गौः
संस्कृतम्
सम्पाद्यताम्- गौः, वृषभः, वृषः, उह्रः, ॠषभः, पुङ्गवः, बलीवर्दः, गोः, अघ्न्यः, आटीकरः, उक्षाणः, उस्रः, उस्रियः, ॠषभकः, कर्मकारः, गन्धमैथुनः, गर्गः, गवाम्पतिः, गवराजः, गवेन्द्रः, गोभर्तृः, गोनाथः, गोनृः, गोपतिः, गोराजः, गोवृषः, गोवृषभः, दोगः, निषधः, पुंगवः, बाहुलेयः, बरीवर्दः, भरण्डः, प्रोष्ठः, रोहिणीरमणः, वाडबेयः, वाहः, वंसगः, वराहः, वित्सनः, वृष्णिः, शाद्वलः, शङ्कः, शक्करिः, शीभ्यः, शिववाहनः, सधिः, सहरिः, हन्तुः, सौरभेयः, स्थूरः।
नामः
सम्पाद्यताम्- गौः नाम वृषभः, गोः, शिववाहनः।
अनुवादाः
सम्पाद्यताम्यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौः, [गो] पुं स्त्री, (गच्छतीति । गम् + “गमेर्डोः ।” उणां । २ । ६७ । इति डोः । यद्वा, गच्छत्यनेनेति करणे डोः । वृषस्य यानसाधन- त्वात् स्त्रीगव्या दानेन स्वर्गगमनसाधनत्वाच्च उभयोरपि दानेन स्वर्गगमनत्वाद्वा तथात्वम् । वस्तुतस्त्वयं रूढ एब शब्दः । यदुक्तम् । “रूढा गवादयः प्रोक्ता यौगिकाः पाचकादयः । योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः ॥”) स्वनामख्यातपशुः । गरु इति माषा ॥ पुंगोः पर्य्यायः अनड्वान् इति पदे द्रष्टव्यः ॥ स्त्रीगोः पर्य्यायः । माहेषी २ सौरभेयी ३ उस्रा ४ माता ५ शृङ्गिणी ६ अर्ज्जुनी ७ अघ्न्या ८ रोहिणी ९ । इत्यमरः ॥ माहेन्द्री १० इज्या ११ धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरि- मही १६ अनडुही १७ कल्याणी १८ पावनी १९ गौरी २० सुरभिः २१ महा २२ निलि- नाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६ अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८ मही २९ सरस्वती ३० । इति जटाधरः ॥ उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४ जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ २ अध्यायः ॥ * ॥ (गवां लक्षणादिकं यथा, बृहत्संहितायां ६१ अध्याये । “पराशरः प्राह बृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम् । मया समासः शुभलक्षणास्ताः सर्व्वास्तथाप्यागमतोऽभिधास्ये ॥ सास्राविलरूक्षाक्ष्यी मूषकनयनाश्च न शुभदा गावः । प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ॥ दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥ श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिबृह- द्भिर्वा । अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥ वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः । स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ॥ मार्ज्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्येष्टः । “गवां प्रत्यूषसि क्षीरं गुरु विष्टम्भि दुर्ज्जरम् । तस्मादभ्युदिते सूर्य्ये यामं यामार्द्धमेव वा ॥ समुत्तार्य्य पयो ग्राह्यं तत् पथ्यं दीपनं लघु । विवत्साबालवत्सानां पयो दोषसमीरितम् ॥ शस्तं वत्सैकवर्णाया धवलीकृष्णयोरपि । इक्ष्वादा मासपर्णादा ऊर्द्ध्वशृङ्गी च या भवेत् ॥ तासां गवां हितं क्षीरं शृतं वाशृतसेव वा । गवां सितानां वातर्घ्न कृष्णानां पित्तनाशनम् । श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः ॥” इति राजनिर्घण्टः ॥
गौः, [गो] पुं, (गम्यते कर्म्मिभिः यज्ञदान- परोपकारादिधर्म्ममूलककर्म्मफलैर्यस्मिन् । गम् + “गमेर्डोः ।” उणां । २ । ६३ । इति अधि- करणे डोः ।) स्वर्गः । (गम्यन्ते ज्ञायन्ते विषया येन यद्वा गच्छति शीघ्रमिति करणे कर्त्तरि वा डोः । किरणसम्पर्केण विना चाक्षुष- ज्ञानाभावात् किरणस्य ज्ञानप्रकाशधर्म्मवत्त्वात् शीघ्रगामित्वाच्च तथात्वम् ।) रश्मिः । (यथा, महाभारते । ३ । ३ । ५२ । “त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् । त्रयाणामपि लोकानां हितायैकः प्रवर्त्तसे ॥” * ॥) वज्रः । इति मेदिनी । गे । १ ॥ (गम्वते पुण्यवद्भि- र्यस्मिन् । अधिकरणे डोः । इष्ट्यापूर्त्तादिसकाम- कर्म्मभिः पुण्यवताञ्चन्द्रलोकगमनात् तथा- त्वम् ।) चन्द्रः । इति विश्वः ॥ (गच्छति प्राप्नोति विश्वं प्रकाशकात्मकेन स्वतेजसेति जानाति सर्व्वमिति वा । कर्त्तरि डोः ।) सूर्य्यः । गोमेध- यज्ञः । इत्यमरटीकायां भानुदीक्षितः ॥ ऋषभ- नामौषधम् । इति राजनिर्घण्टः ॥
गौः, [गो] स्त्री, (गम्यते विषयज्ञानं यया । गम् + “गमेर्डोः ।” उणां । २ । ६३ । इति करणे डोः ।) चक्षुः । (गच्छति शीघ्रमिति कर्त्तरि डोः ।) बाणः । दिक् । (गम्यते ज्ञायते चित्ताभि- प्रायो यया । करणे डोः ।) वाक । (यथा, रघुः । ५ । १२ । “इत्यध्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ॥” * ॥ गम्यते व्रज्यतेऽस्यामिति । अधिकरणे डोः ।) भूः । (यथा, रघुः । १ । २६ । “दुदोह गां स यज्ञाय शस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥” * ॥ जले बहुवचनान्तोऽयम् । इति मेदिनी । गे । १ ॥ जले एकवचनान्तोऽपि इति केचित् । इति भरतः ॥ (यथा, वृन्दावनयमके । २ । “स्वमिव भुजं गवि शेषं व्युपधाय स्वपिति यो भुजङ्गविशेषम् । नव पुष्करसमकरया श्रीयोर्म्मिपंक्त्या च सेवितः समकरया ॥”) माता । इत्येकाक्षरकोषः ॥ (स्वनामख्याता शुकदौहित्रस्य ब्रह्मदत्तस्य भार्य्या । यथा, भाग- वते । ९ । २१ । २५ । “स कीर्त्त्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । स योगी गवि भार्य्यायां विष्वक्सेनमधात् सुतम् ॥” “गवि सरस्वत्यां भार्य्यायाम् ॥” इति कश्चित् व्याचष्टे ॥)
गौः, [गो] पुं, क्ली, (गम्यते ज्ञायते स्पर्शसुख- मनेन । गम् + “गमेर्डोः ।” उणां । २ । ६३ । इति करणे डोः । त्वचि जातत्वादेवास्य तथा- त्वम् ।) लोम । (गच्छति निम्नदेशमिति । कर्त्तरि डोः । निम्नप्रवणादेवास्य तथात्वम् ।) जलम् । इत्यमरटीकायां भानुदीक्षितः ॥