यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदा, स्त्री, (गदयति पीडयत्यनया विपक्षमितिशेषः । गद् + णिच् + करणे अप + टाप् च । गदयतीति णिच् अच् वा ।) स्वनामख्यातलौहमयास्त्रम् । इति मेदिनी । दे । ४ ॥ (यथा महाभारते । ९ । ५६ । ४५ । “तं महात्मा महात्मातं गदामद्यम्य पाण्डवः । आमदुद्राव वेगेन धार्त्तराष्ट्र वृकादरः ॥ गदायुद्धस्य गतिप्रहारादिभेदो यथा तत्रैव । ९ । ५७ । १७--२० । “अचरद्भीमसेनस्तु मागान् बहुविधांस्तथा मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥ अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च । परिमोक्षं प्रहराणां वर्ज्जनं परिवारणम् ॥ अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् । परिवर्त्तनसंवर्त्तमवप्लुतमुपप्लुतम् ॥ उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ । एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥” भगवतो विष्णोर्गदा तु गदसंज्ञकस्यासुरविशेष- स्यास्थ्ना देवशिल्पिना विश्वकर्म्मणा निर्म्मिता । अतएवासौ गदेति नाम्ना प्रसिद्धा अपरा गदा तु एतदुपलक्षणेनैव सिद्धेति बोध्यम् । यथा, वायु- पुराणे गयामाहात्म्ये ५ अध्याये । “गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः । प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि दुस्त्यजम् । ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भतां तदा ॥” योगविशेषः । यथा, लघुजातकप्रकरणे । १० । ३ । “अनन्तरयोः केन्द्रयोर्यदा सर्व्वे ग्रहा भवन्ति । तदा गदानाम योगो भवति ॥”) पाटलावृक्षः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदा¦ स्त्री गद--अच् टाप्।

१ स्वनामख्याते लौहादि-कीलिते,

२ लौहमये वाऽस्त्रभेदे, तद्युद्धक्रियाभेदोवह्नि पु॰ धनुर्वेदे दर्शितो यथा
“आहतं विहृतं चैवगोमूत्रकमनावनम्। तथोर्द्धगावनमितं वामदक्षिणमेव[Page2517-a+ 38] च। व्याहृतञ्च परावृत्तम् पादोद्धूतमवप्लुतम्। हंसमार्गं विमागञ्च गदाकर्म्म प्रकीर्त्तितम्”। तत्रैवा-नतिदूरे च
“सव्यासव्यवटङ्गञ्च वराहोद्धूतकं तथा। हस्तावहस्तपालीनमेकहस्तावहस्तके। द्विहस्तबाहुपाशेच कठिकाचितकोद्धते। प्रव्ये ललाटघाते च भुजावि-धमनं तथा। कारोद्धूतं विमानञ्च पादाहतविपादकम्। गात्रसंप्रंषणं क्लान्तं तथागात्रविपर्य्ययम्। ऊर्द्धप्रहारंवातञ्च गोमूत्रे सव्यदक्षिणे। पादसन्ताडनं मण्डंकवचं विधमाकुलम्। तिर्य्यग्वन्धमपाधातं भीमवेगप्रदर्श-नम्। सिंहाक्रातं गजाक्रान्तं गर्द्धभाक्रान्तमेव च। गदाकर्म्माणि जानीयात्”। भा॰ शल्य॰ गदापर्वणि

५७ अ॰ तु अन्यथै च प्रकारो दर्शितः यथा
“अचरद्भीमसेनस्तु मार्गान् बहुविधांस्तथा। मण्ड-लानि विचित्राणि गतप्रत्यागतानि च। अस्त्रय-न्त्राणि चित्राणि स्थानानि विविधानि च। परिमोक्षंप्रहाराणां वर्जनं परिधावनम्। अभिद्रवणमाक्षेप-मवस्थानं सविग्रहम्। परिवर्त्तनसंवर्तमवप्लुतमुपप्लु-तम्। उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ। एवन्तौविचरन्तौ तु न्यघ्नतां वै परस्परम्”।
“मण्डलानि शत्रोःपरिवेष्टनानि परितो भ्रमणानि। गतं शत्रोः सम्मुख-नमनं प्रत्यागतम् आभिमुख्येन तत एवापसरणम्। अस्त्र-यन्त्राणि कठिनमर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमप-क्षेपणं च क्रियते तदस्त्रयन्त्रम् अस्यते क्षिप्यतेऽनेनेत्यस्त्रंतच्च तद्यन्त्रं निग्रहणम् चास्त्रयन्त्रमिति समासः। स्था-नानि तेषामेवोपयोगीनि मर्मदेशादीनि परिधावनं वे-गेन सव्यापसव्यकरणम्। अभिद्रवणं वेगेनाभ्यागमनम्आक्षेपं परयत्नस्य तत्पातनहेतुतासम्पादनम्। अवस्थान-मचाञ्चल्यं सविग्रहं शत्रावुत्थिते पुनस्तेन सहयुद्धकरणंपरिवर्त्तनं शत्रुं प्रहर्त्तुं परितः प्रसरणं, संवर्त्तं शत्रु-प्रसरणस्यावरोधनम् अवप्लुतं प्रहारवञ्चनार्थं नम्रीभावेननिःसरणम् उपप्लुतं तदेवार्वाग्गमनयुक्तम्। उपन्यस्तंउपेत्यायुधप्रक्षेपः अपन्यस्तं परावृत्य पृष्ठतः कृतेन ह-स्तेन शत्रोस्ताडनम्” नी॰ क॰। गदालक्षणन्तु हेमा॰ परि॰ ख॰ लक्षणसमुच्चये
“गदा पञ्चा-शदङ्गुलायामा श्रेष्ठा, चत्वारिंशदङ्गुलायामा मध्या,त्रिंशदङ्गुलायामा कनिष्ठेत्यादि” अधिकं तत्रैव दृश्यम्। असुरभेदस्य गदस्यास्थिजातत्वात् विष्णुगदायास्तथात्वम्। यथा वायुपु॰ गयामा॰

५ अ॰।
“गदो गामासुरो ह्यासीत्[Page2517-b+ 38] वज्राद्वज्रतरो दृढः। प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थिदुस्त्यजम्। ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतांतदा। तदस्थ्ना वज्रनिष्पेषैः कुन्दैः स्वर्गेऽप्यधारयत्” तस्याश्च विष्णवे दानकथा गदाधरशब्दे वक्ष्यते अन्य गदानांतदाकृतित्वात्तथात्वम्।
“मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वा-त्मिकां गदाम्” विष्णु स॰ भा॰ धृतवाक्यात्

३ बुद्धितत्त्वे च। गदाधरः गदाभृत्।

४ पाटलावृक्षे शब्दच॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदा [gadā], [गद्-अच् टाप्] A mace, club; संचूर्णयामि गदया न सुयोधनोरू Ve.1.15. -Comp. -अग्रपाणि a. having a mace in the right hand. -धरः an epithet of Viṣṇu; Bhāg.1.8.39. -भृत् a. a club-bearer, one who fights with a mace. (-m.) an epithet of Viṣṇu. -युद्धम् a fight with clubs. -हस्त a. armed with a club.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदा f. a series of sentences Ra1matUp. ii , 5 , 4

गदा f. of दSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a votary of कृष्ण. भा. III. 1. ३५: वा. ५५. १२. १०९. 4 and ११.
(II)--Mace of विष्णु. Vi. IV. १५. १३: V. ३४. २३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GADĀ : A weapon. An asura called Gada was born to Kaśyapaprajāpati by his wife Diti. Viṣṇu killed Gada, and Viśvakarman made a weapon with his bone. Since the weapon was made from Gada's bone it came to be known as Gadā. (Agni Purāṇa, Chapter 114).


_______________________________
*6th word in right half of page 270 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गदा&oldid=498841" इत्यस्माद् प्रतिप्राप्तम्