गुरुः
संस्कृतम्
सम्पाद्यताम्,
- गुरुः, शिक्षकः, उपाद्यायः, आचार्यः, पण्डितः, सूचकः, अध्यापकः, प्रतिबोधकः, पाठकः, उपदेशिनः, बोधयितृ, प्रवचनीयः, मेधाविनः, विबुधः, वेदि, शिक्षाकरः, स्कन्धः, सूरः।
नामः
सम्पाद्यताम्- गुरुः नाम पाठनं वा करोति सः अध्यापकः।
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | गुरुः | गुरू | गुरवः |
सम्बोधनप्रथमा | गुरो | गुरू | गुरवः |
द्वितीया विभक्तिः | गुरुम् | गुरू | गुरून् |
तृतीया विभक्तिः | गुरुणा | गुरुभ्याम् | गुरुभिः |
चतुर्थी विभक्तिः | गुरवे | गुरुभ्याम् | गुरुभ्यः |
पञ्चमी विभक्तिः | गुरोः | गुरुभ्याम् | गुरुभ्यः |
षष्ठी विभक्तिः | गुरोः | गुर्वोः | गुरूणाम् |
सप्तमी विभक्तिः | गुरौ | गुर्वोः | गुरुषु |
अनुवादाः
सम्पाद्यताम्उदाहरणम्
सम्पाद्यताम्- अहं उपाध्यायः।
- अहं पाठं वदामि। अतः अहं गुरुः।
- अस्माकं भारतदेशे तु अध्यापकस्य स्थानम् अत्यन्तम् उच्चं स्थानम् अस्ति ।
- गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्द्देवो महेश्वरः।
गुरुसाक्षात् परब्रह्मा, तस्मै श्रीगुरवे नमः॥
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुरुः, पुं, (गृणाति उपदिशति वेदादिशास्त्राणि इन्द्रादिदेवेभ्यः इति । यद्वा गीर्य्यते स्तूयते देव- गन्धर्व्वमनुष्यादिभिः । गॄ + “कृग्रोरुच्च ।” उणां । १ । २४ । इति उत् ।) बृहस्पतिः । (यथा, देवीभागवते । १ । ११ । ४४ । “इत्याश्वास्य गुरुं शक्रो दूतं वक्तुं विचक्षणः ॥”) निषेकादिकृत् । इत्यमरः । ३ । ३ । १६१ ॥ (यथा, मनुः । २ । १४२ । “निषेकादीनि कर्म्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥”) निषेको गर्भाधानं आदिना सीमन्तोन्नयनादे- र्मन्त्रविद्यादानादेश्चग्रहणम् । तत्कर्त्तापित्रादि- र्गुरुः स्यात् । इति भरतः ॥ मन्त्रदाता । तस्य वर्ज्जनीयत्वं यथा, कालिकापुराणे ५४ अध्याये । “अभिशप्तमपुत्त्रञ्च सन्नद्धं कितवन्तथा । क्रियाहीनमकल्पाङ्गं वामनं गुरुनिन्दकम् ॥ सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्ज्जयेत् । गुरुर्म्मन्त्रस्य मूलं स्यान्मूलशुद्धौ सदा शुभम् ॥” अपि च । क्रियासारसमुच्चये । “श्वित्री चैव गलत्कुष्ठी नेत्ररोगी च वामनः । कुनखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः ॥ हीनाङ्गः कपटी रोगी बह्वाशी बहुजल्पकः । एतैर्दोषैर्व्विहीनो यः स गुरुः शिष्य सम्मतः ॥” इति तन्त्रसारः ॥ * ॥ गुरुवर्गो यथा, -- “उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः । मातामही मातुलानी तथा मातुश्च सोदराः ॥ श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु । इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः ॥ अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः । गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ नैतैरुर्पविशेत् सार्द्धं विवदेन्नात्मकारणात् । जीवितार्थमपि द्वेषाद्गुरुभिन्नव भाषणम् ॥ उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः । गुरूणाञ्चैव सर्व्वेषां पूज्याः पञ्च विशेषतः ॥ तेयामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता । यो भापयति या सृते येन विद्योपदिश्यते ॥ ज्येष्टभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः । आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ॥ पूजनीया विशेषेण पक्षैते भूतिमिच्छता । यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ ॥ तावत सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः । मया प्रोच्यमानम् । अथ शुचये कृतोत्तरासङ्गाया- व्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथा- शक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते च पद-पाद-श्लोका भूयः क्रमेणानुसन्धेया एव- मेकैकशो घटयेदात्मनाचानुपठेत् ।” तत्रैव चतुर्थे “शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् । यः कर्म्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥”)
गुरुः, त्रि, (गीर्य्यते स्तूयते महत्त्वात् । गॄ + कृग्रो- रुच्च” उणां । १ । २४ । इति उत्) महान् । (यथा, ऋग्वेदे । ४ । ५ । ६ । “इदं मे अग्ने ! कियते पावका- मिनते गुरुं भारं न मन्म ।”) दुर्जरः । अलघुः । इति मेदिनी ॥ रे । २५ ॥ (यथा, पञ्चतन्त्रे । २ । १९९ “प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत् त्वया मे हृतः ।” पराक्रान्तः । यथा, पञ्चतन्त्रे । ३ । २८ । “सोत्साहशक्तिसम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् ।” भारायमाणः । यथा, रघुः । १२ । १०२ । “अथ मदगुरुपक्षैर्लोकपालद्विपानाम् ।” अथ मदेन गजगण्डसञ्चारसंक्रान्तेन गुरुपक्षैः भारायमाणपक्षैः अलिबृन्दैः ।” इति टीका- कृन्मल्लिनाथः । अतिशयः । यथा, मेघटूते । १ । १ । “कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः ॥”)