संस्कृतम्

सम्पाद्यताम्
  • गिरिः, पर्वतः, शिखरः, शैलः, उपशैलः, शैलपादः, समुच्छ्रयः।
  • गिरिः नाम पर्वतः, शिखरः।

उदाहरणानि

सम्पाद्यताम्
  • गिरिः पूज्येऽक्षिरुजि कन्दुके। शैले गैरेयके गीर्णावपि।
  • एष पर्वतसंकाशो हनुमान्मारुतात्मजः।
 तितीर्षति महावेगः समुद्रं मकरालयम्॥ सुन्दकाण्डः॥
  • हिमालयगिरिः, तिरुमलगिरिः, मैनाकपर्वतः, आरावळीपर्वतः इत्यादि।
  • आन्ध्रप्रदेशे हैदराबाद् नगरे गोल्कोण्ड अस्ति।

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिः, पुं (गिरति धारयति पृथ्वीं ग्रियते स्तूयते गुरुत्वाद्वा । “कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ।” उणां । ४ । १४२ । इति इः किच्च ।) पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (पर्व्वतानां अष्टावेव पूजनीयाः कुलाचलत्वात् । यदुक्तम्, -- “मेरुमन्दरकैलासमलया गन्धमादनः । महेन्द्रः श्रीपर्व्वतश्च हेमकूटस्तथैव च । अष्टावेते तु सम्पूज्या गिरयः पूर्ब्बदिक् क्रमात् ॥” इति शब्दार्थचिन्तामणिः ॥) गेण्डुकः । इति हेमचन्द्रः । ३ । ३५२ ॥ चक्षू- रोगविशेषः । इति मेदिनी । रे । २३ ॥ पार- दस्य दोषविशेषः । यथा, रत्नावल्याम् । “नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः । असह्याग्निर्महादोषा निसर्गात् पारदे स्थिताः ॥” सन्न्यासिनां पद्धतिविशेषश्च ॥ (तत्र प्रथमत- स्तान्त्रिकगिरिसन्न्यासिलक्षणं यथा, -- “सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः । सर्व्वत्र समभावेग भावयेद्यो नरोत्तमः । इष्टदेवीधिया नारीं स गिरिः परिकीर्त्तितः ॥” इति तन्त्रशास्त्रम् ॥ शङ्कराचार्य्यकृतदशनामब्रह्मचारिपरिव्राज- कानामन्यतमः । तेषां दशनामानि यथा, -- “तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः । पुरिः सरस्वती चैव भारती च तथा दश ॥” तत्र गिरेर्लक्षणम् । यथा, प्राणतोषिण्यां अव- धूतप्रकरणे । “वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः । गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥” यदुवंशीयश्वफल्कस्य द्वादशपुत्त्राणामन्यतमः । यथा, भागवते । ९ । २४ । १५--१६ । “अक्रूरप्रमुखा आसन् पुत्त्रा द्वादशविशुताः । आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः ॥”)

गिरिः, स्त्री, (गॄ + भावे इः किच्च ।) निगरणम् । इत्यमरः । ३ । २ । ११ ॥ गेला इति भाषा ॥ बालमूषिका । इत्यमरटीकायां रमानाथः ॥ पूज्ये त्रि । इति मेदिनी । रे । २४ ॥

"https://sa.wiktionary.org/w/index.php?title=गिरिः&oldid=499313" इत्यस्माद् प्रतिप्राप्तम्