चटकः का मतलब चिङिया होता है

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः, पुं, (चटति भिनत्ति धान्यादिकं चञ्चुपुटेनेति । चट भेदे + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति पचादित्वादच् ततः स्वार्थे कन् ।) पक्षि- विशेषः । चटा इति भाषा ॥ (यथा, देवी- भागवते । १ । ४ । ८ । “वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥”) तत्पर्य्यायः । कलविङ्कः २ । इत्यमरः । २ । ५ । १८ ॥ चित्रपृष्ठः ३ गृहनीडः ४ वृषायणः ५ । इति हारावली ॥ काभुकः ६ नीलकण्ठकः ७ काल- कण्ठकः ८ कामचारी ९ । इति जटाधरः ॥ कलाविकलः १० । इति शब्दरत्नावली ॥ तन्मांस- गुणाः । शीतत्वम् । लघुत्वम् । शुक्रबलप्रदत्वञ्च । तद्वच्चारण्यचटकं तत् क्रर्व्य लघु पथ्यदम् ॥ इति राजनिर्घण्टः ॥ (“चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् । गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “चटका मधुराः स्निग्धा बलशुक्रविवर्द्धनाः । सन्निपातप्रशमनाः शमभा मारुतस्य च ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः [caṭakḥ], A sparrow.

"https://sa.wiktionary.org/w/index.php?title=चटकः&oldid=507925" इत्यस्माद् प्रतिप्राप्तम्