गोधूमः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गोधूमः, पुं, (गुध्यते वेष्ट्यते त्वगादिभिः । गुध + “गुधेरूमः ।” उणां । ५ । २ । इति ऊमः ।) नागरङ्गः । ओषधीविशेषः । ब्रीहिभेदः । इति मेदिनी ॥ मे । ४३ । गम गोम् इति च भाषा ॥ शेषस्य पर्य्यायः । बहुदुग्धः २ अपूपः ३ स्नेच्छ- भोजनः ४ यवनः ५ निस्तुषक्षीरः ६ रसालः ७ सुमनाः ८ । (यथा, मनुः । ५ । २५ । “यवगोधूमजं सर्व्वं पयसश्चैव विक्रियाः ॥”) अस्य गुणाः । स्निग्धत्वम् । मधुरत्वम् । वात- पित्तदाहनाशित्वम् । गुरुत्वम् । श्लेष्ममदबल- रुचिवीर्य्यकारित्वञ्च । इति राजनिर्घण्टः ॥ बृंहणत्वम् । जीवनहितत्वम् । शीतत्वम् । भग्न- सन्घानस्थैर्य्यकारित्वम् । सारकत्वञ्च । इति राजवल्लभः ॥ (अथ गोधूमस्य नामानि लक्षणं गुणाश्च । “गोधूमः सुमनोऽपि स्यात् त्रिविधः स च कीर्त्तितः । महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥ महागोधूमः वड गोधूमा इति लोके । मधुली तु ततः किञ्चिदल्पा सा मध्यदेशजा । निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥ गोधूमो मधुरः शीतो वातपित्तहरो गुरुः । कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत् सरः ॥ जीवनो बृंहणो वर्ण्यो व्रर्ण्यो रुच्यः स्थिरत्वकृत् । कफप्रदो नवीनो न तु पुराणः । पुराणयवगोधूमः क्षौद्रजाङ्गलशूलभागिति । वाग्भटेन वसन्ते गृहीतत्वात् । मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः । शुक्रला बृंहणी पथ्या तद्बन्नन्दीमुखः स्मृतः ॥”) इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥