगणैरेकात्मभिरसाधनैः” भा॰ व॰

८२ अ॰। वि + विशेषेण संख्याने
“अदूरवर्त्तिनीं सिद्धिं राजन्! विग-णयात्मनः” रघुः।

गण¦ पु॰ गण--कर्मणि अच कर्त्तरि अच् वा।

१ समूहे।
“गणानां त्वां गणपतिम्” यजु॰

२३ ,

१९ ।
“गणपतिं गणानांसमूहानां पालकम्” येददी॰।

२ प्रमथे
“सकलहंसगणंशुचि मानसम् शिवमगात्मजया च कृतेर्ष्यया सकलहंसगणं शुचिमानसम्”
“गणानमेरुप्रसवावतंसाः” कुमा॰। सेनाविशेषाणां

३ सङ्ख्याविशेषे अमरः। स च अनीकि-नीशब्दे

१६

९ पृ॰ दर्शितेन
“त्रयोगुल्मा गणो नाम” इत्या-दिवाक्येन उक्तः तेन (रथाः

२७ गजाः

२७ । अश्वाः

८१ प-दातिकाः

१३

५ सर्वसमष्टिः

२७

० , इति संख्याविशेषः)।

४ चोरनामगन्धद्रव्ये मेदि॰। गणः प्रमथादिः वश्यत्वेनसत्त्वादिगुणगणः वश्यत्वेन वा गणः गणदैत्यः नाश्यत्वेनवाऽस्त्यस्य अच्।

५ गणेशे
“गणदीक्षाप्रवर्त्तकः” महानि॰। प्रमथाधिपत्वात् तस्य गणेशत्वम्। विवाहे वरकन्ययो-र्मेलनज्ञानोपयोगिनि

६ देवराक्षसमानुषसूचके ताराभेद-वर्गे उपयमशब्दे

१२

५० पृ॰ बिवृतिः।
“गणमैत्री भकूटं चनाडी चैते गुणाधिकाः” मुहूर्त्तचि॰।
“नो गणानांच दोषः” ज्यो॰ त॰।

७ ध्रुवादिसंज्ञके नक्षत्रविशेष-समूहे
“उग्रः पूर्वमघान्तका ध्रुवगणः इत्यादि” ज्यो॰ त॰। सम्भूय एकद्रव्यतापादनेन

८ बाणिज्यकारिणि-बणिक्समूहे च
“श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः”
“गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्” याज्ञव॰। [Page2499-a+ 38]
“भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च। तु-दादिश्च रुधादिश्च तनक्र्यादिचुरादयः” उक्तेषु शबादि-विकरणविशेषनिमित्तेषु दशसु

९ धातुसमुदायेषु तद्युक्त-त्वात्

१० गणपाठग्रन्थेऽपि। पाणिनिरचिते

११ स्वरादि-स्मरूपप्रतिपादकग्रन्थे

१२ देत्यभेदे स च दैत्यः अभिजिद-परनाम्नो गुणवतः गुणवत्यां जातः यथाह स्कन्दपु॰गणेशख॰

३ अ॰
“अथ सोप्यऽभिजित् पत्न्या समुद्रस्नान-माययौ। पर्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह। तृषिता सा गुणवती पपौ चाऽञ्जलिना जलम्। यद्वीर्य्यंब्रह्मणात्यक्तं दैवात्तदुदरे गतम्”।
“भार्य्या गुणवती तस्यनवमासादनन्तरम्। पुत्रं प्रासूताऽह्नि शुभे दिव्यरूपंगुणाद्भुतम्। ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधांपिता। कृत्वाभ्युदयिकं चक्रे व्यतीते दशमेऽहनि” स च महादेवमाराध्य लब्धवरस्त्रैलोक्यं निर्जित्यकपिलमुनेश्चिन्तामणिं हृतवान् तेन जातमन्युना तेनगणेशस्य सेवने कृते गणेशेन तद्गृहे अवतीर्य्य तं गण-दैत्यं नाशितवान् इत्येषा कथा तत्रैव विस्तीर्णा दिङ्मात्रमुच्यते यथा
“कथं नाशितवाञ्छम्भो! गणदैत्यं विना-यकः। तर्त्सवं कृपया देव! कथयस्व ममाग्रतः। शिव-उवाच। यथा नाशितवान् दैत्यं गणं दुष्टमतिं विभुः। तथाहं कथष्यामि तच्छृणुष्व षडानन”

६ अ॰ इत्युपक्रम्य(
“प्राप्तसंज्ञां परशुना हन्ति स्म नं रुषा विभुः। दृष्टवान् परशुं वीरमुख्यः सूर्यमिवाऽपरम्। सुतीक्ष्णंज्वालया व्याप्तं कालचक्रनिभं शुभम्। दहन्तं दश-दिग्भागान् प्रलयानलसन्निभम्। यदा तत्सादरं द्रष्टुमुपचक्राम दैत्यराट्। तदैवापातयच्छित्वा परशुस्तस्यमस्तकम्। सपर्वतवना पृथ्वी चात्नसत् सागरैः सह। अभिजित्प्रमुखाः सर्वे रुरुदुः पतिते गणे”

७ अ॰। शस् गणशस्, कृत्वस् गणकृत्वस् वीप्सार्थे कारकार्थ-वृत्तौ गणशब्दार्थे अव्य॰।

१३ स्वपक्षे
“सगणायमपरिवाराय सायुधाय सशक्तिकाय इन्द्राय नमः” इतिविधानपारिजा॰।

१४ वाक्ये निघण्टुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण¦ r. 10th cl. (गणयति) To count, to reckon up by: number, to calculate.

गण¦ m. (-णः)
1. A flock, a multitude, a troop, a tribe or class, &c.
2. A body of troops equal to three Gulmas or twenty-seven chariots and as many elephants, eighty-one horses, and 135 foot.
3. Troops of inferior deities considered as SIVA'S attendants, and under the especial superintendance of GANESHA.
4. A name of GANESHA.
5. A number (in arithmetic.)
6. A kind of perfume, commonly Chor. [Page228-b+ 60]
7. A sect in philosophy or religion.
8. A conjugation, a class or ridicals.
2. Series of asterisms which are classed under three heads human, infernal, and divine. E. गण् to count to reckon, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणः [gaṇḥ], [गण् कर्मणि कर्तरि वा अच्]

A flock, multitude, group, troop, collection; गुणिगणगणना, भगणः

A series, a class.

A body of followers or attendants.

Particularly, a troop of demigods considered as Śiva's attendants and under the special superintendence of Gaṇeśa, a demigod of this troop; गणानां त्वा गणपतिं हवामहे कविं कवीनाम् &c.; गणा नमेरुप्रसवावतंसाः Ku.1.55,7.4,71; Me.35.57; Ki.5.13.

Any assemblage or society of men formed for the attainment of the same objects.

A company, association.

A tribe, class.

A series of lunar mansions classed under three heads (of god, men and demons).

A sect (in philosophy, religion).

A small body of troops (a sub-division of अक्षौहिणी), consisting of 27 chariots, as many elephants, 81 horses and 135 foot; Mb.1.2.21.

A number (in math.).

A foot (in prosody).

(In gram.) A series of roots or words belonging to the same rule and called after the first word of that series; e. g. भ्वादिगण i. e. the class of roots which begin with भू.

An epithet of Gaṇeśa. -Comp. -अग्रणी m. N. of Gaṇeśa. -अचलः N. of the mountain Kailāsa, as the residence of the Gaṇas of Śiva.

अधिपः, अधिपतिः N. of Śiva; Śi.9.27.

the chief of a troop of soldiers or of a class of disciples, of a body of men or animals. -अन्नम् a mess, food prepared for number of persons in common; Ms.4.29,219. -अभ्यन्तर a. one of a troop or number. (-रः) the leader or member of any religious association; Ms.3.154. -ईशः N. of Gaṇapati, Śiva's son (see गणपति below). ˚जननी an epithet of Pārvatī. ˚भूषणम् red-lead.

ईशानः, ईश्वरः an epithet of Gaṇeśa.

of Śiva. -उत्साहः the rhinoceros.

कारः a classifier.

an epithet of Bhīmasena. -कृत्वस् ind. for a whole series of times, for a number of times. -गतिः a particular high number. -चक्रकम् a dinner eaten in common by a party of virtuous men. -छन्दस् n. metre regulated and measured by feet. -तिथ a. forming a troop or collection.

दीक्षा initiation of a number or a class.

performance of rites for a number of persons.-दीक्षिन् a.

one who officiates for a number of persons or for various castes (as a priest).

one who has been initiated into the worship of Ganeśa. -देवताः (pl.) groups of deities who generally appear in classes of troops; Ak. thus classifies them: आदित्यविश्ववसव- स्तुषिता भास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥

द्रव्यम् public property, common stock; Y.2.187.

a variety of articles.

धरः the head of a class or number.

the teacher of a school.

नाथः, नाथकः an epithet of Śiva.

of Gaṇeśa.

the leader of the attendants of any god; Bhāg.5.17.13.

the head of an assemblage or corporation; Bṛi. S.15.4.-नायिका an epithet of Durgā. -पः,

पतिः N. of Śiva.

N. of Gaṇeśa. [He is the son of Śiva and Pārvatī, or of Pārvatī only; for according to one legend, he sprang from the scurf of her body. He is the god of wisdom and remover of obstacles; hence he is invoked and worshipped at the commencement of every important undertaking. He is usually represented in a sitting posture, short and fat, with a protuberant belly, and four hands; riding a mouse; and with the head of an elephant. This head has only one tusk, the other having been lost in a scuffle between him and Paraśurāma when he opposed the latter's entrance to Śiva's inner apartments; (whence he is called Ekadanta, Ekadaṁṣṭra &c.). There are several legends accounting for his elephant head. It is said that he wrote the Mahābhārata at the dictation of Vyāsa who secured his services as a scribe from the god Brahman].

also an epithet of Bṛihaspati and Indra.

the leader of a class or troop.-पर्वत see गणाचल. -पाठः a collection of gaṇas or series of words falling under the same grammatical rule.-पीठकम् the breast, bosom. -पुङ्गवः the head of a tribe or class. (pl.) N. of a country and its people; Bṛi. S.4.24. -पूर्वः the leader of a tribe or class; (ग्रामणी); Mb.13.23.2. ˚तापनी N. of a Upaniṣad. -भर्तृ m.

an epithet of Śiva; गणभर्तृरुक्षा Ki.5.42.

the leader of a class. -भोजनम् mess, eating in common. -यज्ञः a rite common to all. -रत्नमहोदधिः a collection of grammatical gaṇas by Vardhamāna.-राज्यम् N. of an empire in the Deccan; Bṛi. S.14. 14. -रात्रम् a series of nights. -वल्लभः a general of the army (सेनानायक); Rām.2.81.12. -वृत्तम् see गणच्छन्दस्.-हासः, -हासकः a species of perfume.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण m. a flock , troop , multitude , number , tribe , series , class (of animate or inanimate beings) , body of followers or attendants RV. AV. etc.

गण m. troops or classes of inferior deities (especially certain troops of demi-gods considered as शिव's attendants and under the special superintendence of the god गणे-श; See. -देवता) Mn. Ya1jn5. Lalit. etc.

गण m. a single attendant of शिवVarBr2S. Katha1s. Ra1jat. iii , 270

गण m. N. of गणे-शW.

गण m. a company , any assemblage or association of men formed for the attainment of the same aims Mn. Ya1jn5. Hit.

गण m. the 9 assemblies of ऋषिs under the अर्हत्महा-वीरJain.

गण m. a sect in philosophy or religion W.

गण m. a small body of troops (= 3 गुल्मs or 27 chariots and as many elephants , 81 horses , and 135 foot) MBh. i , 291

गण m. a series or group of asterisms or lunar mansions classed under three heads (that of the gods , that of the men , and that of the राक्षसs) W.

गण m. (in arithm. ) a number L.

गण m. (in metre) a foot or four instants(See. -च्छन्दस्)

गण m. (in Gr. )a series of roots or words following the same rule and called after the first word of the series( e.g. अद्-आदि, the g. अद्etc. or the whole series of roots of the 2nd class ; गर्गा-दि, the g. गर्गetc. or the series of words commencing with गर्ग)

गण m. a particular group of सामन्s La1t2y. i , 6 , 5 VarYogay. viii , 7

गण m. a kind of perfume L.

गण m. = वाच्( i.e. " a series of verses ") Naigh. i , 11

गण m. N. of an author

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण पु.
= चमसगण, (चमस के द्वारा सोमाहुति प्रदान करने वाले ऋत्विजों का नाम, आप.श्रौ.सू. 12.28.15 (भाष्य सम्प्रैषश्च उक्थशज सोमानाम् इति बहुवचनान्तः); (मन्त्रों का) समूह (उदाहरणार्थ मरुतों के लिए पुरोडाश की आहुतियों का साथ देने वाले सात मन्त्र), आप. श्रौ.सू. 17.16.16 (चयन); अन्य गण हैं ‘अरण्येऽनुवाक्य’ एवं ‘ग्रामेऽनुवाक्य’; -होम पु. प्रायश्चित्त के लिए संयुक्त हवियां, श्रौ.प.नि. 43.356.

"https://sa.wiktionary.org/w/index.php?title=गण&oldid=498759" इत्यस्माद् प्रतिप्राप्तम्