यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ङ, चयते । इति दुर्गादासः ॥

चयः, पुं, (चीयते इति । चि + “एरच् ।” ३ । ३ । ६६ । इति कर्म्मणि अच् ।) वप्रम् । इत्यमरः । २ । २ । ३ ॥ तत्तु प्राकारादिमृलबद्धम् । यदु- परि प्राकारो निरूप्यते सः । पगार इति ख्यात इति केचित् । इति तट्टीकासारसुन्दरी ॥ दुर्गनगरे उद्धृतमृत्तिकास्तूपवद्धं यदुपरि प्राकारो निवेश्यते । तथाचार्थशास्त्रम् । खातमुद्धृतमृदा वप्रं कारयेत् तस्योपरि प्राकारमिति । इति भरतः ॥ समूहः । (यथा माघे । १ । ३ । “चयस्त्विषामित्यवधारितं पुरा ॥”) समाहृतिः । इति मेदिनी । ये, २१ ॥ प्राकारः । (यथा, महाभारते । ३ । १६० । ३७ । “शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ॥”) पीठम् । इति हेमचन्द्रः ॥ (दोषाणां सञ्चयप्रकोप- प्रशमादिषु प्रकारविशेषः । तद्यथा, -- “ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति । वर्षायां चीयते पित्तं शरत्काले प्रकुप्यति ॥ हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः ॥ शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ।” “चयकोपशमान् दोषा विहाराहारसेवनैः । समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययम् ॥” इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥ शोथः । यथा, -- “कटुतैलान्वितैर्लेपात् सर्पनिर्म्मोकभस्मभिः । चयः शाम्यति गण्डस्य प्रकोपः स्फुटति द्रुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चय पुं।

परिखोद्धृतमृत्तिकाकूटः

समानार्थक:चय,वप्र

2।2।3।1।4

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

चय पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।40।1।4

समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चय¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। चयते अचयिष्ट चेये।

चय¦ पु॰ चि--भावकर्म्मादौ अच्।

१ समूहे।

२ वप्रे

३ प्राकारमूलबन्धने। यदुपरि प्राकारो निरूप्यते प्राकारमूलस्थित[Page2897-a+ 38] वैदिकेति यावत्। तथा चार्थशास्त्रम्।
“खातमुद्धृतमृदा वप्रं कारयेद् तस्यीपरि प्राकारमिति” पगारइति गौडभाषा।

४ परिखोद्धृतमृत्स्तूपे। तत्र-समूहे
“स्फुरति चानुबनं चमरीचयः”।
“निल-येषु नक्तमसिताश्मनाञ्चयैः”
“चयस्त्विषामित्यवधा-रितं पुरः” इति च माघः। वप्रे
“चयाट्टालकशोभिना” भा॰ व॰

१६ ॰ अ॰।

५ अग्न्यादेश्चयने संस्कारभेदे।
“यज्ञांश्चसचयानलान्” हरिवं॰

४१ अ॰।

६ पुष्पादेः समाहरणे

७ पीठे मेदि॰। चये कुशलः आकर्षा॰ कन्। चयकचयनकुशले त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चय¦ r. 1st cl. (चयते) To go to or towards, to go, to move, भ्वा-आ-सक-सेट् |

चय¦ m. (यः)
1. An assemblage, a multitude.
2. A heap, a collection.
3. A mound of earth, raised to form the foundation of a building.
4. A rampart or mound of earth raised from the ditch of a fort.
5. The gate of a fort.
6. Any ediflce.
7. A seat, a stool.
8. A cover, a covering. E. चि to collect, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयः [cayḥ], [चि-अच्]

An assemblage; collection, multitude, heap, mass; चयस्त्विषामित्यवधारितं पुरा Śi.1.3; मृदां चयः U.2.7 a lump of clay; कचानां चयः Bh.1.5 a braid of hair; so चमरीचयः Śi.4.6; कुसुमचय, तुषारचय &c.

A mound of earth raised to form the foundation of a building.

A mound of earth raised from the ditch of a fort.

A rampart.

The gate of a fort.

A seat, stool.

A pile of buildings, any edifice.

Stacked wood.

A cover or covering.

Arranging or keeping the sacred fire; cf. अग्निचय.

The amount by which each term increases, the common increase or difference of the terms (in a progression).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चय 1. and 2. चय, etc. See. 1. and 3. चि.

चय mfn. " collecting "See. वृतं-

चय m. ( iii , 3 , 56 Ka1s3. ; g. वृषा-दि)a mound of earth (raised to form the foundation of a building or raised as a rampart) MBh. iii , 11699 Hariv. R. Pan5cat.

चय m. a cover , covering W.

चय m. a heap , pile , collection , multitude , assemblage MBh. Hariv. etc.

चय m. (in med.) accumulation of the humors(See. सं-) Sus3r.

चय m. the amount by which each term increases , common increase or difference of the terms , Bi1jag. (See. अग्नि-).

चय mfn. ifc. " revenging "See. ऋणं-.

"https://sa.wiktionary.org/w/index.php?title=चय&oldid=499522" इत्यस्माद् प्रतिप्राप्तम्