यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलम्, क्ली, (चपं सान्त्वनां लाति प्राप्नोतीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) शीघ्रम् । इति मेदिनी । ले, ८८ ॥ क्षणिकम् । इति हेमचन्द्रः ॥

चपलः, पुं, (चोपति मन्दं मन्दं गच्छतीति । चुप मन्दायां गतौ + “चुपेरच्चोपधायाः ।” उणां । १ । १११ । इति कलः धातोरुकारस्य अकारा- देशश्च ।) पारदः । (अस्य पर्य्याया यथा, -- “पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मीनः । चोरकः । प्रस्तरविशेषः । इति मेदिनी । ले, ८७ ॥ क्षवः । इति राजनिर्घण्टः ॥ (मूषिक- विशेषः । यथा, सुश्रुते कल्पस्थाने ६ अध्याये । “पूर्ब्बमुक्ताः शुक्रविषा मूषिका ये समासतः । नामलक्षणभैषज्यैरष्टादश निबोध तान् ॥” “कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा ॥” एतस्य दंशनेन यल्लक्षणं भवति तदुपशमनाय च यदौषधं तद्यथा तत्रैव, -- “चपलेन भयेच्छर्द्दिर्मूर्च्छा च सह तृष्णया । सभद्रकाष्ठां सजटां क्षौद्रेण त्रिफलां लिहेत् ॥”)

चपलः, त्रि, (चोपति मन्दं मन्दं गच्छतीति । चुप + कलः । धातोरुकारस्याकारादेशश्च ।) तरलः । चञ्चलः । इति मेदिनी । ले, ८८ ॥ (यथा, आर्य्यासप्तशत्याम् । ५३० । “विचरति परितः कृष्णे राधायां रागचपल- नयनायाम् । दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥”) दोषमनिश्चित्य वधबन्धनादेः कर्त्ता । तत्पर्य्यायः । चिकुरः २ । इत्यमरः । ३ । १ । ४६ ॥ विकलः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।65।1।2

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

चपल पुं।

पारदः

समानार्थक:चपल,रस,सूत,पारद

2।9।99।2।3

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

चपल वि।

दोषमनिश्चित्य_वधादिकमाचरः

समानार्थक:चपल,चिकुर

3।1।46।1।3

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल¦ न॰ चुप--मन्दायां गतौ कल उपधोकारस्याकारः।

१ शीघ्रे मेदि॰

२ क्षणिके त्रि॰ हेमच॰।

३ पारदे

४ मत्स्ये

५ चातके

६ प्रस्तरभेदे च पु॰ मेदि॰।

७ क्षये पु॰ राजनि॰।

८ तरले चञ्चले च त्रि॰ मेदि॰।

९ दोषमनिश्चित्य कर्मका-रिणि त्रि॰ अम॰।

१० विकले त्रि॰ शब्दर॰।

११ लक्ष्म्यां स्त्री
“निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म-तया। दिवसात्ययात्तदपि मुक्तमहो चपलाजनम् प्रतिन चोद्यमदःः” माघः।

१२ विद्युति

१३ पुंश्चल्यां

१४ पिप्प-ल्याञ्च स्त्री मेदि॰।

१५ जिह्वायां स्त्री शब्दच॰।

१६ वि-जयायां

१७ मादरायां स्त्री राजनि॰।
“नीचि नियतमिहयच्चपलो नियतः स्फुटं नभास निम्नगासुतः” माघः
“शैशवाच्चपलमप्यशोभत” रघुः।
“न पाणिपादचपलो ननेत्रचपलोऽगुजुः” मनुः। शौण्डा॰

७ त॰। नेत्रचपलः। पादचपलः। चेण्या॰ कृतादिभिः अभूततद्भावार्थे समासः। चपलकृतःचपलभूतः। विस्पष्टा॰ गुणवचनशब्दे परेतत्पुरुषे अस्य प्रकृतिस्वरत्वात् अन्तोदात्तता। चपलकटुकम्। प्रियादि॰ तस्मिन् परे पूर्वस्य न पुंवत्। प्रकाशमाना चपलाविद्युत् यत्र प्रकाशमानाचपल इत्यादि। चपलस्य[Page2894-b+ 38] भावः अण् चापल न॰ ष्यञ् चापल्य न॰ त्व चप-लत्व न॰ अनवस्थितत्वे
“सहजचापलदोषसमुद्धतः” माघः।
“मा चापलायेति गणान् न्यषेधीत्” कुमा॰।
“उभयार्द्धयोर्जकारो द्वितीयतुर्य्यौगमध्यगौ यस्याः। चप-लेतिनाम तस्याः प्रकीर्त्तितं नागराजेन” वृ॰ र॰ उक्तेआर्य्याविशेषे

१८ मात्रावृत्तभेदे स्त्री। स्वार्थेक। चञ्चले त्रि॰। भृशा॰ अभूततद्भावार्थे क्यङ्। चपलायते अचपलायिष्ट

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल¦ mfn. (-लः-ला-लं)
1. Trembling, tremulous, shaking.
2. Wavering, unsteady.
3. Inconsiderately criminal.
4. Swift, expeditious; (also in this sense, or swiftly, adv. n. (-लं)
5. Momentary, instantaneous.
6. Agitated violently, overcome with alarm, &c. m. (-लः)
1. Quicksilver.
2. A kind of stone.
3. A fish.
4. A thief. f. (-ला)
1. The goddess LAKSHMI or fortune.
2. Light- ning.
3. A whore.
4. Long pepper.
5. The tongue.
6. Spirituous liquor.
7. A species of the Arya metre. E. चप् to go, affix अलच् or चुप् to move, Unadi affix कल and the radical vowel changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल [capala], a. [चप्-मन्दायां गतौ कल उपधोकारस्याकारः Tv.; cf. Uṇ.1.18]

Shaking, trembling, tremulous; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1 15; चपलायताक्षी Ch. P.8.

Unsteady, fickle, inconstant, wavering; Śānti.2. 12; चपलमति &c.

Frail, transient, momentary; नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् Moha M.5.

Quick, nimble, agile; (गतम्) शैशवाच्चपलमप्यशोभत R.11. 8.

Inconsiderate, rash; cf. चापल.

off the mark; निमित्तचपलेषुणा Mb.13.5.5.

लः A fish.

Quicksilver.

The Chātaka bird.

Consumption.

A sort of perfume.

Black mustard.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल mf( आ)n. ( कम्प्; g. शौण्डा-दि, श्रेण्य्-आदिand विस्पष्टा-दि)moving to and fro , shaking , trembling , unsteady , wavering MBh. etc.

चपल mf( आ)n. wanton , fickle , inconstant ib.

चपल mf( आ)n. inconsiderate , thoughtless , ill-mannered Mn. iv , 177 MBh. xiv , 1251

चपल mf( आ)n. quick , swift , expeditious Hariv. 4104

चपल mf( आ)n. momentary , instantaneous Subh.

चपल m. a kind of mouse Sus3r. v , 6 , 3 Asht2a7n3g. vi , 38 , 1

चपल m. a fish L.

चपल m. the wind Gal.

चपल m. quicksilver L.

चपल m. black mustard L.

चपल m. a kind of perfume( चोरक) L.

चपल m. a kind of stone L.

चपल m. N. of a demon causing diseases Hariv. 9562

चपल m. of a prince MBh. i , 231

चपल n. a kind of metal (mentioned with quicksilver)

चपल n. long pepper L.

चपल n. the tongue L.

चपल n. ( g. प्रिया-दि)a disloyal wife , whore L.

चपल n. spirituous liquor ( esp. that made from hemp) L.

चपल n. the goddess लक्ष्मिor fortune(See. MBh. xiii , 3861 ) L.

चपल n. N. of two metres(See. महा-)

चपल n. (in music) the 5th note personified.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मृग elephant. Br. III. 7. ३३३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAPALA : A king in ancient India. (M.B. Ādi Parva, Chapter 1, Verse 238).


_______________________________
*11th word in right half of page 177 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चपल&oldid=499517" इत्यस्माद् प्रतिप्राप्तम्