चतुर्भुजः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्भुजः, पुं, (चत्वारो भुजा यस्य ।) विष्णुः । इत्यमरः । १ । १ । २० ॥ (यथा, देवीभाग- वते । १ । ७ । ५ । “विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्द्दनम् । चतुर्भुजं महावीर्य्यं दुःखहा स भविष्यति ॥” वटिकौषधविशेषः । यथा, -- “मृतसूतस्य भागौ द्वौ भागैकं हेमभस्मकम् । उगकस्तूरिका चैव हरितालञ्च तत्समम् ॥ सर्व्वं खल्लतले पिष्ट्वा कन्यास्वरसमर्द्दितम् । एरण्डपत्रैरावेष्ट्य धान्यगर्भे दिनत्रयम् ॥ मंस्थाप्य तत उद्धृत्य सर्व्वरोगेषु योजयेत् । एतहमायनवरं त्रिफलामधुमद्दितम् ॥ तद्यथाग्निबलं खादेद्बलीपलितनाशनम् । अपस्मारे जरे कासे शोषे मन्दानले क्षये ॥ हस्तकम्पे शिराःकम्पे गात्रकम्पे विशेषतः । वातपित्तसमुत्थांश्च कफजं नाशयेदुध्रुवम् ॥ सर्व्वौघधिप्रयोगैर्ये व्याधयो न निव्रर्त्तिताः । कर्म्मभिः पश्वभिश्चैव योजयेद्रसराजतः ॥ चतुर्भजो रसो नाम महेशेन प्रकाशितः । क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ॥” इति चतुर्भुजो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे उन्मादाधिकारे ॥ स्त्रियां गायत्रीरूपा महाशक्तिः । यथा, देवी- भागवते । १२ । ६ । ४७ । “चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥” चतुर्भुजविशेष्टे, त्रि । यथा, देवीभागते । १ । १५ । ५६ । “तदा शान्ता भगवती प्रादुरास चतुर्भुजा । शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥”)