चकोर
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चकोरः, पुं स्त्री, (चकते चन्द्रकिरणेन तृप्यतीति । चक तृप्तौ + “कठिचकिभ्यामोरन् ।” उणां । १ । ६४ । इति ओरन् ।) पक्षिविशेषः । (यथा, भागवते । ३ । २१ । ४३ । “सारसैश्चक्रवाकैश्च चकोरैर्बल्गुकूजितम् ॥”) तत्पर्य्यायः । चन्द्रिकापायी २ कौमुदीजीवनः ३ अस्य मांसगुणाः । यथा, राजनिर्घण्टे । “चटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम् । तद्वच्चकोरजं मांसं वृष्यञ्च बलपुष्टिदम् ॥” (“वातश्लेष्माधिको ज्ञेयः शीतलः शुक्रवर्द्धनः । अश्मरीं हन्ति विशदो बलकृन्मांसलक्षणः ॥ चकोरः शुकशारी च समदोषा गुणागुणैः ॥” इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥ अस्य डिम्बगुणा यथा, चरके सूत्रस्थाने २७ अः । “धार्त्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि । चटकानाञ्च यानि स्युरण्डानि च हितानि च ॥ रेतःक्षीणेषु कासेषु हृद्रोगेषु क्षतेषु च । मधुराण्यविपाकीनि सद्यो बलकराणि च ॥”)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चकोर¦ पु॰ चक--त्प्तौ ओरन्। स्वनामख्याते--पक्षिभेदे
“कोकप्रीतिचकोरपारणपटुः” मुरारिः।
“इमां किमा-चामवसे न चक्षुषी चिरं चकोरस्य भवन्भखस्पृशी” नैष॰।
“इतश्चकोराक्षि! विलोकयेति” रघः। स्वार्थेक तत्रर्थे अमरः।
“तन्मांस गुणा राजनि॰ उक्ता यथा
“चाटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम्। तद्व-च्चकोरज मांसं वृष्यञ्च बलपुष्टिदम्”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चकोर¦ m. (-रः) The bartavelle or Greek patridge, (Perdix rufa or Tetrao rufus.) E. चक् to be satisfied, ओरन् Unadi affix; also with कन् add- ed चकोरक; what is satisfied with the moonbeams, upon which the bird is fabulously said to subsist.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चकोरः [cakōrḥ], [चक्-तृप्तौ ओरन् Uṇ.1.64] A kind of bird, the Greek partridge (said to feed on moonbeams); ज्योत्स्नापानमदालसेन वपुषा मत्ताश्चकोराङ्गनाः Vb.1.11; इतश्च- कोराक्षि विलोकयेति R.6.59;7.25; स्फुरदधरसीधवे तव वदन- चन्द्रमा रोचयति लोचनचकोरम् Gīt.1. (चकोरकः also.) (विषा- भ्याशे) चकारस्ये अक्षिणी विरज्येते Kau. A.1.2.17.-Comp. -अक्ष a. (= -दृश्); इतश्चकोराक्षि विलोकयेति R.6.59.-दृश् a. having (eyes like those of a Chakora bird) beautiful eyes; अनुचकार चकोरदृशां यतः Śi.6.48. -नेत्र a. (= -दृश्); द्विरदेन्द्रगतिश्चकोरनेत्रः Mk.1.3. -व्रतम् The vow i. e. the habit of a Chakora bird of drinking nectar from the moon; चकोरव्रतमालम्ब्य तत्रैवासन् दिवानिशम् Ks.76.11. -चकोराय To act like a Chakora bird; चकोरायितुमेते च प्रवृत्ते यावदुन्मुखे Ks.89.41.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चकोर m. ( चक्Un2. )the Greek partridge (Perdix rufa ; fabled to subsist on moonbeams [ S3a1rn3gP. ; See. Gi1t. i , 23 ] , hence " an eye drinking the nectar of a moon-like face " is poetically called च्BrahmaP. Katha1s. lxxvii , 50 ; the eyes of the चकोरare said to turn red when they look on poisoned food Ka1m. Naish. Kull. on Mn. vii , 217 ) MBh. Lalit. Sus3r. etc.
चकोर m. ( pl. )N. of a people AV.Paris3. lvi
चकोर m. (sg.) of a prince BhP. xii , 1 , 24
चकोर m. of a town (?) Hcar. vi
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--(स्वातिकर्ण) Andhra king ruled for 6 months; son of Sunandana. His son was Bahava? M. २७३. ११. भा. XII. 1. २६.