यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण, क पेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) षष्ठस्वरी । पेषश्चूर्णीकरणम् । क, चूर्णयति शिला । इति दुर्गादासः ॥

चूर्णम्, क्ली, (चूर्ण्यते पिष्यते यत् । चूर्ण + कर्म्मणि घञ् ।) सम्पेषणेन जातरजः । तस्य लक्षणं यथा, -- “अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् । तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता ॥ चूर्णे गुडः समो देयः शर्करा द्विगुणा मता । चूर्णेषु भर्ज्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥ लिहेच्चूर्णं द्रवैः सर्व्वैर्घृताद्यैर्द्विगुणोन्मितैः । पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः ॥ चूर्णावलेहगुटिका कल्कानामनुपानकम् । पित्तवातकफातङ्के त्रिष्वेकपलमाहरेत् ॥” इति भावप्रकाशः ॥ * ॥ चूर्णौषधस्य पूर्णवीर्य्यं पक्षत्रयपर्य्यन्तं तिष्ठति । इति वैद्यकपरिभाषा ॥ (“कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्व्वशः । द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) आवीर इति ख्यातम् । (यथा, मेघदूते । ७० । “अर्च्चिस्तुङ्गानभिमुखगतान् प्राप्य रत्नप्रदीपान् ह्नीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”) पटरसाक्षोद इत्यन्ये । इति भरतः ॥ गन्ध- गु~ डा इति ख्यातम् । इति सारसुन्दरी ॥ तत्- पर्य्यायः । वासयोगः २ । इत्यमरः । २ । ६ । १३४ ॥ वासयुक्तिः ३ । इति मेदिनी । ने, १२ ॥ गन्ध- युक्तिः ४ । इति भूरिप्रयोगः ॥ पटयुक्तिः ५ । इति शब्दरत्नावली ॥ (कुङ्कुमादिरजः । यथा, रघुः । ४ । ५४ । “अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥”)

चूर्णः, पुं, (चूर्ण्यते सम्पिष्यते इति । चूर्ण + कर्म्मणि घञ् ।) सम्पेषणेन जातरजः । चूर इति गु~डा इति फाकि इति च भाषा ॥ तत्- पर्य्यायः । क्षोदः २ । इत्यमरः । २ । ८ । ९९ ॥ चूर्णम् ३ रजः ४ । इति भावप्रकाशः ॥ (यथा, महाभारते । ६ । ११८ । ३ । “कन्याश्चन्दनचूर्णैश्च लाजैर्म्माल्यैश्च सर्व्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥”) धूलिः । क्षारविशेषः । इति मेदिनी । ने, १२ ॥ चूण इति भाषा ॥ (यथा, -- “पर्णानि शीर्णवर्णानि सीदन्त्याकर्णलोचने ! । चूर्णमानीयतां तूर्णं पूर्णचन्द्रनिभानने ! ॥”) शेषस्य गुणः । वातश्लेष्ममेदोनाशित्वम् ॥ शङ्ख- चूर्णस्य गुणाः । कटुत्वम् । क्षारत्वम् । उष्ण- त्वम् । कृमिनाशित्वञ्च । इति राजवल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण नपुं।

पटवासादिक्षोदचूर्णाः

समानार्थक:चूर्ण,वासयोग

2।6।134।1।1

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

चूर्ण नपुं।

पिष्टस्य_रजः

समानार्थक:चूर्ण,क्षोद

2।8।99।1।1

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण¦ r. 1st cl. (चूर्णयति-ते)
1. To contract, to shrink, to close as an eye, to wink.
2. Throw, to send or direct.
3. To grind or pound. E. चुरा-उभ-सक-सेट् |

चूर्ण¦ mn. (-र्णः-र्णं)
1. Powder, any pulverulent or minute division of substance.
2. Chalk, lime.
3. Aromatic powder, pounded Sandal, &c.
4. Pounded camphor. f. (-र्णी)
1. A Cowri, the shell used as a coin.
2. Selection of an unanswerable argument.
3. A river in Bengal.
4. The red powder scattered at the Holi festival.
5. Dust: see चूर्णि E. चूर्ण् to pound, &c. affix. कर्मणि अच् | भावे अच् पेषणे |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णः [cūrṇḥ] र्णम् [rṇam], र्णम् [चूर्ण् कर्मणि अच्]

Powder.

Flour.

Dust; तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव Rām.1.171.3.

Aromatic powder, pounded sandal, camphor &c.; भवति विफलप्रेरणा चूर्णमुष्टिः Me.68.

र्णः Chalk.

Lime.

Pounding. -Comp. -कारः a limeburner. -कुन्तलः a curl, curly hair; समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः Vikr.4.2.

खण्डः, ण्डम् gravel, pebble.

lime-stone nodule.-पदम् a peculiar exercise, walking backwards and forwards. -पारदः vermilion. -मुष्टिः f. a handful of perfume or powder. -योगः perfumed powder. -राजः It is the king of powders containing eight parts of 'asafoetida' and twentyseven parts 'bdellium'; Mātaṅga. L.11.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण mfn. ( चर्व्)minute , VarBr2S. lxxxi , 6

चूर्ण m. ([ MBh. VarBr2S. ]) n. powder flour , aromatic powder , pounded sandal S3a1n3kbS3r. Ka1tyS3r. Kaus3. MBh. etc. ( ifc. Pa1n2. 6-2 , 134 )

चूर्ण m. chalk , lime VarBr2S. xxvii , 36 Prab. ii , 17 Sch.

चूर्ण m. N. of a man Vi1rac. xv , xxviii

चूर्ण n. rice mixed with sesam Ya1jn5. i , 303

चूर्ण n. a kind of easy prose Va1m. i , 3 , 25

चूर्ण n. dividing a word by separating double consonant for obtaining a different sense (in a riddle , etc. ) , iv , 1 , 7.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cūrṇa appears to denote an aromatic powder in the phrase cūrṇa-hasta, used of the Apsarases in the Kauṣītaki Upaniṣad (i. 4).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चूर्ण&oldid=499587" इत्यस्माद् प्रतिप्राप्तम्