गुर
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुर, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-सकं-सेट् ॥)
गुर, ङ ई शि उद्यमे । इति कविकल्पद्रुमः ॥ (तुदां- आत्मं-अकं-सेट् ।) ह्रस्वी । ङ शि, गुरते अगुरिष्ट । ई, गूर्णः । इति दुर्गादासः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुर¦ बधे गत्याञ्च दिवा॰ आत्म॰ सक॰ सेट्। गूर्य्यते अगो-रिष्ट। जुगोर। ईदित् गूर्ण्णः। गोरणम्।
गुर¦ उद्यमे तुदा॰ कुटा॰ आत्म॰ अक॰ सेट्। गुरते अगुरिष्टजुगोर गुरणम् ईदित् गूर्णः। वेदे तु नि॰ गूर्त्त इत्येव।
“इषो हवो गूर्त्ततमाः” ऋ॰
१ ।
१६
७ ।
१ ।
“गूर्वी रुषसःशरदश्च गूर्त्ताः” ऋ॰
४ ।
१९ ।
८ ।
“अवगूर्य्य चरेत् कृच्छ्र-मतिकृच्छ्रं निपातने” स्मृतिः।
“यो ब्राह्मणायाव-गुरेत् तं शतेन यातायात्” श्रुतिः छान्दसः पदव्यत्ययः। एवं
“न कदाचिद् द्विजे तस्माद्विद्वानवगुरेदपि” मनुः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुर¦ r. 1st cl. (गोरति) r. 6th cl. (-ई) गुरी (गुरते) To make an effort or exertion.