गोचर
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचरः, पुं, (गाव इन्द्रियाणि चरन्त्यस्मिन् । गो + चर + “गोचरसञ्चरवहव्रजव्यजापणनिग- माश्च ।” ३ । ३ । ११९ । इति निपातनात् साधुः ।) इन्द्रियार्थः । स तु रूपशब्दगन्धरस- स्पर्शस्वरूपः । इत्यमरः । १ । ५ । ८ ॥ (यथा भाषापरिच्छेदे “घ्राणस्य गोचरो गन्धः ॥” * ॥ गावश्चरन्त्यस्मिन्निति । गोचरणस्थानम् । इति सिद्धान्तकौमुदी । यथा च भारविः । ४ । १० । “उपारताः पश्चिमरात्रिगोचरा- दपारयन्तः पतितुञ्जवेन गाम् ॥” गोषु इन्द्रियेषु चरतीति । गो + चर् + पचाद्यच् । इन्द्रियप्रत्यक्षीभूतविषयः । यथा, वेदान्तसारे । “अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ॥” अष्टमे शशिसुते धनलब्धि- र्धर्म्मगोऽतिमहतीं तनुपीडाम् । कर्म्मगः शुभमथायगतोऽर्थं द्वादशे भवति वित्तविनाशः ॥” गुरोर्गोचरफलम् । “भयं जन्मन्यार्य्यो जनयति धनस्थोऽर्थमतुलं तृतीयेऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम् । शुभं पुत्त्रस्थानेऽशुभमपि च कुर्य्यादरिगृहे गुरुर्द्यूने पूजां धननिचयनाशञ्च निधने ॥ धर्म्मगतो धनवृद्धिकरः स्यात् प्रीतिहरो दशमेऽमरपूज्यः । स्थानधनानि ददाति स चाये द्वादशगस्तनुमानसपीडाम् ॥” शुक्रस्य गोचरफलम् । “जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थे दुश्चिक्यगः शुभकरो धनदश्चतुर्थे । स्यात् पुत्त्रदस्तनयगोऽरिगतोऽरिवृद्धिं शोकप्रदो मदनगो निधनेऽर्थदाता ॥ जनयति विविधाम्बराणि धर्म्मे न शुभकरो दशमस्थितस्तु शुक्रः । धननिचयकरस्तु लाभसंस्थो व्यंयभवनेऽपि धनागमं करोति ॥” शनेर्गोचरफलम् । “वित्तभ्रंशं सदाहं दिनकरतनयो जन्मराशिं प्रपन्न- श्चित्तक्लेशं द्बितीये रिपुहननकृतं वित्तलाभं तृतीये । पाताले शत्रुवृद्धिं सुतभवनगतः पुत्त्रभृत्यादि- नाशं षष्ठस्थानेऽर्थलाभं जनयति मदने दोषसङ्घा- तमार्किः ॥ शरीरपीडां निधनेऽथ धर्म्मे धनक्षयं कर्म्मणि दौर्म्मनस्यम् । उपान्त्यगो वित्तमनर्थमन्ते शनिर्ददातीत्यवदत् सुवृत्तः ॥” राहोर्गोचरफलम् । “जन्मान्त्या ञ्चवसुरन्ध्रनवद्बिसप्त- राशौ स्थिते यदि भवेदसुरः कदापि । अर्थक्षयं रिपुभयं बहुकार्य्यहानिं रोगप्रवासमरणाग्निभय करोति ॥” केतोर्गोचरफलम् । “एकादशत्रिदशषष्ठगते नराणां सम्मानभोगनृपमानसुखार्थदाता । आज्ञाकराश्च पुरुषाः प्रमदाश्च नित्यं सौख्योदयं दिशति पुण्यचयञ्च केतुः ॥” अन्यत्सर्व्वं ग्रहशब्दे द्रष्टव्यम् ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचर पुं।
विषयाः
समानार्थक:विषय,गोचर,इन्द्रियार्थ
1।5।8।1।1
गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्. कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्.।
: नेत्रेन्द्रियविषयः, श्रोत्रेन्द्रियविषयः, घ्राणेन्द्रियविषयः, रसनेन्द्रियविषयः, त्वगिन्द्रियविषयः
पदार्थ-विभागः : , गुणः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचर¦ पु॰ गावः इन्द्रियाणि चरन्त्यस्मिन् नि॰ अच्।
१ इन्द्रि-यवेद्ये रूपरसादौ विषये। एकैकेन्द्रियविषयाश्च शब्दाद-यस्तत्र श्रोत्रस्य शब्दो विषयः, एवं त्वचः स्पर्शः, नेत्रस्यरूपम्, जिह्वाया रसः, घ्राणस्य गन्धः।
२ ज्ञानमात्र-विषयेऽपि
“सदसत्संशयगोचरोदरी” नैष॰
“अवाङ्-मनसगोचरम्” वेदा॰ सा॰ गोचरत्वं ज्ञाननिरूपिताविषयता सा च स्वरूपसम्बन्धविशेषः। कर्त्तरि अच्।
३ भूमिचरे त्रि॰। गावश्चरन्त्यस्मिन् अच्।
४ गवां प्रचा-रवनादौ,
“उपारताः पश्चिमरात्रगोचरात्” किरा॰
५ गन्तव्यदेशे
“इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्” कठोप॰
६ देशमात्रे,
“ज्ञानमस्ति समस्तस्य जन्तोर्विषय-गोचरे” देवीमा॰।
७ गवां व्योमगतिमतां ग्रहाणांचरः भावे अच्। गतिभेदे च
“गोचरे वा विलग्ने-वा ये ग्रहारिष्टसूचकाः” ज्यो॰ सनिमिचतया[Page2684-a+ 38] ऽस्त्यस्य अच्। ज्योतिषोक्ते जन्मराश्यवधिकेषु तत्तत्स्थानेषु
८ सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणे। ज्योतिषोक्त गोचरशुद्ध्यशुद्वी वामवेध दक्षिणवेधादिकंच मु॰ चि॰ पी॰ धा॰ उक्तम् यथा(
“सूर्यो रसान्त्ये खयुगेऽग्निनन्दे शिवाक्षयोर्मौमशनीतमश्च। रसाङ्कयोर्लाभशरे गुणान्त्ये, चन्द्रोऽम्बराब्धौगुणनन्दयोश्च (
१ )। लाभाष्टमे चाद्यशरे रसान्त्ये नगद्वये,ज्ञोद्विशरेऽब्धिरामे। रसाङ्कयोर्नागविधौ खनागे लाभ-व्यये, देवगुरुः शराब्धौ (
२ )। द्व्यन्त्ये नवाशे द्विगुणेशिवाग्नौ, शुक्रः कुनागे द्विनगेऽग्निरूपे। वेदाम्बरे पञ्च-निधौ गजेषौ नन्देशयोर्भानुरसे शिवाग्नौ (
३ )। क्रमाच्छुभो विद्ध इति ग्रहैः स्यात्पितुः सुतस्यात्रन वेधमाहुः। दुष्टोऽपि खेटो विपरीतवेधाच्छुभोद्विकोणे शुभदः सितेऽब्जः (
४ )। स्वजन्मराशेरिह वेध-माहुरन्ये ग्रहाधिष्ठितराशितः सः। हिमाद्रिविन्ध्या-न्तर एव वेधो न सर्वदेशेष्यिति काश्यपोक्तिः (
५ )। जन्मर्क्षे निधनं ग्रहे जनिभतो घातः, क्षितिः श्रीर्व्यथाचिन्ता सौख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशः सुखम्। लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगोदानंशान्तिरथोग्रहं त्वशुभदं नो वोक्ष्यमाहुः परे (
६ )। पापान्तःपापयुक् द्यूने पापाच्चन्द्रः शुभोऽप्यसत्। शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सत् (
७ )। सितासितादौ सद्दृष्टे चन्द्रे पक्षौ शुभावुभौ। व्यत्यासेचाशुभौ प्रोक्तौ सङ्कटेऽब्जबलं त्विदम् (
८ )। वज्रंशुक्रे, ऽब्जे सुमुक्ता, प्रबालं भौमे, ऽगौ गोमेदमार्कौ सुनी-लम्। केतौ वैदूर्यं, गुरौ पुष्पकं ज्ञे पाचिः, प्राङ्मा-णिक्यमर्के तु मध्ये (
९ )। माणिक्यमुक्ताफलविद्रुमाणिगारुत्मतं पुष्पकवज्रनीलम्। गोमेदवैदूर्यकमर्कतः स्यूर-त्नान्यथोज्ञस्य मुदे सुवर्णम् (
१० )। धार्यं राजावर्त्तकंराहुकेत्वोरौप्यं शुक्रेन्घोश्च, मुक्ता गुरोस्तु। लोहंमन्दस्यारभान्वोः प्रबालं ताराजन्मर्क्षात्त्रिरावृत्तितःस्यात्” (
११ )। मूहू॰ चि॰। (
“अथ गोचरप्रकरणं व्याख्यायते तत्र जन्मराशितःप्रोक्तनिषिद्धस्थानस्थितेदानीन्तनग्रहवशेन शुभाशुभ-निरूपणं गोचर इत्युच्यते तत्र ग्रहाणां गोचरफलंशुभाशुभरूपमुपजातिकाद्वयेनेन्द्रवज्रया चोपजातिकापूर्बार्द्धेन चाह सूर्यो रसान्त्ये इत्यादौ सर्वोद्वन्द्वोविभा-षयैकवद्भवतीति समाहारद्बन्द्व एकवचनान्तः। शिवाक्षयो-[Page2684-b+ 38] रित्यादावितरेतरयोगद्वन्द्वः अम्बराब्धावित्यादिषु त्वनित्य-मागमशासनमिति नुमभावोध्येयः एवं सर्वत्र व्याख्येयम्। अत्र चतुर्थश्लोकेनान्वयः स्वजन्मराशेरिति पञ्चमश्लोकस्यपदमत्राध्याहार्यम्। तत्र सूर्योग्रहः स्वजन्मराशेः रसान्त्येक्रमाच्छुभो विद्धश्च स्यात्। सूर्यः स्वजन्मराशेः सका-शाद्यदि षष्ठस्थाने तदा शुभम् अतः जन्मराशेर्द्वादशस्थान-स्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः शुभोऽप्यशुभफल-दाता अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधोनाङ्गीकार्यः यतःपितुर्जनकस्य सुतसम्बन्धिनं वेधं नाहुः सुतस्यापि पितृ-सम्बन्धिवेधं नाहुः। तथा स्वयुगे जन्मराशेर्दशमे सूर्यःशुभश्चतुर्थस्थान स्थताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युःतदाविद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयम्। तथा अग्नि-नन्दे तृतीयनवमयोः शिवाक्षयोरेकादशपञ्चमयोः सूर्यःक्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन
“शुभोऽर्कोजन्मतस्त्यायदशषष्ठस्तु विध्यते। जन्मतो नवपञ्चाम्बुव्यय-गैर्व्यार्किभिस्तदा”। अथ भौमेति। भौमशनी तमोराहुश्चैते ग्रहाः स्वजन्मराशितः रसाङ्कयोः षण्णव-स्थानयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः परन्तु शनेः सूर्य-वेधी नास्तीत्युक्तमेवेति। यदाह वसिष्ठः
“त्रिषडेका-दशसहितो धरासुतो रिष्फधर्मसुतसं स्थैः। दिनकर-तनयोऽपि शुभो न विद्यते स्वेचरैर्विनोष्णकरमिति”।
“शनिवद्राहुर्ज्ञेय” इति वचनाद्राहोरप्येवमेवैष विचारः। राहीरुपलक्षणत्वात्केतोरपि उक्तञ्च शार्ङ्गधरेण
“रा-हुकेतुफलं सर्वं मन्दवत्कथितं बुधैः। वेधोऽपि तद्वदेवोक्तोवामवेधस्तथैव च। ” अथ चन्द्र इति जन्मराशितःअम्बराब्धौ दशमचतुर्थयोः, गुणनन्द्रयोस्तृतीयनवकयोः (
१ )लाभाष्टमे एकादशाष्टमयोः, आद्यशरे प्रथमपञ्चमयोः,रसान्त्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोःस्थानयोश्चन्द्रः क्रमात्शुद्धः विद्धश्च ज्ञेयः चन्द्रस्य बुधवेधोनास्ति। उक्तञ्च नारदेन
“विध्यते जन्मतोनेन्दुर्द्यूनाद्या-यारिखत्रिषु। स्वेष्वष्टान्त्याम्बुधर्मस्थैर्विबुधैर्जन्मतः शुभः” इति। अथ ज्ञ इति जन्मराशेः द्विशरे द्विपञ्चमयोःअब्धिरामे चतुर्थतृतीययोः, रसाङ्कयोः षष्ठनवमयोः,नागविधौ अष्टमप्रथमयोः, खनागे दशमाष्ट्रमनोः, लाभ-व्यये एकादशद्वादशयोः स्थानयोर्ज्ञो बुधः क्रमाच्छुभो वि-द्वश्च ज्ञेयः। परं त्वत्र चन्द्रवेधो नास्ति यदाह नारदः
“ज्ञः स्वाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते। सुतत्र्य-ङ्काद्याष्टमान्त्यसंस्थितैरिन्दुजः शुभः” इति अथ देवगुरु-[Page2685-a+ 38] रिति जन्मराशितः शराब्धौ पञ्चमचतुर्थयोः, (
२ ) द्व्यन्त्येद्वितीयद्वादशस्थानयोः, नवाशे नवमदशमयोः स्थानयोःद्विगुणे द्वितीयतृतीययोः शिवाग्नौ एकादशतृतीययोः। देवगुरुर्बृहस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्चनारदेन
“जन्मतः स्वायगोब्ध्यद्रिष्वन्त्याष्टखजलत्रिगैःजन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते” इति। अथशुक्र इति जन्मराशेः कुनागे प्रथमाष्टमयोः, द्विनगेद्विसप्तमयोः, अग्निरूपे तृतीयप्रथमयोः, वेदाम्बरेचतुर्थदशमयोः, पञ्चनिधौ पञ्चमनवमयोः, गजेषौ अष्ट-मपञ्चमयोः, नन्देशयोर्नवमदशमयोः, भानुरसे द्वादं-शषष्ठयोः, शिवाग्नौ एकादशतृतीययोः स्थानयोः, (
३ )शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः यदाह नारदः
“जन्मभा-दासुताष्टाङ्कान्त्यायेष्विष्टो न विध्यते। भार्गवो मृत्युस-प्ताद्यस्वाङ्केशायारिपुत्रगैरिति” आसुतेत्यभिविधावाङःसहतेनान्त्याभिविधिरिति तेन प्रथमद्वितीयतृतीयचतुर्थ-पञ्चमानां ग्रहाणामित्यर्थः। इदमत्राकूतं यो यो ग्रहःरसन्त्यैत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स सग्रहः शुभदः शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानःस स ग्रहो, ऽशुभफलदाता अतएवाह श्रीपतिः
“सर्वेलाभगृहस्थिताश्च खरिपुष्वर्कः कुजार्की त्रिषट्। प्राप्तौ साद्यखमन्मथारिषु शशी खास्तारिवर्जं भृगुः। धीधर्मास्तधनेषु वाक्पतिरिति स्वाष्टाम्बुखस्थो बुधःश्रेष्ठो जन्मगृहाद्धि गोचरविधौ विद्धो न चेत् स्याद्-ग्रहैरिति”। अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः। अत्रग्रहाणां विहितनिषिद्ध स्थानफलानि विधिरत्ने। तत्ररवेः।
“स्थानं जन्मनि नाशयेद्दिनकरः कुर्य्यात्, द्वितीये भयं,दुश्चिक्ये
३ श्रियमातनोति हिबुके
४ मानक्षयं यच्छति। दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमेपीडामष्टमगः करोति परुषां कान्तिक्षयं धर्म
९ गः। कर्मसिद्धिजनकस्तु कर्म
१० गोवित्तलाभकृदथाय
११ संस्थितः। द्रव्यनाशजनितां महापदं यच्छति व्यय
१२ गतो दिवाकरः” चन्द्रस्य--जन्मन्यन्नन्दिशतिं हिमगु, र्वित्तनाशं द्वितीये दद्यात्द्रव्यं सहज
३ भवने कुक्षिरोगं चतुर्थे। कार्ये नाशंतनय
५ गृहगोवित्तलाभं च षष्ठेद्यूने
७ द्रव्यं युवतिस-हितं मृत्यु
८ संस्थोऽपमृत्युम्। नृपभयं कुरुते नबमःशशी दशमधामगतस्तु महत् सुखम्। विविधमाय
११ गतःकुरुते धनं व्यय
१२ गतस्तु रुजं धनसंक्षयम्” कुजस्य--
“प्रथमगृहगः क्षौणीसूनुः करोत्यरिजं भयं[Page2685-b+ 38] क्षपयति धनं वित्त
२ स्थाने तृतीयगतोऽर्थदः। अरिभ-यमतः पाताले
४ ऽर्थान् क्षिणोति हि पञ्चमो रिपु
६ गृह-गतः कुर्य्या द्वत्तं रुजं मदन
७ स्थितः। जननितो नि-धन
८ स्थः शत्रुबाधां धराजो दिशति नवमसस्थः कायपी-डामतीव। शुभमपि दशमस्थो लाभ
११ गो भूरिलाभं
१२ व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान्” बुधस्य--
“बुधः प्रथमगोमयं दिशति बन्धमर्थे धने
२ धनंरिपुभयान्वितं सहज
३ गश्चतुर्थेऽर्थदः। अनिर्वृतिकरोभवेत्तनय
५ गोऽरि
६ गः स्थानदः करोति मदन
७ स्थितो-बहुविधां शरीरव्यथाम्। अष्टमे शशिसुते धनवृद्धिर्धर्म-
९ गस्तु महतीं तनुपीडाम्। कर्म
१० गः सुखमथाय
११ ग-तोऽर्थं द्वादशे भवति वित्तविनाशः। गुरोः--
“भयं जन्मन्यार्योजनयति धन
२ स्थोऽर्थमतुलं तृतीये-ऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम्। सुखं पुत्र-
५ स्थाने रुजमपि च कुर्यादरि
६ गृहे गुरुर्द्यूने
७ पूजांधननिचयनाशं च निधने
८ । धर्म
९ गतो धनवृद्धिकरःस्यात्प्रीतिहरो दशमेऽमरपूज्यः। स्थानधनानि ददातिस चाये
११ द्वादशगस्तनुमानसपीडाम्” भृगोः।
“जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थे
२ दुश्चिक्य
३ गःसुखकरोधनदश्चतुर्थे। स्यात्पुत्रदस्तनय
५ गोऽरि
६ ग-तोऽरिवृद्धिं शोकप्रदो मदन
७ गोनिधने
८ ऽर्थदायी। जनयति विविधाम्बराणि धर्मे
९ न सुखकरो दशमस्थि-तस्तु शुक्रः। धननिचयकरः स लाभ
११ संस्थो व्यय
१२ भ-वनेऽपि धनागमं करोति” शनेः।
“वित्तभ्रंशं रुगाप्तिं दिनकरतनयो जन्मराशिंप्रपन्नो वित्तक्लेशं द्द्वितीये धनहरणकृतं वित्तलाभं तृ-तीये। पाताले
४ शत्रुवृद्धिं सुतभवन
५ गतः पुत्रभृत्यार्थ-नाशं षष्ठेस्थानेऽर्थलाभं जनयति मदने
७ दोषसंघातमा-र्किः। शरीरपीडां निधने
८ च धर्मे
९ धनक्षयं कर्मणि
१० दौर्मनस्यम्। उपान्त्य
२१ गो वित्तमनर्थमन्त्ये
१२ शनिर्द-दातीत्यवदद्वसिष्ठः” राहोः केतोश्च--
“राहुर्जन्मगतो भयं च कलहं सौभाग्य-मानक्षयं वित्तभ्रंशमहासुखं नृपभयं चार्थक्षयं य-च्छति। सन्तापं कलहं च वित्तमधिकं शीघ्रं विनाशंनृणां केतुस्तत्फलमेव राशिषु वदेच्छंसन्ति गर्गादयः”। ( एतच्छुभाशुभरूपाग्रहा ऋक्षसन्धिगतास्तथाराशिसन्धिगता एष्यराशेः फलं ददति वक्रिणस्तुप्राग्राशेरित्याह कमलासनः
“ऋक्षसन्धिगताः[Page2686-a+ 38] खेटाः राशिसन्धिगता ग्रहाः। एष्यराशेः फलं दद्यु-र्वक्री तद्विपरीतगमिति” राशिग्रहणं नक्षत्रस्याप्युप-लक्षणम्। वसिष्ठोऽपि
“भवनान्त्यगताधिष्ण्यन्त-गताश्च गगनचराः। दद्युः परभवनफलं प्राग्भवनफलंच वक्रिता यत्र” इति। अस्यार्थः ऋक्षं नक्षत्रं तस्यसन्धिः एकस्मान्निर्गत्यापरत्र संक्रमणं सन्धिरेवं राशि-सन्धिश्च। तत्र सन्धिज्ञानम्।
“देवद्व्यङ्कर्त्तवोऽष्टाष्टौ ना-ड्योऽङ्काः खनृपाः क्रमात्। वर्ज्याः संक्रमणेऽर्कादेःप्रायोऽर्कस्यातिनिन्दिताः” इति विवाहप्रकरणे वक्ष्यतिग्रन्यकृत्। संक्रमणकाल एव सन्धिकालः सर्वेषां ग्रहाणाम्
“षष्टिघ्नविम्बं ग्रहभुक्तिभक्त” मित्यादिना भास्करेणोक्तत्वात्। तदेतदस्माभिः संक्रान्तिप्रकरणे सप्रपञ्चं निरूपितंतत एवावधार्यम्। तत्र सूर्यादिग्रहाः देवद्व्यङ्केतिपद्यो-क्त घटिकोपलक्षिते नक्षत्रान्ते राश्यन्ते वा स्थिताजिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छन्ति वक्रि-णस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वास्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति। तत्र भौ-भाद्याः ग्रहाः वक्रातिचारयोः प्राग्राशिफलं कियन्तिदिनानि प्रयच्छन्तोत्याह वसिष्ठः
“दशदिवसं पञ्चदिनंत्रिपक्षमतिचारवक्रयोर्दद्युः। भौमाद्याः पञ्चदिनंप्राग्राशिफलं च पञ्च मासांश्चेति” भौमाद्याः स्वगत्या-यावता कालेन राशिं जहति ततोऽल्पेन न्यूनाधिक-भावेन स चारः यदा चारसमये राशिं जहति सोऽति-चारः, वक्रं प्रसिद्धमेव। अथ वामवेधं शुक्लपक्षे चन्द्रबलंचोपजात्युत्तरार्द्धेनाह। दुष्टोऽपि स्वजन्मराशेः सका-शादनिष्टस्थानस्थितोऽपि स्वेटो विपरीतवेधात् वाम-वेधाच्छुभः शुभफलदाता। अयमर्थः येषु षष्ठदशमतृती-यैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौस्थानान्यशुभान्येव तत्र द्वादशचतुर्थनवमपञ्चमाख्येष्वनिष्ट-स्थानेषु स्थितः सूर्यस्तदैवानिष्टफलदः स्याद्यदा प्राक्पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैः ग्रहैर्न-विद्धः यदा तु विद्धस्तदा शुभफलदोऽपि षष्ठादिस्थानेशुभदो नैव स्यात्। अन्येषु स्थानेषु प्रथमद्वितीयसप्ता-ष्टमेषु स्थितः सूर्योऽनिष्टफलद एव। एवं चन्द्रबुधयोःषडेव विरुद्धस्थानानीतिक्रमवेधवामवेधौ स्याताम्। भौमस्यतु त्रीण्येव शुभानीतराण्यशुद्धान्येव तत्र नवपञ्चमद्वा-दशस्थानस्थितभौमस्याशुभस्य क्रमेण षष्ठैकादशतृवीय-स्थानस्थैर्ग्रहैर्वामबेधेन शुभत्वमेव। अन्येष्वशुभस्थान-[Page2686-b+ 38] स्थितेष्वशुभएव भौमः। एवं शनिराहुकेतवोध्येयाःगुरोरप्येवमेव। तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभएव। शुक्रस्य तु नवस्थानानां शुभत्वात्तद्व्यतिरिक्तानित्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि तेषामेव क्रमेण द्वा-दशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव। अन्येषां तूत्तरपठितत्वात् स्थानानां शुभत्वादेव न वाम-वेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः यदाह कश्यपः
“अपि विद्धो ग्रहः कश्चिन्न ददाति शुभं फलम्। वामवे-धविधानेन त्वशुभोऽपि शुभप्रदः। अतस्तद्द्विविधं मूलंबिचार्यासत् फलं वदेत्” इति। वसिष्ठोऽपि
“वेधसमन्वितखचराणां प्रदिशन्त्यसत्फलं किञ्चित्। खव्यत्ययवेधवि-धानादपि शुभास्ते शुभप्रदाः सततमिति” व्यत्ययवेधोवामवेधः। द्विकोण इति। सिते शुक्लपक्षेऽब्जश्चन्द्रो द्वि-कोणे द्वितीयनवमपञ्चमस्थानेषु स्थियः शुभदः अत्रापिक्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैर्नाविद्धःइत्यपि ध्येयं उक्तं च नारदेन
“शुक्लपक्षे शुभश्चन्द्रोद्वितीयनवपञ्चगैः। रिपुमृत्यम्बुसंस्थैर्न विद्धो हिगगनेचरैरिति” यदि विध्यते तदाऽशुभफलद एव (
४ )अथ द्विविधवेधे मतद्वयमुपजात्याह स्वजन्मेति। इह द्विविधवेधविधावन्ये नारदादयः। स्वजन्मराशेःसकाशाद्द्विविधं वेधं क्रामिकं वामिकं चाहुः। तथाचोभयत्रापि नारदेन जन्मत इत्युक्तम्। अथ कश्यपादि-मतमुच्यते। स पुनर्द्विविधोऽपि वेधोग्रहाधिष्ठितराशितो-ज्ञेयः यथा सूर्यो जन्मराशेः सकाशात् पष्ठस्थितः शुभःस सूर्यःस्वाक्रान्तराशितो द्वादशस्थानस्थितैः शनिवर्जितै-र्ग्रहैर्न विद्धः तथा सूर्यो जन्मराशिद्वादशस्थोऽपि नेष्टःसः सूर्यःस्वाक्रान्तराशिषष्ठस्थितैः शनिवर्जितैर्ग्रहैर्विद्ध-श्चेत्तदा शुभफलद इत्यर्थः। अथैतस्यैव द्विविधवेधस्य देश-विशेषविषयत्वमुच्यते। हिमाद्रिविन्ध्यनामानौ पर्वतौ प्रदेशविशेषावस्थित्या प्रसिद्धौ तयोरन्तरालवर्त्तिन्येव देशे सद्विविधोऽपि वेधोज्ञेयः न सर्वदेशेषु हिमाद्रिविन्ध्यान्तरालबहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्य-पस्य मुनेरुक्तिर्वचनम्। जन्मनक्षत्रादौ स्थानभेदे ग्रहण-फलमाह जन्मार्क्ष इत्यादि।
“यन्नक्षत्रगतो राहुर्ग्रसतेचन्द्रभास्करौ। तज्जातानां भवेत्पीडा ये नराः शान्तिव-र्जिताः। ” भार्गवीये विशेषोऽपि
“यस्य राज्यस्य नक्षत्रेस्वर्भागुरुपरज्यते। राज्यभङ्गं सुहृन्नाशं मरणं चात्रनिर्द्दिशेदिति” राज्यस्य नक्षत्रे अभिषेकनक्षत्रे यदा[Page2687-a+ 38] कदाचिद्राहुभुज्यमाननक्षत्रमुपरागनक्षत्रेणैकमेव तदा-यं सन्दिग्धफलनिर्देशः यदा तु नक्षत्रभेदस्तदोपर-ज्यमाननक्षत्रेऽप्येव फलनिर्देशः एवं राशिभेदेषूपरज्य-मानराशिभेदेष्वप्येवम्। यतोऽस्मन्मते राहो र्दिग्देश-कालावरणादिभेदात् ग्रहणत्वमेव नास्ति। तदुक्तंसिद्धान्तशिरोमणौ
“दिग्देशकालावरणादिभेदान्न च्छा-दिकोराहुरिति ब्रुवन्ति”। एतदुपपत्तिर्भास्करेण स्वप-द्यैरेव निरूपिता पितृचरणैश्च तोडरानन्दे राहुचार-विलासे प्रपञ्चिता परन्तु राहुसाहित्यं विना ग्रह-णानयनस्य शरसंस्कृतिमाश्रित्य खण्डानयनविशिष्टस्यासु-करत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते। अतएवोक्तं वराहेण
“तणिल् काले सान्निध्यमस्यतेनोपचर्यते राहुः। याम्योत्तरा शशिगतिर्गणिते ह्युप-चर्यते तेनेति”
५ । अथ जन्मादिराशिफलमुच्यते जनिभ-त इति। पञ्चम्यास्त{??} जन्मराशेरारभ्य द्वादशसु राशिषुग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति यथाजन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीय-राशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीर्लक्ष्मीः, चतु-र्थराशौ शरीरपीडा, पञ्चमराशौ चिन्ता पुत्रादीनां, षष्ठेराशौ सौख्यं, सप्तमराशौ कलत्रदौस्थ्यं स्त्रीमरणं, अष्टम-राशौ मृत्युर्मरणं, नवमराशौ माननाशः, दशमराशौसुखम्, एकादशराशौ लाभः, द्वादशराशौ मृत्युः आ-त्मन इति केचित् द्रव्यस्येत्यपरे, इदं च फलं षण्मासप-र्यन्तमनुक्तमपि ध्येयं तदुत्तरं हि ग्रहणान्तरसम्भावनात्यथोक्तं दैवज्ञमनोहरे
“घातं हानिमथ श्रियं जननिभा-द्ध्वंसं च चिन्तां क्रमात् सौख्यं दारवियोजनं चकुरुते व्याधिं च मानक्षयम्। सिद्धिं लाभमपायमर्कश-शिनोः षणमासमध्ये ग्रहः इति” क्वचित्तु
“स्थानान्त्यएवं शुभमध्यमाधमाः” इत्युक्तम्। दैवज्ञमनोहरे
“ग्रा त्ततीयोऽष्टसगश्चतुर्थस्तथायसंस्थः शुभदः स्व-राशिः। सप्तमगश्च विद्भिः पूज्यो द्विषट्कोदशमाद्यसंस्थः” इति अत्र वाक्ये ग्रासराशितोगणनोक्ता
“त्रिषड्दशायोपगतं नराणां शुभप्रदं स्याद्ग्रहणरवीन्द्वोः। द्विसप्तनन्देषु च मध्यमं स्याच्छेषेष्वनिष्टंमुनयो वदन्तीति” अत्रावध्यपेक्षायां स्वजन्मराशे-रित्याव्याहार्यमेव। अथाशुभसूचकग्रहणप्रतीकार-माह तदशुभेति तत्र सूर्यचन्द्रयोर्ग्रहणस्य सम्बन्धियदशुभं दुष्टफलन्तस्य ध्वस्त्थै नाशाय जपः स्वर्णगो-[Page2687-b+ 38] दानं जपो गायत्र्यादीनां मन्त्राणां स्वर्णं प्रसिद्धं गौः-प्रसिद्धा भूमिर्वा उपलक्षणत्वादन्येषां रूप्यादीनां यथाशक्त्या दानं कार्यमिति शेषः उक्तं च दैवज्ञमनोहरे
“सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम्। सदक्षिणंसवस्त्रं च श्रोत्रियाय निवेदयेत्। सौवर्णं राजतंवापि बिम्बं कृत्वा स्वशक्तितः। भवेदपगतक्लेशःछिद्रे विप्राय कल्पयेत्। दानमन्त्रश्च। तमोमय!महाभीम! सोमसूर्यविमर्दन!। हेमनाग! प्रदानेनमम शान्तिप्रदो भव”। स्कन्दपुराणे मोदानं भूमिदानं चस्वर्णदानं विशेषतः। ग्रहणे क्लेशनाशाय दैवज्ञायनिवेदयेत्”। किंचात्र देशविशेषः पात्रविशेषोद्रव्यविशेषश्च नापेक्ष्य इत्याह व्यासः
“सर्वं गङ्गासमतोयं सर्वे ब्रह्मसमा द्विजाः। सर्वभूमिः कुरुक्षेत्रंग्रहणे चन्द्रसूर्ययोरिति”। तत्र स्नानदानादिकं कस्मिन्काले कर्त्तव्यमित्याह
“ग्रस्यमाने भवेत् स्नानं ग्रस्ते होमोविधीयते। मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयत” इतितस्मिन् काले जपादिकमपि विधेयम्
“सूर्येन्दुग्रहणं या-वत्तावत् कुर्याज्जपादिकमिति” शिबरहस्योक्तेः आदिशब्दात्सुरार्चनमपि अत्र जन्मनक्षत्रजन्मराश्योर्ग्रहणशान्ति-माह वशिष्ठः
“यस्यैव जन्मनक्षत्रे ग्रस्येते शशिभास्करौतस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः। द्रव्यमन्त्रवि-धानेन तस्य दोषापनुत्तये। उपरागस्नानविधिं सम्यग्व क्ष्येसमासतः। मण्डलं चतुरस्रं तु गोमयेन विलेपयेत्। गृहस्येशानदिग्भागे वर्णकैः समलङ्कृते। स्थापयेच्चतुरःकुम्भांस्तत्र तान् सागरात्मकान्। सर्ववेदात्मकान् स्मृत्वासर्वतीर्थात्मकान् शुभान्। पल्लवोशीरसायुज्यसर्वौषधिस-मन्वितान्। मृत्तिकाहेमरत्नेन दग्धगुग्गुलचन्दनैः। पञ्चगव्यामृतभ्राजिस्फटिकैः सर्वपावनैः”। इत्युपक्रमे
“तिलहोमं च्याहृतिभिः सहस्रमष्टसंयुतम्। एवं कृत्वाप्रयत्नेन स्नानकर्म समाचरेत्। आमन्त्र्य नवभिर्मन्त्रैःकुम्भान् संकल्पपूर्वकान्। एतानेव ततो मन्त्रान् वर्णयेच्चैवसलिखेत्। कर्तुः शिरसि तं वद्ध्वा वार्त्तिकैर्वेदमन्त्रकैः। सुमन्त्रितैः कुम्भजलैः स्नाप्यं नीराजयेत्ततः। दध्याज्यमग्रेविप्रेभ्यः शुक्लमाल्याम्बरः शुचिः। ऋत्विग्भ्यो दक्षिणांदद्याच्छिष्टेभ्यश्च स्वशक्तितः। योऽसौ वज्रधरो देव आदित्यानां प्रभुर्भतः। सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु
१ । यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः। यमश्चन्द्रो-परागस्य ग्रहपीडां व्यपोहतु
२ । रक्षोगणाधिपः[Page2688-a+ 38] साक्षात् प्रलयानलसन्निभः। चन्द्रस्य ग्रासे कायस्यरक्षःपीडां व्यपोहतु
३ । नागपाशधरो देवः सदामकरवाहनः। वरुणोऽम्बुपतिश्चान्द्रग्रहपीडां व्यपो-हतु
४ । प्राणरूपो हि लोकानां वायुः कृच्छ्रमृग-प्रियः। वायुश्चन्द्रोपरागस्य पीडनं मे व्यपोहतु
५ । योऽसौनिधिपतिर्देवः खड्गशूलगदाधरः। चन्द्रोपरागकलुषांपीडां चापि व्यपोहतु
६ । योऽसाविन्दुधरो रुद्रःपिनाकीवृषवाहनः। चन्द्रोपरागपीडाञ्च नाशयेत् सङ्कटं तथा।
७ त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च। ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु मे
८ । आमन्त्रणो-ल्लेखनोक्तास्त्वेत एव च मन्त्रकाः। अर्चयित्वा पितॄन्देवान् गोभूस्वर्णाम्बरादिभिः। अनेन विधिना यस्तुग्रहस्नानं समाचरेत्। तन्नास्य ग्रहपीडा स्याद्यान-बन्धुधनक्षयः। परमां सिद्धिमाप्नोति पुनरा-वृत्तिदुर्लभम्। सूर्यग्रहेऽप्येवमेव सूर्यनाम्ना विधी-यते। ” अत्र यद्यपि जन्मराशौ धनक्षय इत्युक्तंतत्र च दोषाल्पत्वात् प्रतिमादानशान्त्यकर्त्तव्यता प्रतीयतेतथापि प्राग्विलिखितबहुवचःसु विरुद्धफलाभिधानादेवास्य जन्मराशावपि ग्रहणे शान्तिर्विधेया। उभयाभि-धानेन शान्त्यभिधानात् उक्तं च मत्स्यपुराणे
“यस्यराशिं समासाद्य भवेद्ग्रहणसम्भवः। तस्य शान्तिं प्रव-क्ष्यामि मन्त्रौषधिविधानतः”। इति अतो जन्मनक्षत्रजन्मराशिव्यतिरिक्ते विरुद्धे ग्रहणे शान्तिर्न विधेयावचनाभावात् किन्तु स्वविभवरूपं दानादिरूपं विधेय-मिति तात्पर्यार्थः। सूर्यग्रहेऽप्येवमेवेति योऽसौ वज्र-धरो देव आदित्यानां प्रभुर्मतः। सहस्रनयनः सूर्य्यग्र-हपीडां व्यपोहतु” इत्युक्तदिशा चन्द्रपदस्थाने सूर्य-पदं पूर्वमन्त्रश्लोकेषु प्रयोज्यमित्यर्थः। अथेदं ग्रहणंस्थानविशेषेणारिष्टजनकमित्युक्तं तच्च ग्रहणं न द्रष्टव्य-मित्याह नो वीक्ष्यमिति उक्तं च
“जन्मसप्ताष्टरिप्फाङ्कदश-मस्थेनिशाकरे। दृष्टोऽरिष्टप्रदो राहुर्जन्मर्क्षे निधनेऽपिचेति” जन्मर्क्षं जन्मनक्षत्रं निधनं बधतारा सप्तमी। अत्रदृष्ट इति पदश्रवणात् दुष्टस्थानावस्थितो राहुर्दृष्टःपुंसोरिष्टजनकः यदा तु मेघाद्यावरणेन गृहमध्यावस्थित्यावा चक्षुष्मतोऽपि पुंसो राहुदर्शनाभावस्तदाऽरिष्टं नास्तिएवं चान्धस्य यत्र कुत्राप्यवस्थितस्य गृहाद्बहिर्गन्तुमशक्रुवतो वृद्धातुरादेः सर्वारिष्ट स्नानादि वा नास्तिइति तेषामाशयः। अत्रेद चिन्त्यते किमिदं ग्रहणं[Page2688-b+ 38] दृष्टमेव स्नानाद्यधिकारसम्पादकम्? उत मेषाद्यावरणेनादृष्टमपि? कुतः सन्देहः? उभयथा वचनोपलब्धेस्तथाहि वृद्धवसिष्ठः
“सर्वेषामेव वर्णानां सूतकं राहुदर्शने। सचेलं तु भवेत् स्नानं सूतकान्नं विवर्जयेदिति”। षट्त्रिं-शन्मते
“सर्वेषामेव वर्णानां सूतकं राहुदर्शने। स्नात्वाकर्माणि कुर्वीत शृतमन्नं विवर्जयेदिति”। शृतं पक्वं शृतंपाके” पा॰ इति निपातनात् यद्यपि तस्मिन् सूत्रे
“क्षीरहवि-षोरेवेति” महाभाष्यकृतोक्त तथापि महामुनिप्रयोगादन्यस्मिन्नपि द्रव्ये ओदनादौ पाकसामान्याद्वृत्तिः। विष्णुः
“राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकमिति”। शाता-तपः
“स्नानं दानतपः श्राद्धमनन्तं राहुदर्शने” इतिएवमादीनि वचांसि दर्शनपदसहितान्युपलभ्यन्ते अन्य-थापि वसिष्ठः
“ग्रहणे संक्रमे वापि न स्नायाद्यदि मानवः। सप्तजन्मनि कुष्ठी स्याद्दुःखभागी च जायते” इति लिङ्ग-पुराणेऽपि
“चन्द्रसूर्यग्रहे स्नायात् सूतके मृतकेऽपि च। अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दतीति” एवमादीनि दर्शनपदानाक्रान्तानि वचांस्युपलभ्यन्ते। तत्र दर्शनवादिन आहुः दर्शनपदानाक्रान्तेषु वचः-सु ग्रहणस्य निमित्तत्वं प्रतिपाद्यते।
“ग्रहणे संक्रमेवापीति” निमित्तसप्तम्युपलम्भात्। ज्ञातमेव च ग्रहणंस्नानदानादिकं प्रति निमित्तं भवति तज्ज्ञानापेक्षायांच राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैवनिमित्तत्वं यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं ज्योतिः-शास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः। एवं सति मेघा-च्छन्नग्रहणदिवसजातचन्द्रग्रहणं रात्रिभवेषु सूर्य-ग्रहणेषु न स्नानदानादावधिकारः तस्माद्ग्रहणं दृष्ट्वास्नानदानादिकं विधेयमित्यर्थः सम्पन्नो भवति, नैतत्सहृ-दयह्दङ्गमं यतो वचनेषु राहुदर्शनग्रहणपदयोः समा-नार्थकता नास्ति कथम्
“अदृश्यरूपाः कालस्य मूर्त्तयोभगणाश्रिताः। शीघ्रमन्दोच्चपाताख्या ग्रहाणां गति-हेतवः। ” इति सूर्यसिद्धान्ते चन्द्रादिग्रहपातानामदृश्य-तोक्ता पातो राहुश्च पर्यायः। उक्तञ्च तत्रैव
“दक्षिणो-त्तरयोरेव पातो राहुःस रंहसा। विक्षिपत्येष विक्षेपश्च-न्द्रादोनामपक्रमादिति” केशवार्केणाप्युक्तम्
“पर्य्यायेण तुराहुपातयोर्नामनी विदधुरेव तान्त्रिकाः इति। अतोराहुदर्शनमेव गगनकुसुमायमानम्। ननु ग्रहणे सूर्य-चन्द्रयोश्छादको राहुर्दृश्यत एव अतएव
“राहुग्रस्तेनिशाकरे” इत्यादि पुराणोक्तिः साधीयसीति चेन्न[Page2689-a+ 38]
“भानोर्भार्द्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा। शशा-ङ्कपाते ग्रहणं कियद्भागाधिकोनके” इत्युपक्रम्य
“छादकोभास्करस्येन्दुरधःस्थो घनवद्भवेत्। भूच्छायां प्राङ्मुख-श्चन्द्रो विशत्यस्य भवेदसाविति”। अतो भूच्छायाऽस्यचन्द्रस्य छादको भवेदित्यर्थः इति सूर्यसिद्धान्ते स्पष्टएव छाद्यच्छादकभावोऽभिहितः पुराणेन सह विरोधपरिहारस्तु
“दिग्देशकालावरणादिभेदान्न छादको राहु-रिति ब्रुवन्ति। यन्मानिनः केवलगोलविद्यां स्वसंहिता-वेदपुराणवाक्यमिति” पूर्वपक्षं विधाय
“राहुः कुभामण्ड-लगः शशाङ्कं शशाङ्कगश्छादयतिनबिम्बम्। तमोमयःशम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतदिति” भास्क-राचार्यैरेवोक्तः
“तस्मिन् काले सान्निध्यमस्य तेनोपचर्यतेराहुरिति” वराहेण उक्तम् तस्माद्राहुदर्शनं तु नास्त्येवभवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् एव सति राहो-र्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः। यदि तुसमीपलक्षकदर्शनशब्दमङ्गीकृत्य तदर्थः क्रियते। तदापियस्य स्वरूपमेवानुपपन्नं तस्य समीपे तु सुतरामितिबालैरप्येतद्बुध्यते। तस्माद्दर्शनशब्देनोपरागो ल-क्ष्यते राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति। अयमर्थः। राहुर्नाम पातः तस्य सम्बन्धेन दर्शनमुपरागइति। न च राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमितिपूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यं लक्षणा त्वर्थान्तरान्तरासम्भवे सति वक्तव्या।
“अत्यन्तादर्शनं राहोस्तथा चात्यन्त-दर्शने। प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैरिति” विष्णुधर्मोत्तरादिवाक्येषु पदान्तरासन्निधानाद्राहुदर्शने-नोपरागो लक्ष्यते। इदं च राहोः पातनामकग्रहणंप्रति हेत्वर्थान्तरमस्तीत्यतो राहुदर्शनग्रहणयोः समानार्थकता नास्तीत्येवं सिद्धमिति। प्रागुक्तानां सर्ववचसांग्रहणे स्नायादित्येव वाक्यार्थः फलितो भवति। किञ्च ग्र-हणे चाक्षुषमेव दर्शनं निमित्तं विवक्षितं चेत्तदा
“नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कथञ्चन। नोपरक्तं न वारिस्थं नमध्ये नभसोगतम्” इत्युक्तोपरक्तसूर्यदर्शननिषेधो नोप-पद्येत नन्वयं निषेधः सूर्योपरागदर्शन एव न चन्द्रोप-राग इति चेन्न
“नाशुची राहुतारकाम्” इत्यत्र राहु-मात्रग्रहणाद्रविचन्द्रोपरागद्वयविषयकोपसंहारस्य युक्त-त्वात् अशुचे रजस्वलापतितादेर्ग्रहणं तु दोषा-धिक्यसूचनार्थं यथा श्राद्धे कुलीनानां ब्राह्मणानामामन्त्रणे उक्ते अन्येषां निषिद्धत्वादेव कुण्डगोलक ब्राह्मणा[Page2689-b+ 38] नामनामन्त्रणे सिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव।
“भा-स्करालोकनाश्लीलपरिवादादि वर्जयेदिति” स्मृति-वाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्ययुक्तत्वात्। केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्यबलत्वात्सकृद्दृष्ट्वा स्नायादिति व्याचख्युः तच्चिन्त्यं
“जन्म-सप्ताष्टरिफाङ्केत्यदिना सामान्यतो निषिद्धस्योपरक्तद-र्शनस्य पुनर्निषेधात् प्रागुक्त्वदिशा राहुदर्शनपदस्यराहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च तस्मादुपर-क्तयोः सूर्यचन्द्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात्ग्रहणे स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैक-देशगणितग्रन्येभ्यो बुद्ध्वा तस्मिन् काले स्नानदानादिविधेयमिति सिद्धान्तः। अतएव मेघाद्यावृतेऽप्युपरागेस्नानादिकं विधेयमेव ननु गणितग्रन्थाधीनमुपरागज्ञानमेव चेत् स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्यजायमानत्वात्तदापि स्नानादिकं स्यात्। सत्यमेवैतत्वचनात्तथा न क्रियते। तदुक्तं निगमे
“सूर्यग्रहोयदा रात्रौ दिवा चन्द्रग्रहो यदि। तत्र स्नानं न कुर्वीतदद्याद्दानं न च क्वचिदिति”। अतएव तादृशे ग्रहणेदुष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते। न चैतद्भागेप्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नान्तरिक्षेन दिवीत्युदाहृतबाक्यवन्नित्यानुवाद इति वाच्यं विधि-शेषत्वाभावात् यथा पृथिव्यामग्निर्नचेतव्य इति न निषेधविधिरस्ति तत्र नान्तरिक्षे न दिवीति दृष्टान्तो निषेधविधेः शेषस्तथात्र सूर्यग्रहो यदा रात्रावित्येतद्वाक्यस्यविधेः शेष इति। किञ्चैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यंस्यान्नचैतद्युक्तम् अतएवाह जावालिः
“संक्रान्तेःपुण्यकालस्तु षोडशोभयतः कलाः। चन्द्रसूर्योप्ररागेतु यावद्दर्शनगोचरः” इति। ग्रस्तस्यास्तमनपर्यन्तं दर्शन-गोचरत्वात्तावान् कालः पुण्यकालो भवतीति माधवोव्याचख्यौ तदुक्तं विश्वरूपनिर्णये
“दिवा चन्द्रग्रहो रात्रौसूर्य्यपर्व न पुण्यदम्। सन्धिस्थं पुण्यवत्ज्ञेयं यावद्दर्शन-गोचरः” इति। अन्ये तु मेघावृते तदनावृते चोपरागेगणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः। दर्शने त्वे-वंविधे निर्णये भुजवृत्तादुपरिस्थितत्वमेव विवक्षितं तदाहवसिष्ठः स्वसिद्धान्ते
“सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शना-त्मकम्। भुजवृत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतमिति” अर्क इत्युपलक्षणं चन्द्रादिग्रहनक्षत्राणाम्। आकाशप्र-देशःसमन्ताद्भूसंल्लग्न इव यत्र भाति स प्रदेशो भुजशब्द-[Page2690-a+ 38] पाच्यः अतएव विष्णुधर्मोत्तरे
“अहोरात्रं न भोक्तव्यंसूर्यचन्द्रग्रहो यदा। मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानंकृत्वा ततः परमिति। ” ग्रस्तास्ते भृगुः
“ग्रस्तगौ वास्तमनंतु रवीन्दू प्राप्नुतो यदि। तयोः परेद्युरुदये स्नात्वाभ्यव-हरेन्नरः” इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भुजवृत्तोपरि-स्थितत्वोपलक्षकौ अन्यथा मेघाद्यावरणेन परदिवसेऽपिदर्शनाभावे उपवासः प्रसज्येत तथा यत्र स्पर्शकालेग्रहणं दृष्ट्वा स्नानं विहितं तत्रान्तरा मेघावरणात्सूर्यचन्द्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युप-वासप्रसङ्गः। न च सर्वे शिष्टास्तथाचरन्ति। तस्माद्दर्शना-र्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव व्याख्या कर्त्तव्या। तस्यांच सत्यां पूर्वोक्तरीत्या च मेघानावृतेप्युपरागे तम-दृष्ट्वैव प्रशस्तचक्षुषा अन्धेन च गन्तुमशक्नुवद्भिर्वृद्धातु-रैश्च स्नानदानादिकं विधेयमिति फलितोऽर्थः। अतएवभागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानांपाण्डवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इतिविशिष्टाचारोऽप्यस्ति। एवं च सत्यरिष्टजनकत्वाभावेऽपिग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे। तस्माज्जन्मसप्ताङ्केत्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यंप्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदाभावाच्च। अतएव मूले परे इति पदं प्रयुक्तम्। शान्तिस्तुदर्शनाभावेऽपि विधातुमुचिता यतोऽरिष्टयोगानां स्वरूप-सतामेवारिष्टजनकत्वमस्ति अन्यथा ग्रहवेधस्योत्पा-तादिसूचितारिष्टनिवृत्तिहेतुः शान्तिर्दर्शनाभावे नविधीयेत इत्यलमतिप्रसक्तानुप्रसङ्गेन (
६ )। पी॰ धा॰। अधिकमुपरागशब्दे
१२
८५ पृ॰ दृश्यम्।
“अथ चन्द्रबलेविशेषमनुष्टुभाह पापान्तः इति शुभोऽपि शुभफल-दोऽपि चन्द्रः पापान्तःपापयुग् द्यूने पापद्वयमध्यवतींपापग्रहयुक्तः पापद्यूने सप्तमस्थाने वर्त्तमानश्चेत्स्यात्तदा असन् अशुभ एव यदात्वशुभोऽप्यशुभफलदातापिचन्द्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्यनवांशे स्यात्तथा गुरुणा वृहस्पतिना दृष्टः सन् शुभफलदाता भवेत् यदाह राजमार्त्तण्डः
“पापग्रहेण संयुक्तःपापजामित्रसंस्थितः। पापद्वयमध्यगतः शुभोऽप्यशुभदःशशी। अनिष्टस्थानसंस्थोऽपि भवेच्छुभकरः शशी। सौ-म्यभागाधिमित्रांशे गुरुणा वापि वीक्षित” इति (
७ )। अथचन्द्रबलस्य विधानान्तरमनुष्टुभाह। सितेति सितादौशुकपक्षप्रतिपदि सभीचीने चन्द्रे सति सम्पूर्णः शुक्ल-[Page2690-b+ 38] पक्षः शुभः असितादौ कृष्णपक्षप्रतिपदि दुष्टे चन्द्रेसति सम्पूर्णः कृष्णपक्षः शुभः व्यत्यासे च पूर्वोक्तादर्थाद्वैपरीत्ये द्वावपि पक्षावनिष्टौ यदा शुक्लपक्षप्रतिपदिचन्द्रोदुष्टश्चेत्तदा सकलशुक्लपक्षोऽनिष्टः। यदा कृष्ण-पक्षप्रतिपदि चन्द्रः शुभश्चेत्तदा सम्पूर्णः कृष्णपक्षोऽनिष्टःइति उक्तञ्च रत्नमालायां
“वलक्षपक्षादिगते हिमांशौशुभे शुभं पक्षमुदाहरन्ति। सितेतरादावशुभे च पक्षा-विन्दावनिष्टौ भवतोऽन्यथा तौ” कश्यपोऽपि शुल्कादीन्दुःशुभो यस्य तत्पक्षस्तस्य शोभनः। कृष्णादीन्दौ त्वशुभदेशुभस्तद्व्यत्ययेऽन्यथेति” इदमेतादृशमब्जबलं चन्द्रबलं तु सङ्कटेविवाहयात्रावश्यकर्त्तव्ये तात्कालिचन्द्रवलाभावे ग्राह्यंनान्यथेत्यर्थः (
८ )। अथ ग्रहाणां दौष्ट्यपरिहारपूर्वकंतुष्टिसम्पादनार्थं नवरत्नसमुदायधारणं शालिन्याह वज्रंशुक्रे इति। अत्रैकां सुवर्णमुद्रिकां कृत्वा तत्र दशधाभागेवर्तुलाकारे नवधा विभक्ते प्रागादिक्रसेण नवरत्नानिदृढं निधेयानि तत्र प्रागिति पञ्चम्यन्तमव्ययं पञ्चमी चेयंल्यब्लोपे अतः प्रागादिदिक्षु इत्ययमर्थो जातः तत्रशुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम्। एवं चन्द्रप्रीत्यर्थं शोभनमुक्ताफलमाग्नेय्यां, भौमप्रीत्यर्थं प्रवालंदक्षिणस्याम् अगौ राहुप्रीत्यर्थं गोमेदं नैरृत्याम्। आर्कौ शनिप्रीतये शोभननीलं पश्चिमायाम्। केतुप्रीतयेवैदूर्यं वायव्याम्। गुरुप्रीतये पुष्पकं पुष्परागम् उत्तर-स्याम्। बुधप्रीतये पाचिः गारुत्मतम् ईशान्यां सूर्यप्रीतयेमाणिक्यं मध्यमकोष्टे इति (
९ )। अथ सति द्रव्यसामर्थ्ये नवरत्नसमुदायधारणस्य शक्य-त्वात्तदुक्त्वेदानीमसति द्रव्यसामर्थ्ये यद्ग्रहकृतं दौष्ट्यंतद्ग्रहरत्नधारणमिन्द्रवज्रयाह माणिक्येति। सूर्य-प्रीत्यर्थं माणिक्यं धार्यम्। एवं चन्द्रस्य मुक्ताफलम्। भौमस्य विद्रुमम्। बुधस्य गारुत्मतं गारुडे पाचिः। गुरोः पुष्पकं पुष्परागः। शुक्रस्य वज्रम्। शनेर्नीलंराहोर्गोमेदं (लसु निया इति) कान्यकुब्जभाषयाहुःकेतोर्वैदूर्यमित्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानिधार्याणि स्युः। तत्र यद्ग्रहकृतं दौष्ट्यं तस्य ग्रहस्यतुष्ट्यै तद्रत्नं धार्यमित्यर्थः यदाह कश्यप्रः सूर्यादीनांच संतुष्ट्ये माणिक्यं मौक्तिकं तथा। सुविद्रुमं मरकतंपुष्परागं च वज्रकम्। नीलगोमेदवैदूर्यं धार्यं स्वस्वदृढक्र-मात्”। अथोज्ञस्य मुदे सुवर्णमित्यग्रिमश्लोकेन सम्बन्धः (
१० )अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्प-[Page2691-a+ 38] मूल्यानि रत्नानि ताराबलं च शालिन्याह धार्यमिति। अथो ज्ञस्य बुधस्य मुदे सन्तोषार्थं सुवर्णं यथाशक्ति धा-र्यम्। राहुकेत्वोः प्रीत्यै राजावर्त्तकं मणिविशेषोधार्यःएवं शुक्रेन्द्वोस्तुष्ट्यै रौप्यं, गुरोस्तुष्ट्यै मुक्ता। मन्दस्यशनेस्तुष्ट्यै लोहम्। आरभान्वोर्मङ्गलसूर्ययोः प्रीत्यै-प्रबालं धार्यम्। उक्तं च श्रीपतिना
“धार्यं तुष्ट्यैविद्रुमं भौमभान्वोरूप्यं शुक्रेन्द्वोश्च हेमेन्दुजस्य। मुक्ता-सूरेर्लौहमर्कात्मजस्य राजावर्त्तः कीर्त्तितः शेषयोश्चेति” सूरेः सुरगुरोः। शेषयोः राहुकेत्वोः। दीपिकाकारस्तुऔषधीमूलानि धार्याणीत्याह
“मूलं धार्यं त्रिशूल्याःसवितरि विगुणे, क्षीरिकामूलमिन्दौ, जिह्वाहेर्भूमिपुत्रे,रजनिकरसुते वृद्धदारोच्चमूलम्। भार्गी जीवेऽथ शुक्रेभवति शुभकरं सिंहपुच्छस्य मूलं, विच्छोलं चार्कपुत्रे, तम-सि मलयजं, केतुदोषेऽश्वगन्धमिति” त्रिशूली बिल्वःक्षीरिका क्षिरिणी जिह्वाहिर्नागजिह्वा वृद्धदारुर्वि-दारी। भार्गी प्रसिद्धा। सिंहपुच्छं (वाघोट चरिवारेति)मध्यदेशभाषया प्रसिद्धम्। मलयजं चन्दनम्। अश्व-गन्धं प्रसिद्धम्। एतदोषधीमूलधारणं सर्वथा रत्न-धारणाशक्तौ वेदितव्यम्” पी॰ धा॰ गोचरप्रसङ्गात्तारावलादिकमाह तस्मैवतारेति। यद्दिने ताराबलमस्ति वा नवेति विचारश्चिकी-र्षितस्तद्दिने या तारा सा जन्मर्क्षात् जन्मनक्षत्रात् त्रिरा-वृत्तितः पुनरावृत्तित्रयेण गणनीया स्यात्। त्रिरिति
“द्वित्रिचतुर्भ्यः सुजिति” पा॰ सुजन्तमव्ययम्। स्वजन्मनक्ष-त्राद्दिननक्षत्रे गणिते नवभिर्भक्ते तिस्र आवृत्तयोभवन्त्य-वशिष्टतारायाः शुभमशुभं वाच्यमिति फलितोऽर्थः
११ । (
“जन्माख्यसम्पद्विपदः क्षेमप्रत्यरिसाधकाः। बधमैत्रातिमैत्राःस्युस्तारा नामसदृक्फलाः
१२ ॥ मृत्यौ स्वर्ण-तिलान् विपद्यपि गुडं, शाकं त्रिजन्मस्वथो दद्यात्प्रत्य-रितारकासु लवणं, सर्वोविपत्प्रत्यरिः। मृत्युश्चादिम-पर्यये न शुभदोऽथैषां द्वितीयेंशका नादिप्रान्त्यतृतीयकाअथ शुभाः सर्वे तृतीये स्मृताः
१३ ॥ षष्टि
६० घ्नं गतभम्भुक्तघटीयुक्तं युगा
४ हतम्। शराब्धि
४५ हृल्लब्धतोऽर्क
१२ शेषेऽवस्थाः क्रियाद्विधोः
१४ ॥ प्रवास-नाशौ मरणञ्जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः। ज्वराख्यकम्पस्थिरता अवस्था मेषात् क्रमान्नामसदृक्-फलाः स्युः
१५ । लाजाकुष्ठबलाप्रियङ्गुधनसिद्धार्थै-र्निशादारुभिः पुङ्खालोध्रयुतैर्जलैर्निगदितं स्नानं[Page2691-b+ 38] ग्रहोत्थाघहृत्। धेनुः कम्ब्वरुणो वृषश्च कनकम्पीता-म्बरङ्घोटकः श्वेतो, गौरसिता, महासिरज इत्येता रवे-र्दक्षिणाः
१६ । सूर्यारसौम्यास्फुजितोऽक्षनागसप्ता-द्रिघस्रान्विघुरग्निनाडीः। तमोयमेज्यास्त्रिरसाश्विमा-तान् गन्तव्यराशेः फलदाः पुरस्तात्
१७ । दुष्टे योगेहेम, चन्द्रे च शङ्खं, धान्यं तिथ्यर्धे, तिथौ तण्डु-लांश्च। वारे रत्नं भे च गां, हेम नाड्यां, दद्यात्सिन्धू-त्थञ्च तारासु राजा
१८ । राश्यादिगौ रविकुजौ फलदौ,सितेज्यौ मध्ये, सदा शशिसुत, श्चरमेऽब्जमन्दौ। अध्वान्नवह्निभयसन्मतिवस्त्रसौख्यदुःखानि मासि जनिभे रविवास-रादौ”
१९ मू॰ चि॰। अथ शेषक्रमेण सकलास्तारासंज्ञा अनुष्टुभाह। जन्मा-ख्येति। स्पष्टार्थमिदम्पद्यम्। यदाह नारदः
“जन्मसम्पद्विपत् क्षेमं प्रत्यरिः साधको बधः। मित्रम्परम-मित्रन्तु जन्मभाच्च पुनः पुनरिति”। एवं तारा गणनीयाइति शेषः। तत्र तृतीयापञ्चमीसप्तम्यस्तारा निषिद्धाःअनिष्ट फलश्रवणात्। अर्थादन्याः समीचीनाः समीचीनफलश्रवणात्। उक्तञ्च
“जन्मतारा द्वितीया च षष्ठी चैवचतुर्थिका। अष्टमी नवमी चैव षट्च ताराः शुभावहाः” इति। जन्मनक्षत्रन्तु कार्यविशेषे गृहीतं प्रतिषित्तञ्चतच्चाग्रे निर्णेष्यते। तदिदन्ताराबलं कृष्णपक्षविषयंन तूभयपक्षसाधारणम्। तदाह नारदः
“कृष्णे बल-वती तारा शुक्लपक्षे बली शशीति”। युक्तञ्चैतत् यतोऽत्रार्थवादो रत्नमालायाम्
“न खलु बहुलपक्षे शीतरश्मेःप्रभावः, कथितमिह हि तारावीर्यमार्यैः प्रधानम्। अतिविकलशरीरे प्रेयसि प्रोषिते वा प्रभवति खलुकर्तुं सर्वकार्याणि योषा। शुक्ले पक्षे शीतरश्मिर्बली-यान्न--प्राधान्यं तारकायास्तु तत्र। शक्त्या युक्ते विद्य-मानेऽपि कान्ते न स्वातन्त्र्यं योषितः क्कापि दृष्टमिति”
१२ अथावश्यककृत्ये दुष्टताराणाम्प्रकारद्वयेन परिहारंशार्दूलबिक्रीडितेनाह
“मृत्यौ स्वर्णतिलानिति। मृत्यौसप्तम्यां बधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तांस्तिलान् ब्राह्मणाय दद्यात्। विपद्यपि विपत्संज्ञायांतृतीयतारायाङ्गुडमिक्षुविकारन्दद्यात्। त्रिजन्मसुतिसृषु जन्मतारासु शाकम्प्रसिद्धं वृन्ताकादि दद्यात्। अथो प्रत्यरितारकासु पञ्चम्यान्तारायां लवणन्दद्यात्। तदाह नारदः
“जन्मत्रिपञ्चसप्ताख्या ताराऽनिष्टफल-प्रदा। अनिष्टपरिहाराय दद्याद्दानन्द्विजातये। शाकं[Page2692-a+ 38] गुडञ्च लवणं सतिलं काञ्चनं क्रमादिति” अत्र सतिल-मिति विशेषणं काञ्चनपदस्य न लवणपदस्य तेन बध-तारायां सतिलं काञ्चनन्देयम्। उक्तञ्च दीपिकायाम्
“प्रत्यरौ लबणन्दद्याञ्छाकन्दद्यान्त्रिजन्मसु। विपत्तारेगुडन्दद्यान्निधने तिलकाञ्चनमिति” अथ द्वियीयः परि-हार उच्यते। तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्य-रिर्मृत्युश्च तृतीयापञ्चमीसप्तम्यस्ताराः सर्वा अपिसामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युःअथ द्वितीये पर्य्याये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूना-मादिप्रान्त्यतृतीयका अंशा न शुभदाः विपत्तारायांप्रथमविंशतिघटिकास्त्याज्याः। इतरा श्चत्वारिंश-च्छुभाः। प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्या-ज्यास्तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः। बध-नारायामहिमा विंशतिर्घटिकास्त्याज्या आद्याश्चत्वारिंश-च्छुभा इति नवीना व्याकुर्वते। जीर्णास्त्वंशशब्देननक्षत्रचतुर्थांशमाहुः। तथासति आदिप्रान्त्यतृती-यकाश्चरणाः क्रमेण निषिद्धाः इतरे शुभाः। अथततोये पर्याये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्चैतेसर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाःस्मृताः। तथा च जगन्मोहने गुरुरित्युक्त्या पठितं
“पर्याये प्रथमे वर्ज्याविपत्प्रत्यरिनैधनाः। द्वितीये त्वंशकावर्ज्यास्तृतीये त्वखिलाः शुभाः” द्वितीये पर्याये अंशकाना-ह सएव।
“अद्यांशोविपदि त्याज्यः प्रत्यरौ चरमोऽशुभः। वधे त्याज्यस्तृतीयोंऽशः शेषा अंशास्तु शोभनाः” इति। अत्रांशो नक्षत्रचतुर्थांश उच्यते। किमत्र प्रमाणमिति-चेत् उच्यते।
“जन्मर्क्षाद्दशमङ्कर्म सङ्घातर्क्षन्तु षोडशम्। अष्टादशं सामुदायं त्रयोविंशं विनाशनम्। मानसंपञ्चविंशर्क्षं नाचरेञ्छुभमेषु तु” इति नारदोक्तैर्वैनाशि-काख्यत्रयोविंशभस्य दुष्टत्वम्। तदपवादमाह च्यवनः
“वैनाशिकाख्ये नक्षत्रे अष्टाशीत्यंशकं विना। शेषांशाःशुभदा ज्ञेयाजन्मनीन्दुगतांशकाः। ” इति। अत्र वैनाशिकंप्रत्यरिसंज्ञन्तस्य चरमांशस्यानिष्टता प्राप्ता साष्टाशीत्यंशकं बिनेत्यनेन व्याध्यते इत्यत एकत्र दृष्टः शास्त्रार्थोऽपर-त्रापि विनियुज्यत इति न्यायादत्राप्रि मैव व्याख्येति ननवीनमतञ्ज्यायोऽप्रमाणकत्वात्
१३ । अथ चन्द्रावस्था-वक्ष्यति तद्गणनोपायमनुष्टुभाह षष्टिघ्नमिति। अत्रचन्द्रस्य राशौ राशौ द्वादश अथस्थाः सन्ति यदाहनारदः
“चन्द्रस्य द्वादशावस्था राशौ राशौ यथा-[Page2692-b+ 38] क्रमात्। यात्रोद्वाहादिके कार्ये संज्ञा तुल्यफलप्रदा” तत्राश्विनीमारम्य गतभानि षष्ट्या गुण्यानि वर्तमान्( नक्षत्रभुक्तघटीयुक्तानि कार्याणि। तानि पुनर्युगैश्चतुर्भि-राहतानि शराब्धि
४५ हृत् पञ्चचत्वारिंशता भाज्यानि। यल्लब्धमागतं गतावस्थास्ताः शेषं वर्त्तमानावस्था तत्रलब्धाङ्कस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासा-द्यवस्था चन्द्रस्य गताः स्युः। ता अवस्था मेषराशेःपुंसः प्रवासादिसंज्ञा वृषराशिस्थे चन्द्रे नष्टादिसंज्ञाःस्युः। एवं मिथुनादिदशराशिषु मृतादिसंज्ञाह्यव-स्थाः क्रमेण भवन्तीत्यर्थः। यदाह नारदः
“षष्टिघ्नंचन्द्रनक्षत्रं तत्कालघटिकान्वितम्। वेदघ्नमिषु
४५ वेदाप्तमवस्था भानु
१२ गाजिताः। ” इति। अत्रोपपत्तिः एकैक-स्मिन् राशौ द्वादशद्वादशावस्थाः सन्ति, सामान्यतो न-क्षत्रभोगः षष्टि घटिकात्मक इत्येवं सति राशिभोग-घटिकाः पञ्चत्रिंशदधिकशतं भवन्ति। तत्र त्रैरा-शिकं यद्येताभि
१३
५ र्घटीभिर्द्वादशावस्था लभ्यन्ते तदे-ष्टघटीभिः किमिति तत्रैकः कल्प्यः गुणनायांविकारानापत्तेर्द्वादशानामयमङ्को
१३
५ भाजको जाता
१२ अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्त्ते गुणकश्च-त्वारः
४ भाजकः पञ्चचत्वारिंशत्
४५ तत्कालघ-टीयोगस्तु न्यायप्राप्त एव। तथा द्वादशभागोऽपि त-दाधिक्यस्य निष्प्रयोजनत्वात् अत्रेदमवधार्यम् यद्यपिनक्षत्राणां घटीन्यूनाधिकभावः सम्भवति तथापिषष्टिघटिकात्मकेन व्यवहारः कार्यः। विद्यमानन-क्षत्र भुक्तं तु स्वभोगं ज्ञात्वा षष्टिघटिकात्मकं कृत्वातत्र योज्यम्। यथा यदि स्वभोगेन षष्टिघटिका लभ्यन्तेतदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टि-र्गुणक्तो नक्षत्रभोगो भाजक इति
१४ । अथ द्वाद-शवस्थानामानि सफलान्युपजात्याह पवासना-शाविति। स्पष्टार्थमिदं पद्यम्। उक्तञ्च कश्यपेनं
“प्रवासनष्टा च मृता जया हास्या रतिर्मुदा। सुप्ताभुक्ता ज्वरा कम्पा सुस्थितिर्नामसन्निभा” इति। मुदा।
“षिद्भिदादिभ्योऽङ्” पा॰ अङ् ततष्टाप्
१५ । अथ ग्रहाणांवैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूल-विक्रीडितेनाह। लाजाकुष्ठमिति। लाजा भ्रष्टशालयःइति केचित् वस्तुतस्तु ओषधीसाहचर्याल्लाजाशब्देनलज्जावती गृह्यते। कुष्ठं प्रसिद्धम्। बला
“वरियाग इति” कान्यकुब्जभाषायामाहुः। प्रियङ्गुः[Page2693-a+ 38] रालः। घनो मुस्ता, सिद्धार्थाः सर्षपाः (शिरसा) इतिमहाराष्ट्राः (सरिषा) इति कान्यकुब्जाः। निशे हरिद्रा-द्वयं दारु देवदारुः पुङ्खा शरपुङ्खा। लोध्रं प्रसिद्धंएतैरौषधैर्युतानि गङ्गादिजलानि तैः कृत्वा स्नानंदुष्टग्रहसूचितारिष्टनाशकं स्यात्। उक्तञ्च दीपि-कायाम्
“सिद्धार्थलोध्ररजनीद्वयमुस्तधान्यं लाम-ज्जकं सफलिनी सवचा च मांसी। स्नानं कुरु ग्रह-गणप्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखीभवन्ति। ” दैवज्ञमनीहरेऽपि
“सप्रियङ्गुरजनीद्वयमांसी कुष्ठलाज-सितसर्षपखण्डैः। वारिभिः सहवचैः सहलोध्रैःस्नानमत्ति निखिलग्रहपीडामिति” वारिभिस्तीर्थोदकैःरत्नमालायां तु प्रत्येकं ग्रहाणामौषधमेदस्नानमुक्तं यथा। रवेः--
“मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वि-तैः। सताम्रपुष्पैर्विषमे स्थिते रवौ शुभावहं स्नान-मुदाहृतं बुधैः”। चन्द्रस्य--
“पञ्चगव्यगजदानविमिश्रैः शङ्खशुक्तिकुमुदस्फटि-कैश्च। शीतरश्मिकृतवैकृतहन्तृ स्नानमेतदुदितं नृप-तीनाम्”। कुजस्य--
“बिल्वचन्दनबलारुणपुष्पैर्हिङ्गुकल्कफलिनीबकुलै-श्च। स्नानमद्भिरिह मांसियुताभिर्भौमदौस्थ्यविनिवा-रणमाहुः”। बुधस्य--
“गोमयाक्षतफलैः ससरोजैः क्षौद्रशुक्तिनवमूल-हेमभिः। स्नानमुक्तमिदमत्र भूभृतां बोधनाशुभविना-शनं बुधैः”। गुरोः--
“मालतीकुसुमयुक्तसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः। क्षिप्रमम्बु मधुकेन च स्फुटं वैकृतं गुरुकृतं विनिहन्ति”। शुक्रस्य--
“एलया च शिलया समन्वितैर्वारिभिः सफलमू-लकुङ्कुमैः। स्नानतो मृगुसुतोपपादितं दुःखमेति विलयंन संशयः”। शनेः--
“असिततिलाञ्जनलोध्रबलाभिः शतकुसुमाघनलाजयु-ताभिः। रवितनये कथितं विषमस्थे दुरितहृदाप्लवनंमुनिमुख्यैः”। राहुकेत्वोः--
“लोध्रगर्भतिलपत्रकमुक्ताहस्तिदानमृगनाभिप-योभिः। स्नानमार्त्तिमिह कृन्तति राहोः साजमूत्रमि-दमेव च केतोः”। राहुकथितद्रव्यमजमूत्रसहितंकेत्वर्थंस्यात्। अतएवोक्तं दीपिकायाम्
“प्रयोज्यमौषधस्नानंग्रहविप्रसुरार्चनम्। ग्रहानुद्दिश्य होमो वा ग्रहाणांप्रीतिमिच्छता” तत्र ग्रहपूजाहोमौ वशिष्ठसंहितायां[Page2693-b+ 38] महता प्रबन्धेनोक्तौ तौ तत एवावगन्तव्यौ इत्यलमति-विस्तरेण। अथ रवेरिति। रविमारभ्य दक्षिणा उ-च्यन्ते। तत्र सूर्य्यप्रीत्यर्थं धेनुर्गौः। चन्द्रप्रीत्यर्थं कम्बुशङ्खः। कम्बु इति नपुंसकलिङ्गम् पृथक्पदम्
“शङ्खःस्यात्कम्बुरस्त्रियाम्” इत्यमरोक्तेः। मङ्गलप्रीत्यर्थमरुणआरक्तो वृषः। बुधप्रीत्यर्थं कनकं सुवर्णम्। गुरुप्रीत्यर्थंपीताम्बरं तच्च यथाविभवं कार्पासं कोषजं च। शुक्र-प्रीत्यर्थं श्वेतो घोटकः। शनिप्रीत्यर्थमसिता श्यामवर्णागौः। राहुप्रीत्यर्थं महाऽसिबहुमौल्यखड्गः। केतु-प्रीत्यर्थमजः छागो दक्षिणेत्यर्थः। यदाह वसिष्ठः
“धेनुं शङ्खं रक्तवृषं हेम पीताम्बरद्वयम्। श्वेताश्वंकृष्णधेनुञ्च कृष्णलोहमजं क्रमात्। स्वर्णेन वा समी-कृत्य दातव्या दक्षिणा ततः। आचार्य्याय जापकेभ्यो-ब्राह्मणेभ्योऽथ शक्तितः” इति। अत्र प्रत्येकं दान-मन्त्रास्तत्रैवोक्ताः ग्रन्थभूयस्त्वभयान्न लिख्यन्ते।
“एवंयः कुरुते सम्यक् ग्रहयज्ञं नृपोत्तमः। सर्वान् कामा-नवाप्नोति शुभस्थानफलं लमेत्” नृपोत्तम इत्युप-लक्षणम्। तेन यः कश्चिद्ग्रहस्थोपि कुर्य्यात् तत्र स्वविभबानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् यथा। रवेः--
“कौसुम्भवस्त्रं गुडहेमताम्रमाणिक्यगोधूमसुवर्ण-वस्त्रम्। सवत्सगोदानमतिप्रणीतं दुष्टाय सूर्य्यायमसूरिकाश्च”। चन्द्रस्य--
“घृतकलसं सितवस्त्रं दधिशङ्खे चैव भौक्तिकसु-वर्णे। रजतञ्च सम्प्रदद्याच्चन्द्रारिष्टोपशमनाय”। कुजस्य--
“प्रबालगोधूममसूरिकाश्च वृषश्च ताम्रः करवीर-पुष्पम्। आरक्तवस्त्रं गुडहेमताम्रं दुष्टाय भौमायसचन्दनं हि”। बुधस्य--
“नीलं वस्त्रं मुद्गदानं बुधाय रत्नं पाची दासिकाहेमसर्पिः। कांस्यं दन्तः कुञ्जरश्चाथ मेषो रौप्यं सर्वंपुष्पजात्यादिकञ्च। गुरोः--
“अश्वः सुवर्णं शुकपीतवस्त्रं सपीतधान्यं लवणंसपुष्पम्। सशर्करं तद्रजनीप्रयुक्तं दुष्टाय शान्त्यै गुरवेप्रदेयम्” रजनी हरिद्रा। शुक्रस्य--
“चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परि-गीतम्। तण्डुलं घृतसुवर्णरूप्यकं वज्रकं परिमलोधवलोऽश्वः”। शनेः--
“नीलकं महिषं कृष्णं वस्त्रं लोहं सदक्षिणम्। दद्याच्च दक्षिणायुक्तं शनिदौष्ट्याप्रशान्तये”। [Page2694-a+ 38] राहोः--
“राहोर्दानं बुधैर्मेषो गोमेदं लोहकम्बलौ। सुवर्णं नागरूप्यञ्च सतिलं ताम्रभाजनम्” केतोः--
“केतौ वैदूर्यममलं तैलं मृगमदस्तथा। ऊर्णाति-लाश्च संयुक्ता दद्यात् क्लेशापनुत्तये”। अन्यच्च संहिताप्रदीपे
“भानुस्ताम्बूलदानादपहरतिनृणां वैकृतं वासरोत्थ” सोमः श्रीखण्डदानादबनिसू-तवरो भोजनात् पुष्पदानात्। सौम्यः शक्रस्य मन्त्री हरि-हर नमनात् भार्गवः शुभ्रवस्त्रैस्तैलस्नानात् प्रभाते दिन-करतनयौ ब्रह्मनत्या परौ चेति”। ब्रह्मा ब्राह्मणः। परौ राहुकेतू
१६ । अथ सूर्यादयो ग्रहा गन्तव्यराशेःप्राक् कियद्भिर्दिनैः फलं दद्युरित्येतदुपजात्याह सूर्या-रसौम्येति। सूर्यादयो ग्रहा गन्तव्यराशेर्जिगमिषि-तराशेः पुरस्तात् पूर्वमेवैतत्संख्यकदिवसघटीमासान् अत्र
“कालाध्वनोरत्यन्तसंयोगे” इति पा॰ द्वितीया ततो नैरन्त-र्येण तावन्तं कालं फलदाः स्युः तद्यथा। सूर्यो गन्वव्य-राशेः प्राक् अक्षवस्रान् पञ्च दिवसान् फलदः। एवमारोभौमोऽष्ट दिवसान् पूर्वं फलदः, बुधः सप्त दिवसान्,शुक्रोऽपि सप्त दिवसान्, विधुश्चन्द्रः अग्निनाडीर्घटिकात्र-यमेव प्राक् फलदः, राहुर्गन्तव्यराशेः प्राक् त्रिमासंफलदः एवं शनिः षण्मासान्। गुरुर्द्विमासान् पूर्वंफलद इत्यर्थः। उक्तञ्च
“सूर्यः पञ्चदिनं शशी त्रिघ-ष्ठिकं भौमोऽष्ट वै वासरान् सप्ताहानि भृगुः ससो-मतनयो, मासद्वयं वै गुरुः। षण्मासान् पुरतोऽपिसूर्यतनयो राहुश्च मासत्रयं, केतुश्चैव ददाति भाविसकलं गन्तव्यराशेः फलमिति”। जगन्मोहने त्वेवमुक्तम्
“आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा। सप्तविंशति
२७ भागोर्द्ध्वं परराशिफलं खल्विति
१७ । अथ प्रसङ्गादावश्यकमङ्गलयात्राकर्त्तव्येषु सत्सु ति-थ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानंशालिन्याह। दुष्टे इति। दुष्टे व्यतीपातादिरूपे योगेसति हेम सुवर्णं यथाशक्ति राजा दद्यात्। च पुन-श्चन्द्रे दुष्टे विहितान्यस्थानस्थिते शङ्खं दद्यात्। तिथ्यर्द्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात्। तिथौ दुष्टेचतुर्थ्यादिरूपे तण्डुलान् दद्यात्। वारे दुष्टेऽनुपचयरूपेरत्नं प्रबालमुक्तादि दद्यात्। भे राशौ दुष्टे क्रूरग्रहा-धिष्ठितत्वादिदोषसहिते सति गां दद्यात्। नाड्यांघटिकायां दुर्मूहूर्त्तादिना दुष्टायां सत्यां हेम सुवर्णंदद्यात् च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु[Page2694-b+ 38] सिन्धूत्थं लवणं दद्यात्। पूर्वं दुष्टतारासु प्रत्येकंविशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमितिपुनरुक्तिपरिहारः। उक्तञ्च दीपिकायाम्
“योगस्य हेम,करणस्य च धान्यमिन्दोः शङ्खञ्च, तण्डुलमणी तिथि-वारयोश्च। ताराबलाय लवणान्यथ गां च राशेर्दद्या-द्घिजाय कनकं शुचि नाडिकायामिति”
१८ अथात्रगोचरप्रसङ्गात् सूर्यादयो ग्रहाः राश्यन्तरगताः सन्तःकदा शुभाशुभफलदातारो भवन्ति तथा चान्द्र-मासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सतिफलविशेषं च वसन्ततिलकावृत्तेनाह राश्यादिगा-विति। रविकुजौ सूर्यमङ्गलौ राश्यादिगौ राशिप्रथमदशांशमध्यस्थितौ सन्तौ फलदौ निखिलफल-दातारौ। अवशिष्टांशेष्वीषदीषत् फलदौ। एवं सिते-ज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफल-दातारावन्यत्रेषदीषत्। शशिसुतो बुधः सदा त्रिंशदंशेषुनिखिलफलदाता। अब्जमन्दौ चन्द्रशनैश्चरौ चरमदशकेनिखिलफलदातारावन्यत्रेषदीषत्। उक्तञ्च वसिष्ठेन
“भवनादिगतौ फलदौ रविभौमौ मध्यगौ च गुरुशुक्रौ। अन्त्यगतौ शशिरविजौ सदैव फलदः शशाङ्कसुतः”। वराहेणापि
“दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौभवनस्य मध्ययातौ। रविसुतशशिनौ विनिर्गमस्थौ श-शितनयः फलदस्तु सर्वकालमिति” रुधिरो भौमः। अध्वेति। यस्मिन् मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादि-वाराश्चेत् स्युः तदा तस्मिन् मासेऽध्वादीनि फलानि वा-च्यानि तद्यथा। रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन्मासे अध्वा मार्गोऽटनमिति यावत्, फलं तस्य पुंसोभबेत्। एवं चन्द्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं तत्-प्राप्तिः स्यादित्यर्थः। एवं भौमवारे वह्निभयं भवेत्। बुधवारे सन्मतिः। सती समीचीना धर्मयुक्ता बुद्धिर्भवेत्। गुरुवारे वस्त्रप्राप्तिर्भवेत्। भृगुवारे सौख्यं भवेत्। शनिवारे दुःखप्राप्तिः स्यादित्यर्थः। उक्तञ्च ज्योतिष-रत्नसंग्रहे वामनेन
“अध्वा भोजनमग्निभीः सुमतितावस्त्रं सुखं चासुखं मासे मासि फलं भवेज्जननभेसूर्यादिवारे स्थिते” इति अत्र
“मासास्तथा च तिथ-यस्तुहिनांशुमानादिति” भास्कराचार्यवाक्याच्चान्द्रः शुक्ल-प्रतिपदादि दर्शान्तो मासो गृह्यत इति शिवम्”
१९ पी॰ धा॰। अष्टवर्गशुभालाभ एव गोचरशुद्धेर्गाह्यतातन्मानम् अष्टवर्गशब्दे
५२
२ पृ॰ उक्तम्[Page2695-a+ 38]
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचर¦ m. (-रः)
1. An object of sense, as sound, shape, colour, &c.
2. A. country, a district.
3. The house or mansion of a planet, or its presence in any sign which is that of a person's nativity.
4. Pas- turage. E. गो an organ of sense, &c. and चर what goes, from चर् to go, निपातने अच् aff.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचर/ गो--चर m. pasture ground for cattle A1pS3r. i , 2 , 4
गोचर/ गो--चर m. ( R. iv , 44 , 80 )
गोचर/ गो--चर m. range , field for action , abode , dwelling-place , district ( esp. ifc. " abiding in , relating to " ; " offering range or field or scope for action , within the range of , accessible , attainable , within the power ") Kat2hUp. iii , 4 Mn. x , 39 MBh. etc.
गोचर/ गो--चर m. the range of the organs of sense , object of sense , anything perceptible by the senses , esp. the range of the eye( e.g. लोचन-गोचरं-या, to come within range of the eye , become visible Pan5cat. ) MBh. vii , 5616 Sus3r. Vikr. iv , 9 etc.
गोचर/ गो--चर m. the distance of the planets from the लग्नand from each other VarBr2S. civ , 2 Romakas.
गोचर/ गो--चर mf( आ)n. being within the range of , attainable for( gen. ) BhP. iii , 25 , 28
गोचर/ गो--चर mf( आ)n. perceptible ( esp. to the eye) MBh. xiii , 71 , 33 and 91 , 24
गोचर/ गो--चर mf( आ)n. having (or used in) the meaning of( loc. ) L. Sch.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोचर पु.
(गावश्चरन्त्यस्मिन्) चारागाह (गावो यत्र चरन्ति), आप.श्रौ.सू. 1.2.4.