यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुत्वम्, क्ली, (गुरोर्भावः । “त्वतलौ” इति त्वप्रत्ययस्ततः त्वान्तं क्लीवमिति क्लीवत्वम् । । महत्त्वमा गुरुता । (यथा, भाषापरिच्छेदे । ३१) “स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम् ।”) अलघुता । यथा, -- “अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत् । अनित्ये तदनित्यं स्यात् नित्ये नित्यमुदाहृतम् ॥ तदेवासमवायि स्यात् पतनाख्ये तु कर्म्मणि ।” इति भाषापरिच्छेदः ॥ (आधिक्यम् । यथा, रघुः । २ । १८ । “गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।” वपुषो गुरु- त्वात् आधिक्यात् इति मल्लिनाथस्तट्टीकायाम् । पूज्यत्वम् । यथा, तत्रैव । १० । ६४ । “मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ।”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुत्व¦ न॰ गुरोर्भावः त्वण्। वैशेषिकादिमतसिद्धे पतनहेतौद्रव्यनिष्ठे गुणभेदे
“अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्। अमित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृ-तम्। तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि” भाषा॰
“पतने आद्यपतने” मुक्ताव॰। तस्याप्रत्यक्षत्वे कारणंकणा॰ सू॰ वृत्त्योर्दर्शितं यथा( ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमा-नाधिकरणञ्चेति कथं न प्रत्यक्षमत आह” उप॰ वृ॰
“तस्य भावादव्यभिचारः” सू॰। (
“तस्य रूपत्वादेः सामान्यस्य उद्भवस्य च गुरुत्वेऽभावान्नगुरुत्वं प्रत्यक्षम्। ननु मा भूत् तत्र रूपत्वादिकंतथापि तत्प्रत्यक्षं स्यादत आह अव्यभिचार इतिएकैकेन्द्रियग्राह्यत्वं प्रति रूपत्वादीनां पञ्चानां जाती-नाम् अव्यभिचारो नियम एव यत्रैव रूपत्वादिपञ्च-कान्यतमत् तत्रैव बाह्यैकैकेन्द्रियग्राह्यत्वं तद्व्यति-रेकादित्यर्थः, सूत्रे तु गुरुत्वाधिकारस्यास्प टत्वात्प्रशस्तदेवैरतीन्द्रियेषु मध्ये परिगणितमपि वल्लभाचार्य्यैःस्पार्शनमुक्तं गुरुत्वे। ” उप॰ वृ॰। ( गुरुत्वञ्च प्रतिबन्धकाभावे एव यथा पतनेऽसमवायि-कारणं तथा
“संयोगाभावे गुरुत्वात् पतनमित्यादि-
“संस्काराभावे गुरुत्वात् पतनमित्यन्तं कणादसूत्रवृत्ति-वाक्यं

५४

३ पृ॰ दर्शितम्। तच्च गुरुत्वं पृथ्वीसलिलयोर्धर्मः इति नैयायिकादयः सांख्यास्तु
“गुरु वरणकमेव तमःइत्युक्तेः तमोगुणस्यैव धर्म इत्याहुः तच्च वाक्यं गुणवृ-त्तिशब्दे

२६

०८ पृ॰ दर्शितम्
“गृष्टिर्गुरुत्वाद्वपुषोनरेन्द्रः”
“मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः” रघुः। तल्। गुरुताप्यत्र स्त्री
“नाकृतिगुरुता गुरुता विक्रमगुरुता गरीयसी ख्याता” उद्भटः।
“अवधार्य्य काय्य गुरु-ताम्” माघः।
“गुरुता मण्डलेश” त्वम्नील॰ ता उक्तेमण्डलैश्चर्य्ये च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुत्व¦ n. (-त्वं)
1. Sacredness, venerableness, respectability.
2. Greatness, magnitude.
3. Weight, heaviness.
4. Burden, trouble. E. गुरु and त्व affix; also with तल्, गुरुता।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुत्व/ गुरु--त्व n. weight , heaviness Sus3r. Ragh. Pan5cat.

गुरुत्व/ गुरु--त्व n. (in prosody) length (of a vowel) TPra1t. xxiv , 5

गुरुत्व/ गुरु--त्व n. burden , trouble W.

गुरुत्व/ गुरु--त्व n. severity , violence (of medical treatment) Sus3r.

गुरुत्व/ गुरु--त्व n. dulness Sarvad. xv , 158

गुरुत्व/ गुरु--त्व n. greatness , magnitude W.

गुरुत्व/ गुरु--त्व n. respectability , dignity , venerableness Ragh. x , 65

गुरुत्व/ गुरु--त्व n. the office of a teacher MBh. v , 178 , 44.

"https://sa.wiktionary.org/w/index.php?title=गुरुत्व&oldid=499334" इत्यस्माद् प्रतिप्राप्तम्