BharatLal Barjod

Barjod Barjod 🍒🥀🌹🥀💐💐

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

= कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ, कि ग दर्भे । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-क्र्यां च-परं-सकं-सेट् ।) रेफयुक्तः । दर्भो ग्रन्थनम् । कि, ग्रन्थयति ग्रन्थति । ग, ग्रथ्नाति मालां मालिकः । ग्रन्थिमुद्ग्रथयितुं हृद- येशः । इति माघे चिन्त्यम् । इति दुर्गादासः ॥

ग्रन्थः, पुं, (ग्रन्थ ग दर्भे + भावे घञ् ।) गुम्फः । ग्रन्थना । धनम् । (ग्रथ्यते विरच्यते इति । ग्रन्थ + कर्म्मणि घञ् ।) शास्त्रम् । (यथा, महा- भारते । १ । १ । ८० । “ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ॥”) द्वात्रिंशद्वर्णनिर्म्मितिः । अनुष्टुप्छन्दःश्लोकः । इति हेमचन्द्रः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ पुं।

शास्त्रम्

समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ

3।3।88।2।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

वृत्तिवान् : शस्त्रघर्षणोपजीविः

 : तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्

पदार्थ-विभागः : , पौरुषेयः

ग्रन्थ पुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

3।3।88।2।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्9927324859

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ¦ संदर्भे वा चु॰ उभ॰ पक्षे क्य्रा॰ प॰ सक॰ सेट्। ग्रन्थयति-ते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत्। ग्रन्थयामास वभूवचकार चक्रे। जग्रन्थ जग्रथतुः--जग्रन्थतुः। जग्रन्थिथजग्रथिथ इत्येके। अस्य कविकल्पद्रुमे पा॰ गणे चपरस्मैपदिष्वेव क्रैयादिकस्य पाठः। णिचि तु उभय-पदिता। भारद्वाजीयास्तु पठन्ति
“णिश्रन्थिग्रन्थिव्रू-ञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्” श्रन्थिग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम्। ग्रन्थतिग्रन्थम्। श्रन्थति मेखलान्देवदत्तः। ग्रन्थते ग्रन्थः। अग्रन्थिष्ट। श्रन्थते। अश्रन्थिष्ट। इति भारद्वाजीयमते आत्म॰। तेनोभयपदता। सि॰ कौ॰ पक्षे भ्वा॰ दित्वमपितेन ग्रन्थति इत्याद्वि क्रैयादिकयोस्तु श्रथ्नीते। ग्रथ्नीते सि॰ कौ॰। एतच्च कर्म कर्त्तरि न तु कर्त्तरिइत्यन्येउद् + उत्तोल्य ग्रथने।
“केशपक्षान् उदग्रथ्येतरान्” आश्व॰ श्रौ॰

१० ।

८ ।


“लताप्रतानोद्ग्रथितैः स केशैः” रघुः।
“माल्यानि तस्योद्ग्रथितानि पट्टैः” भा॰ व॰

११

२ अ॰
“कर्म्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः” भाग॰

४ ।

२२ ।

३७ । [Page2741-b+ 38]

ग्रन्थ¦ पु॰ ग्रन्थ--सन्दर्भे भावे घञ्।

१ गुम्फने। कर्म्मणिघञ्।

२ शास्त्रे
“ग्रन्थग्रन्थिरिह क्वचित् क्वचि-दपि न्यासि प्रयत्नान्मया” नैष॰।
“ग्रन्थग्रन्थि तदा चित्रंमुनिर्गूढं कुतूहलात्” भा॰ आ॰

१ अ॰।

३ धने

४ द्वा-त्रिंशवद्वर्णमितानुष्टुप् छन्दस्के श्लोके हेम॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ¦ r. 1st, 9th and 10th cls. (ग्रन्थति, ग्रथ्नाति ग्रन्थयति) To string, to tie to- [Page250-a+ 60] gether, to connect or arrange in a regular series. With उद् pre- fixed, To untie, to loosen.

ग्रन्थ¦ m. (-न्थः)
1. Stringing or tying together, (literally or metaphori- cally.)
2. Wealth, property.
3. A book or composition in prose or verse.
4. A metre or measure of thirty two syllables. E. ग्रन्थ to dis- pose or arrange, affix भावे कर्मणि वा घञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थः [granthḥ], [ग्रन्थ् संदर्भे भावे घञ्]

Binding, stringing together (fig. also).

A work, treatise, composition, literary production, book; ग्रन्थारम्भे, ग्रन्थकृत्, ग्रन्थसमाप्ति &c.

Wealth, property.

A verse consisting of 32 syllables, written in the Anuṣṭubh metre. -Comp. -कर्तृ,m. -कारः -कृत् m. a writer, an author; ग्रन्थारम्भे समुचितेष्टदे- वतां ग्रन्थकृत्परामृशति K. P.1.

कुटी, कूटी a library.

a studio. -विस्तरः, विस्तारः voluminousness, diffuse style; Bṛi S.1.2. -संधिः a section or chapter of a work; (for the several names by which sections, or chapters of works in Sanskṛit, are called, see under अध्याय).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ m. tying , binding , stringing together L.

ग्रन्थ m. = थि, a knot TS. vi , 2 , 9 , 4 ( v.l. )

ग्रन्थ m. honeycomb Pa1n2. 4-3 , 116 Va1rtt.

ग्रन्थ m. an artificial arrangement of words ( esp. of 32 syllables = श्लोकJain. ) , verse , composition , treatise , literary production , book in prose or verse , text (opposed to अर्थ" meaning " VarBr2S. Va1kyap. Sarvad. ) Nir. i , 20 Pa1n2. MBh. Up. etc.

ग्रन्थ m. a section (of Ka1t2h. )

ग्रन्थ m. the book or sacred scriptures of the Sikhs containing short moral poems by Nanak Shah and others(See. RTL. pp. 158-177)

ग्रन्थ m. wealth , property Jain. Sch. (See. उत्तर-, निर्-, षड्-.)

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थ&oldid=508802" इत्यस्माद् प्रतिप्राप्तम्