यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थी, स्त्री, (चतुर्णां पूरणी । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । ततः “षट् कतिपयचतुरां थुक् ।” ५ । २ । ४१ । इति थुक् । ततष्टित्त्वात् ङीप् ।) तिथिविशेषः । सा तु चन्द्रस्य चतुर्थकलाक्रियारूपा । इति स्मृतिः ॥ (चतुर्थी तु पञ्चमीयुता ग्राह्या । “युग्माग्नि- कृतभूतानि ।” इति युग्मवचनात् तथा, -- “एकादश्यष्टमी षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्ब्बेण संयुताः ॥” इत्यग्निपुराणवचनाच्च ॥ भविष्ये, -- “अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण अक्षयादपि चाक्षया ॥’ यत्तु, -- ‘चतुर्थीसंयुता कार्य्या तृतीया च चतुर्थिका । तृतीयया युता नैव पञ्चम्या कारयेत् क्वचित् ॥’ इति ब्रह्मवैवर्त्तवचनं पञ्चमीयुतानिषेधकं तद्- विनायकव्रतपरमिति गुरुचरणाः तृतीयायुता निषेधकत्वे क्वचिदित्यनुपपत्तेः सर्व्वत्रैव पञ्चमी- युताया ग्रहणात् । सारस्वत्यादिप्रदोषमाह । ‘त्रयोदश्याश्चतुर्थ्याश्च सप्तम्या द्बादशीतिथेः । प्रदोषेऽध्ययनं धीमान् न कुर्व्वीत यथाक्रमम् । सारस्वतो गाणपतः सौरश्च वैष्णवस्तथा ॥’ प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः । रात्रिपर इति निर्णयामृतकृद् भोजदेवः ॥ ‘शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् । मिथ्याभिशापं कुरुते न पश्येत्तत्र तं ततः ॥’ चतुर्थ्यां दर्शननिषेधात् तत्रोदितस्य चन्द्रस्य पञ्चम्यां दर्शने तु न दोषः । अतः, -- ‘पञ्चाननगते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥’ दैवात् प्रमादाद्वा दर्शने तु । “सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥” अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात् स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । माघमासस्य शुक्लचतुर्थ्यां गौरी पूजनीया । यथा, भविष्यो- त्तरे माघशुक्लपक्षमधिकृत्य, -- “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता । सौभाग्यमतलं कुर्य्यात्पञ्चम्यां श्रीरपि श्रियम् ॥” इति तिथ्यादितत्त्वम् ॥) तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “स्वपुत्त्रमित्रप्रमदाप्रमोदी घृताभिलाषी कृपया समेतः । विवादशीलो विजयी विवादे भवेच्चतुर्थीप्रभवः कठोरः ॥”

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थी [caturthī], 1 The fourth day of a lunar fortnight.

The dative case (in gram.). -Comp. -कर्मन् n. the ceremonies to be performed on the fourth night of the marriage.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थी f. ( scil. रात्रि)the 4th day in a lunar fortnight Ka1tyS3r.

चतुर्थी f. (metrically थि) VarYogay. v , 8

चतुर्थी f. " the 4th day of a marriage "See. र्थी-कर्मन्

चतुर्थी f. of थSee.

"https://sa.wiktionary.org/w/index.php?title=चतुर्थी&oldid=499498" इत्यस्माद् प्रतिप्राप्तम्