यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्यामः, त्रि, (घनो मेघस्तद्वत् श्यामः श्याम- वर्णः ।) निविडकृष्णवर्णः । मेघतुल्यश्यामवर्णः । योगरूढिरयं शब्दः श्रीरामकृष्णयोर्बोधकः । इति केचित् तत्र पुं । यथा, महानाटके । “अये राम ! घनश्याम ! चुम्बामि मुखपङ्कजम् । यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम् ॥” “समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥” इति श्रीभागवतम् ॥

"https://sa.wiktionary.org/w/index.php?title=घनश्यामः&oldid=133163" इत्यस्माद् प्रतिप्राप्तम्