यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जा, स्त्री, (गुञ्जतीति । गुजि + अच् । अस्याः पक्वफलगुच्छे शब्दबाहुल्यात्तथात्वम् ।) लता- विशेषः ॥ कु~च इति भाषा ॥ तत्पर्य्यायः । काकचिञ्ची २ कृष्णला ३ । इत्यमरः । २ । ४ । ९८ ॥ साङ्गुष्ठा ४ रक्तिका ५ काकणन्तिका ६ काका- दनी ७ काकतिक्ता ८ काकजङ्घा ९ शिख- ण्डिनी १० । इति रत्नमाला ॥ चूडामणिः ११ सौम्या १२ शिखण्डी १३ अरुणा १४ ताम्रिका १५ शीतपाकी १६ उच्चटा १७ कृष्णचूडिका १८ रक्ता १९ काम्बोजी २० भिल्लभूषणा २१ वन्या २२ श्यामलचूडा २३ काकचिञ्चिका २४ । अस्या वीजगुणाः । तीक्ष्णत्वम् । उष्णत्वम् । इति राज- निर्घण्टः ॥ कुष्ठव्रणनाशित्वम् । इति राज- वल्लभः ॥ अस्याः शिफागुणः । वान्तिकारि- त्वम् । शूलविषनाशित्वञ्च । वश्यकर्म्मणि श्वेता प्रशस्ता । इति राजनिर्घण्टः ॥ * ॥ (इयन्तु श्वेतरक्तभेदेन द्विविधम् । यदुक्तं भावप्रकाशे । “श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जाद्वयं बुधैः । गुञ्जाद्वयन्तु केश्यं स्यात् वातपित्तज्वरापहम् ॥ मुखशोषश्रमश्वासतृष्णामदविनाशनम् । नेत्रामयहरं वृष्यं बल्यं कण्डूव्रणं हरेत् ॥ कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ॥” श्वेतगुञ्जा तु अभिचारकर्म्मणि प्रशस्ता । यथा, नवदुर्गामन्त्राभिचारे । “जपित्वा सितगुञ्जानां कुडवं कुलिकोदये ॥” इत्यादि ॥ गुञ्जाफलन्तु विषप्रायत्वात् कदापि स्वस्थैर्न भोक्त- व्यम् । अस्या विषमयत्वमुक्तं यथा, पञ्चतन्त्रे । ४ । ५८ । “अन्तर्विषमया ह्येता वहिश्चैव मनोरमाः । गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥”) चतुर्यवपरिमाणम् । रति इति भाषा । (यथा, -- “यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥” इति शार्ङ्गधरेपूर्ब्बखण्डे प्रथमेऽध्याये ॥) चतुर्धान्यपरिमाणम् । इति शुभङ्करः ॥ गोधूम- द्वयमानम् । इति राजनिर्घण्टः ॥ (गुञ्जति शब्दायते इति । कर्त्तरि अच् ।) पटहः । (गुञ्जनमिति । गुजि + भावे अप् ।) कल- ध्वनिः । इति मेदिनी ॥ (गुञ्ज्यते भ्रमरादिभि- र्मद्यपायिभिर्वा यत्र + अधिकरणे अप् घञ् वा ।) मदिरागृहम् । इति शब्दरत्नावली ॥ चर्च्चा । इति त्रिकाण्डशेषः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जा स्त्री।

काकचिञ्चा

समानार्थक:काकचिञ्चा,गुञ्जा,कृष्णला

2।4।98।1।4

चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला। पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जा¦ स्त्री गुजि--अच्।

१ लताभेदे (कुं च) तत्फलेऽपि ह-क्यादिरितत्वादणो लुक्।
“तुल्या यवाभ्यां कथितात्रगुञ्जेति” लीलावती।

२ गोधूमद्वयनाने, राजनि॰

३ चतुर्धान्यमाने, वैद्यकम्
“श्वेता रक्तोच्चटा प्रोक्ता कृष्णलाचापि सा स्मृता। रक्ता सा काकचिञ्ची स्यात् काक-णन्ती च रत्तिका। काकादनी काकपीलुः सास्मृता काकवल्लरी”
“श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जा-द्वयं बुधैः। गुञ्जाद्वयं तु केश्य स्यात् वातपित्त-[Page2597-a+ 38] ज्वरापहम्। मुखशोषश्रमश्वासवृष्णामदविनाशनम्। नेत्रामयहरं वृष्यं बल्यं कण्डव्रणं हरेत्। कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलाऽपि च” भावप्र॰तद्गुणा उक्ताः। सितगुञ्जा चाभिचारकर्म्मभेदे वि-हिता।
“जपित्वा सितगुञ्जानां कुडवं कुलिकोदये” शा॰ ति॰ नवदुर्गामन्त्राभिचारे। तत्र स्मार्त्तवैदिकपौरा-णिककृत्येषु त्रियवमिता गुञ्जा वैद्यके तु चतुर्यव-मितेति भेदः। कर्षशब्दे

१७

७४ पृ॰ दृश्यम्।
“सहसिप्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम्” माघः।
“अन्तर्विषमयाह्येता बहिश्चैव मनोरमाःगुञ्जाफलसमाकाराः स्वभावादेव योषितः” पञ्चत॰।
“तेनेयं मधुगन्धलुब्धमनसा गुञ्जालता सेव्यते” भ्रमरा॰। कर्त्तरि अच्।

४ पटहे। भावे अ।

५ कल-ध्वनौ मेदि॰

६ चर्च्चायां त्रिका॰। आधारे अ।

७ मदिरागृहे शब्दरत्ना॰। तत्र सुरासवगन्धेन भ्रमर-गुञ्जाबाहुल्यात् तथात्वम्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जा [guñjā], [गुञ्ज्-अच्]

A small shrub of that name, bearing a red black berry; अन्तर्विषमया (for ˚य्यः) ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ Pt.1. 196; किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् Vikr.1.25.

A berry of this shrub used as a weight, measuring on an average 1 grains Troy, or an artificial weight called Gunja measuring about 2 grains.

Humming, a low murmuring sound.

a kettle-drum; ...गुञ्जा जुगुञ्जुः करघट्टिताः Bk.14.2.

A tavern.

Reflection, meditation.

A kind of plant with a poisonous root.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जा f. humming L.

गुञ्जा f. a kettle-drum Bhat2t2. xiv , 2

गुञ्जा f. Abrus precatorius (bearing a red and black berry which forms the smallest of the jeweller's weights) Sus3r. VarBr2S. Pan5cat.

गुञ्जा f. the berry of Abrus precatorius (averaging about 1 5/16 grains troy) or the artificial weight called after it (weighing about 2 3/16 grains , = 1/5 आद्य-माषकor माषक, = 3 or 2 barley-corns , = 4 grains of rice , = 2 grains of wheat L. ; with physicians 7 गुञ्जाs = 1 माथ, with lawyers 7 1/2 गुञ्जाs) Ya1jn5. iii , 273 Ca1n2. VarBr2S.

गुञ्जा f. a kind of plant with a poisonous root Sus3r. v , 2 , 3

गुञ्जा f. (= गञ्जा)a tavern L.

गुञ्जा f. reflection , meditation L.

"https://sa.wiktionary.org/w/index.php?title=गुञ्जा&oldid=332411" इत्यस्माद् प्रतिप्राप्तम्