यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणी, स्त्री, (ग्रहणि + “कृदिकारान्तादक्तिनः ।” इति ङीष् ।) अग्न्यधिष्ठाननाडी । स्वनाम- ख्यातरोगः । तस्य निदानसम्पाप्ती यथा, -- “अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् ॥ एकैकशः सर्व्वशश्च दोषैरत्यर्थमूर्च्छितैः । सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥ पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् । ग्रहलीरोगमाहुस्तमायुर्व्वेदविदो जनाः ॥” * ॥ तस्य पूर्ब्बरूपं यथा, -- “पूर्ब्बरूपन्तु तस्येदं तृष्णालस्यं बलक्षयः । विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ॥” तस्य वातिकस्य निदानरूपे । “कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनैः । पसितानशनात्यध्ववेगनिग्रहमैथुनैः ॥ मारुतः कुपितो वह्निं संछाद्य कुरुते गदान्- । तम्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ॥ कण्ठास्यशोषः क्षुत् तृष्णा तिमिरं कर्णयोः स्वनः । दद्यात् सातिविषां पेयामामे साम्लां सनागराम् । पानेऽतिसारविहितं वारितक्रं सुरादि च ॥ ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात् । पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम् ॥ कषायोष्णविकाशित्वाद्रूक्षत्वांच्च कफे हितम् । वातेस्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत् ॥” “क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् । दीपनं बहुपित्तस्य तिक्तैर्मधुरकैर्युतम् ॥ स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते । स्नेहमेव परं विद्याद्दुर्ब्बलानलदीपनम् ॥ नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्व्वपि । योऽल्पाग्नित्वात् कफे क्षीणे वर्च्चः पक्वमपि श्लथम् ॥ मुञ्चेद्यद्वौषधयुतं स पिवेदल्पशो घृतम् । तेन स्वमार्गमानीतः स्वकर्म्मणि नियोजितः ॥ समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः । पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति ॥ स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् । रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत् ॥ क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः । उदावर्त्तात् प्रयोक्तव्या निरूहस्नेहवस्तयः ॥ दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिञ्चरेत् । व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम् ॥ अध्वोपवासक्षामत्वे यवाग्वा पाययेद्घृतम् । अन्नावपीडितं बल्यं दीपनं बृंहणञ्च तत् ॥ दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् । प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम् ॥ लघूष्णकटुशीधित्वाद्दीपयन्त्याशु तेऽनलम् । मांसोपचितमांसत्वात् परञ्च बलवर्द्धनम् ॥ स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः । सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्द्धते ॥ दीप्तो यथैव स्थाणुश्च वाह्योऽग्निः सारदारुभिः । सस्नेहैर्जायते तद्वदाहारैः कोष्ठकोऽनलः ॥ न भोजनेन कायाग्निर्दीप्यते नातिभोजनात् । यथा निरिन्धनो वह्निरल्पो वातीन्धनान्वितः ॥ यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम् । प्रवृद्धं वर्द्धयत्यग्निं तदासौ सानिलोऽनलः ॥”

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणी स्त्री।

ग्रहणीरोगः

समानार्थक:ग्रहणी,रुक्प्रवाहिका

2।6।55।1।3

आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका। प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह(णि)णी¦ स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वाङीप्।

१ पित्तधराख्ये कलाभेदे

२ तदाश्रिते रोगभेदेग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा(
“दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः। अति-सारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः। भूयः सन्दू-षितो वह्निर्ग्रहणीमभिदूषयेत्। तस्मात्कार्य्यः परी-हारस्त्वतीसारे विरिक्तवत्। यावन्न प्रकृतिस्थः स्याद्दोषतःप्राणतस्तथा। षष्ठी पित्तधरा नाम या कला परिकी-र्त्तिता। पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता। ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीश्रितः। तस्मा-त्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति। एकशः सर्वशश्चैवदोषैरत्यर्थमूर्च्छितैः। सा दुष्टा बहुशोभुक्तमाममेव विमु-ञ्चति। पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम्। ग्रहणी-रोगमाहुस्तमायुर्वेदविदो जनाः। तस्योत्पत्तौ विदाहान्न-सदनालस्यतृट्क्लमाः। बलक्षयोऽरुचिः कासः कर्णक्ष्वेडा-न्त्रकूजनम्। अथ जाते भवेज्जन्तुः शूनपादकरः कृशः। पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान्। उद्गिरे-च्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्। प्रसेकमुखवैरस्यतम-कारुचिपीडितः। वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरम-स्तकैः। पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः। दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः। हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्की च मानवः”।
“नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता॰। तस्याःकर्मभेदविपाकतोक्ता। तस्या महारोगत्वमदाह्यशब्दे उक्तम्
“वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणी f. an imaginary organ supposed to lie between the stomach and the intestines (the small intestines or that part of the alimentary canal where the bile assists digestion and from which vital warmth is said to be diffused) Sus3r.

ग्रहणी f. of णSee.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणी स्त्री.
सोम के प्याले के आपूरण के सन्दर्भ वाली ऋचा, आप.श्रौ.सू. 18.2.6 (कैलण्ड. तै.सं. 1.8.2.1 का प्रयोग इस प्रकार से सोम-ग्रहों के ग्रहण के लिए एवं तै.सं. 1.7.1-2 का सुराग्रहों के ग्रहण के लिए होता है)

"https://sa.wiktionary.org/w/index.php?title=ग्रहणी&oldid=478229" इत्यस्माद् प्रतिप्राप्तम्