यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी, स्त्री, (गर्भोऽस्त्यस्याम् । गर्भ + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि ततो ङीप् ।) गर्भवती । इत्यमरः । २ । ६ । २२ ॥ पोयाति इति भाषा ॥ (यथा, मनुः । ३ । ११४ । “सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥” अस्याः कर्त्तव्यतामाह कश्यपः । यथा, -- “गर्भिणी कुञ्जराश्वादिशैलहर्म्म्यादिरोहणम् । व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी स्त्री।

गर्भिणी

समानार्थक:आपन्नसत्त्वा,गुर्विणी,अन्तर्वत्नी,गर्भिणी

2।6।22।1।4

आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी। गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी¦ स्त्री गर्भोऽस्त्यस्याः इनि ङीप्। गर्गवत्यां सगमोयां[Page2560-a+ 38] स्त्रियाम् अमरः। गर्भिणीलिङ्गं गर्भवतीशब्देउक्तम्। गर्भिणीतत्पतिकृत्याकृत्यादि नि॰ सि॰ उक्तं यथा(
“गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम्। व्या-यामं शीघ्रगमनं शकटारोहणं त्यजेत्। शोकं रक्तवि-विमोक्षं च साध्वसं कुक्कुटाशनम्। व्यवायं च दिवा-स्वप्नं रात्रौ जागरणं त्थजेत्” कश्य॰। मदनरत्ने स्कान्दे
“हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा। कूर्पा-सकञ्च ताम्बूलं माङ्गल्याभरणं शुभम्। केशसस्कारक-बरोकरकर्णविभूषणम्। भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्ग-र्भिणी न हि” वृहस्पतिः
“चतुर्थे मासि षष्ठे वाप्य-ष्टमे गर्भिणी यदा। यात्रा तया विवर्ज्या स्यादाषा-ढे तु विशेषतः” याज्ञवल्क्यः
“दौहदस्याप्रदानेनगर्भो दोषमवाप्नुयात्। वैरूप्यं मरणं वापि तस्मात्कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम्। त-त्रैवाश्वलायनः
“वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः। श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित्। श्राद्धं तद्भोजनमिति। प्रयोगपारिजातः। कालविधानेमूहूर्त्तदीपिकायाञ्च
“क्षौरं शवानुगमनं नखकृन्तनं चयुद्धादि वास्तुकरणं त्वतिदूरयानम्। उद्वाहमौपनयनंजलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापती-नाम्” रत्नसंग्रहे गालवः
“दहनं वपनञ्चैव चौलंवै गिरिरोहणम्। नाव आरोहणं चैव वर्जयेद्गर्भि-णीपतिः” अन्यत्रापि
“प्रव्यक्तगर्भापतिरब्धियानं मृतस्यबाहं क्षुरकर्मसङ्गम्। तस्यानुयत्नेन गयादितीर्थं या-गादिकं वास्तुविधिं न कुर्य्यात्”। प्रव्यक्तगर्भा वनिताभवेन्मासत्रयात् परम्। (मासत्रयादूर्द्धम्) षण्मासात् परतःसूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः
“रोहि-ण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि। पुनर्वसौ पुष्यहस्त-धनिष्ठात्र्युत्तरासु च। मैत्रे त्वाष्ट्रे तथाश्विन्यां सूति-कागारवेशनम्” एतच्च सम्भवे
“प्रसूतिसमये काले सद्यएव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम्
“वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेःविष्णुधर्मे
“दशाहं सूतिकागारमायुधैश्च विशेषतः। वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः। सुयत्नेनतथा वारिवर्णक्वैश्चित्रितेन चेति”। (
“गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः” मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम्। [Page2560-b+ 38] अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा
“सुवासिनीःकुमारांश्च रोगिणोगर्भिणीस्तथा। अतिथिभ्योऽग्रएवैतान् भोजयेदविचारयत्”।
“बालं सुवासिनीवृद्ध-गर्भिण्यातुरकांस्तथा।
“संभोज्यातिथिभृत्यांश्च दम्पत्योशेषभोजनम्” याज्ञ॰। जात्या सह क्वर्म्म॰ अस्य परनि-पातः। गोगर्भिणी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी¦ f. (-णी)
1. A pregnant woman.
2. A plant, (Asclepias rosea) E. गर्भ embryo, and इनि poss. affix, fem. affix ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी [garbhiṇī], A pregnant female (whether of men or animals); गोगर्भिणीप्रियनवोलपमालभारिसेव्योपकण्ठविपिनावलयो भवन्ति Māl.9.2; Y.1.15; Ms.3.114. -Comp. -अवे- क्षणम् mid-wifery, care and attendance of pregnant women and new-born infants. -दौहदम् the longings of a pregnant woman. -व्याकरणम्, -व्याकृतिः f. 'science of the progress of pregnancy' (a particular head in medical works.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी f. of र्भिन्See.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--restrictions to be observed by, laid down by काश्यप for Diti: Her failure to observe them gave Indra the loophole he was seeking to destroy her foetus; see Diti, Indra. M. 7. ३७, ४७: ५२. 4.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी स्त्री.
(गर्भः अस्याः अस्ति, गर्भ+इनि+ङीप्) सगर्भा गाय, ‘अष्टापदीवत्पशुबन्धौ गर्भिण्यां स्वगुणदक्षिणौ’ का. श्रौ.सू. 15.9.13 (‘अनुबन्ध्या’, याग गर्भिणी गायों के जोड़े से, राजसूय), श.ब्रा. 5.5.2.8-1०.

"https://sa.wiktionary.org/w/index.php?title=गर्भिणी&oldid=499115" इत्यस्माद् प्रतिप्राप्तम्