चतुरङ्गम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुरङ्गम्, क्ली, (चत्वारि अङ्गानि यस्य ।) हस्त्यश्व- रथपदातिरूपं सैन्यम् । यथा, रामायणे । “चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ।” अक्षक्रीडाविशेषः । चौरंखेला इति भाषा ॥ यथा, -- युधिष्ठिर उवाच । “अष्टकोष्ठ्याञ्च या क्रीडा तां मे ब्रूहि तपोधन ! । प्रकर्षेणैव मे नाथ चतूराजी यतो भवेत् ॥ व्यास उवाच । अष्टो कोष्ठान् समालिख्य प्रदक्षिणक्रमेण तु । अरुणं पूर्ब्बतः कृत्वा दक्षिणे हरितं बलम् ॥ पार्थ ! पश्चिमतः पीतमुत्तरे श्यामलं बलम् । राज्ञो वामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम् ॥ कुर्य्यात् कौन्तेय ! पुरतो युद्धे पत्तिचतुष्टयम् । कोणे नौका द्वितीयेऽश्वस्तृतीये तु गजो वसेत् ॥ तुरीये च वसेद्राजा वटिकाः पुरतः स्थिताः ॥ पञ्चकेन वटी राजा चतुष्केणैव कुञ्जरः ॥ त्रिकेण तु चलत्यश्वः पार्थ ! नौकाद्वयेन तु ॥ कोष्ठमेकं विलङ्घ्याथ सर्व्वतो याति भूपतिः । नौकैका वटिका यस्य विद्यते खेलने यदि । गाढावटीति विख्याता पदं तस्य न दुष्यति ॥ गाढाघात्यापदं राजपदं कोणपदञ्च तत् । हस्ते रङ्गे बलं नास्ति काककाष्ठं तदा भवेत् ॥ वदन्ति राक्षसाः सर्व्वे तस्य न स्तो जयाजयौ । प्रार्थिते पञ्चमे राज्ञि मृतवट्याञ्च षट्पदे ॥ अशौचं स्यात्तदा राजन् ! चलित्वा चालितं पदम् । द्बिरावृत्त्या गतौ तस्माद्धन्यात् परबलं जयी ॥ सिंहासनं भवत्येव काककाष्ठं न भण्यते ॥ उपविष्टञ्च यत् स्थानं तस्योपरिचतुष्टये । नौकाचतुष्टयं यत्र क्रियते यस्य नौकया ॥ नौकाचतुष्टयं तत्र बृहन्नौकेति भण्यते । न कुर्य्यादेकदा राजन् ! गजस्याभिमुखं गजम् ॥ यदि कुर्व्वीत धर्म्मज्ञ ! पापग्रस्तो भविष्यति । स्थानाभावे यदा पार्थ ! हस्तिनं हस्तिसम्मुखम् ॥ करिष्यति तदा राजन्निति गोतमभाषितम् । प्राप्ते गजद्वये राजन् ! हन्तव्यो वामतो गजः ॥” इति तिथ्यादितत्त्वे चतुरङ्गक्रीडनम् ॥