गन्ता
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गन्ता, [ऋ] त्रि, (गच्छतीति । गम् + कर्त्तरि तृच् ।) गमनकर्त्ता । इति व्याकरणम् । (यथा, नलोपा- ख्याने । २४ । ३३ । “न ह्येकाह्ना शतं गन्तात्वामृतेऽन्यः पुमानिह ॥” गच्छति प्राप्नोतीति शीलार्थे भाविकाले तृन् । यथा, भगवद्गीतायाम् । २ । ५२ । “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्ताऽसि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥” अत्र शीलार्थ तृनन्तत्वात् न कर्म्मणि षष्ठीति बोध्यम् ॥)