यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टकुटीप्रभात¦ न॰ घट्टस्था कुटी तत्र प्रभातमिव। न्यायभेदेशुक्लदानभिया विपथेन रात्रौ पलायमानस्य चौर-बणिजः घट्टस्थकुटीसमीपे प्रभाते यथा अभीष्टसिद्ध्य-भावः एवं विपथेन धावमानस्य तद्दोषतादवस्थ्यरूपो हिन्यायभेदस्तथाभूतः
“तदिदं घट्टकुटीप्रभातवृत्तान्तमनुह-रति”। खण्डनखण्डखाद्यम्।

"https://sa.wiktionary.org/w/index.php?title=घट्टकुटीप्रभात&oldid=347699" इत्यस्माद् प्रतिप्राप्तम्