यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धयुक्ति¦ स्त्री गन्धानां गन्धद्रव्याणां युक्तिर्योजनविशेषः। व॰ स॰ उक्ते गन्धद्रव्ययोजनप्रकारभेदे। गन्धयुक्तिश्चसप्रयोजनभेदसहिता तत्र

७७ अ॰ दर्शिता यथा[Page2526-b+ 38](
“स्रग्गन्धधूपाम्बग्भूषणाद्यं न शोभते शुक्लशिरोरु-हस्य। यस्मादतो मूर्धजरागसेवां कुर्यात्तथैवाञ्जनभूषणा-नाम्। लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्लेपक्वां ल्लोहचूर्णेन साकम्। पिष्टान् सूक्ष्मं मूर्ध्नि शुक्ला-म्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः। याते द्वितीये प्र-हरे विहाय दद्याच्छिरस्यामलकप्रलेपम्। सञ्छाद्य पत्रैःप्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम्। पश्चाच्छिरःस्नानसुगन्धितैलैर्लोहाम्लगन्धं शिरसो ऽपनीय। हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राजसुखं निषेवेत्। त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः। केसर-पत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम्। मञ्जिष्ठयाव्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः। तैलेनयुक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम्। तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः सव्यामोबकुलो ऽयमेव कटुकाहिङ्गुप्रधूपान्वितः। कुष्ठेनोत्पलग-न्धिकः समलयोमूर्वा भवेच्चम्पको जातीत्वक्सहितो ऽति-मुक्तकैति ज्ञेयः स कुस्तुम्बुरुः। शतपुष्पाकुन्दुरुकौ पा-देनार्धेन नखतुरुष्कौ च। मलयप्रियङ्गुभागौ गन्धोधूप्योगुडनखेन। गुग्गुलुबालकलाक्षामुस्तानखशर्कराः क्रमा-द्धूपः। अन्यो मांसीबालकतुरुष्कनखचन्दनैः पिण्डः। हरीतकीशङ्खघनद्रवाम्बुभिर्गुडोत्पलैः शैलकमुस्तकान्वितैः। नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो म-नोहराः। भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौनखगुग्गुलू च। कर्पूरबोधो मधुपिण्डितोऽयं कोप-च्छदो नाम नरेन्द्रधूपः। त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेनसंयुतैश्चूर्णः। पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन। घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि। व्याघ्रनखस्पृ-क्कागुरुदमनकनखतगरधान्यानि। कर्पूरचोरमलयैःस्वेच्छापरिवर्तितैश्चतुर्भिरतः। एकद्वित्रिचतुर्भिर्भागैर्गन्धा-र्णवो भवति। अत्युल्बणगन्धत्वाद् एकांशो नित्यमेवधान्यानाम्। कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौं। श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः। बोधः कस्तूरिकया देयः कर्पूरसंयुतया। अत्र सहस्र-चतुष्टयमन्यानि च सप्ततिसहस्राणि। लक्षं शतानि सप्तविंशतियुक्तानि गन्धानाम्। एकैकमेकभागं द्वित्रिचतुर्भा-गिकैर्युतं द्रव्यैः। षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकंकुरुते। द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य। एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र। षोडशके[Page2527-a+ 38] द्रव्यगणे चतुर्विकल्पेन भिद्यमानाम्। अष्टादश जा-यन्ते शतानि सहितानि विशत्या। षण्णवतिभेदभिन्न-श्चतुर्विकल्पो गणो यतस्तस्मात्। षण्णवतिगुणः कार्यःसा सङ्ख्या भवति गन्धानाम्। पूर्वेण पूर्वेण गतेन युक्तंस्थानं विनान्त्यं प्रबदन्ति सङ्ख्याम्। इच्छाबिकल्पैःक्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः। द्वित्री-न्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ। विषयाष्टपक्ष-दहनाः प्रियङ्गुमुस्तारसाः केशः। स्पृक्कात्वक्तगराणांमांस्याश्च कृतैकसप्तषड्भागाः। सप्तर्तुवेदचन्द्रैर्मलयनख-श्रीककुन्दुरुकाः। षोडशके कच्छपुटे यथा तथा मिश्रितै-श्चतुर्द्रव्यैः। येऽत्राष्टादशभागास्तेऽस्मिन् गन्धादयोयोगाः। नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतो-द्बोधाः। गुडगखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः। जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः। बहवोऽत्र परिजाताश्चतुर्भिरिच्छापरिगृहीतैः। सर्जरसश्रीवा-सकसमन्विता ये ऽत्र धूपयोगास्तैः। श्रीसर्जरसवियुक्तैःस्नानानि सबालकत्वग्भिः। लोध्रोशीरलतागुरुमुस्ताप्रिय-ङ्गुवनपथ्याः। नवकोष्ठोत्कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य। चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा। कटुहिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः। सप्ताह गोमूत्रेहरीतकीचूर्णसंयुते क्षिप्त्वा। गग्धोदके च भूयोविनिःक्षिपेद्दन्तकाष्ठानि। एलात्वक्पत्राञ्जनमधुमरिचैर्नाग-पुष्पकुष्ठैश्च। गन्धाम्भः कर्तव्य कञ्चित्कालं स्थितान्य-स्मिन्। जातीफलपत्रैलाकर्पूरैः कृतयमैकशिस्विभागैः। अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि। वर्ण-प्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च। संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसमुद्भवा-नाम्। कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमाव-हति वक्त्रसुगन्धितां च। ऊर्जं करोति कफजांश्च निहन्तिरोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति। युक्तेनचूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम्। चूर्णा-धिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम्। पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकर-णमस्य विडम्बनैव। कक्वोलपूगलवलोफलपारिजातैरा-मोदितं मदमुदामुदितं करोति”
“लेख्यमणिरागगन्ध-युक्तिविदः” वृ॰ स॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धयुक्ति/ गन्ध--युक्ति f. the blending of fragrant substances , preparation of perfumes (one of the 64 कलाs See. s.v. कला)

गन्धयुक्ति/ गन्ध--युक्ति f. N. of VarBr2S. lxxvii

"https://sa.wiktionary.org/w/index.php?title=गन्धयुक्ति&oldid=498926" इत्यस्माद् प्रतिप्राप्तम्