चतुर्म्मुखः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्म्मुखः, पुं, (चत्वारि मुखानि अस्य । यद्वा चत्वारो वेदाश्चत्वारि मुखानीवास्य ।) ब्रह्मा । इति शब्दरत्नावली ॥ (यथा, रधुः । १० । २२ । “चतुर्व्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः । चतुर्वर्णमयो लोकस्त्वत्तः सर्व्वं चतुर्म्मुखात् ॥” “सर्व्वं चतुर्म्मुखात् चतुर्म्मुखरूपिणस्त्वत्तः जात- मिति शेषः ।” इति तट्टीकायां मल्लिनाथः ॥ शिवः । यथा, महाभारते । १३ । १७ । ७६ । “चतुर्म्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥”) औषधविशेषः । यथा, -- “रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च । सर्व्वं खल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम् ॥ एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् । संस्थाप्य तत उद्धुत्य सर्व्वरोगेषु योजयेत् ॥ एतद्रसायनवरं त्रिफलामधुसंयुतम् । तद्यथाग्निबलं खादेत् बलीपलितनाशनम् ॥ क्षयमेकादशविधं कासं पञ्चविधन्तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ शूलं श्वासञ्च हिक्काञ्च मन्दाग्निं चाम्लपित्तकम् । व्रणान् सर्व्वानाढ्यवातं विसर्पं विद्रधिन्तथा ॥ अपस्मारग्रहोन्मादान् सर्व्वार्शांसि त्वगामयान् । क्रमेण सेवितं हन्ति वृक्षमिन्द्राशनिर्यथा ॥ पौष्टिकं बल्यमायुष्यं पुत्त्रप्रसवकारणम् । चतुर्म्मुखेण देवेन कृष्णात्रेयेण सूचितम् ॥” इति प्रयोगामृते चतुर्म्मुखरसः ॥ (औषधान्तरं यथा, -- “मृतं सूतं मृतं स्वर्णं द्वाभ्यां तुल्या मनः शिला । विमर्द्दितञ्च तैलेन चातसीसम्भवेन च ॥ तद्गोल वस्त्रतो बद्ध्वा म्रक्षयेल्लेपयेत्ततः । अतसीफलकल्केन दोलायन्त्रे त्र्यहं पचेत् ॥ उद्धृत्य धारयेद्वक्त्रे जिह्वास्यदन्तरोगनुत् ॥” इति चतुर्म्मुखो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे मुखरोगाधिकारे ॥)