चोदना
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चोदना, स्त्री, (चोद्यते प्रवर्त्त्यतेऽनयेति । चुद क् नुदि + युच् टाप् च ।) विधिः । (यथा, गीतायाम् । १८ । १८ । “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना ॥”) प्रेरणा । यथा । चोदना लक्षणोऽर्थो धर्म्म इति जैमिनिसूत्रम् ॥ एकोद्दिष्टादिवृद्ध्यादौ ह्रास- वृद्ध्यादि चोदना । इति स्मृतिः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चोदना¦ स्त्री चु॰ चुद--युच्।
“चोदना चोपदेशश्च वि-धिश्चैकार्थवाचिनः” इति भट्टोक्ते प्रवर्त्तनावाक्ये‘ चोद-नालक्षणोऽर्थो घर्म्मः” इति मीमांसासूत्रम्।
२ प्रेरणायां,
३ प्रवर्त्तनायाञ्च। चोद्यतेऽनया करणे बा॰ युच्
४ प्रवृत्तिहेतौच
“ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना” गीता।
“ज्ञानमिष्टसाधनमिति बोघः, ज्ञेयमिष्टसाधनं कर्म्म। परिज्ञाता एतज्ज्ञानाश्रयः, कर्म्मचोदना कर्म्म चोद्यतेप्रवर्त्त्यतेऽनया चोदना ज्ञानादित्रितयं प्रवृत्तिहेतुरित्यर्थः” श्रीधरः।
५ अज्ञातार्थज्ञापके शब्दमात्रे--
“चोदनाप्रवृत्ति-भेदाच्च”
“या हि चोदना धर्म्मस्य लक्षणं सा स्वविषयेनियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमव-बोधयत्येव केवलम्, अवबोधस्य चोदनाजन्यत्वात् नपुरुषोऽवबोधे नियुज्यते यथाऽक्षसन्निकर्षेणार्थाऽबोधेतद्वत्” शा॰ सू॰ शाङ्करभाष्यम्।
“अज्ञातज्ञापकः शब्दःचोदना तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः। संग्रहवाक्यं विवृणोति या हीति लक्षणंप्रमाणं
“स्वर्गकामोयजेत” इत्यादि वाक्यं हि स्वविषयेधर्मे यागादिके स्वर्गभावनारूपे फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा, पुरुषं प्रव-र्त्तयदेवावबोधयति
“अहमात्मा ब्रह्म” इत्यादि वाक्यंतु पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्त्तयतिविषयाभावात् नन्ववबोध एव विषयोऽस्तु तत्राहन पुरुष इति ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्त्यतेइत्यत्र हेतुं पूर्ववाक्येनाह अवबोधस्येति। स्वजन्य-ज्ञाने स्वयं प्रमाणं न प्रवर्त्तकमित्यत्र दृष्टान्तमाह यथेतिमानादेव बोधस्य जातत्वात् जाते च तस्मिन् विध्य-योगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः। तथाचप्रवर्त्तकमानमेयो धर्मः, उदासीनमामेयं ब्रह्मेति” रत्नप्रमा। लोगाक्षिमास्करेणापि
“वेदप्रतिपाद्यप्रयो-जनवदर्थो धर्म्म” इति धर्मलक्षणमुक्त्वा
“चोदनालक्षणोऽर्थो धर्म” जै॰ सूत्रस्थचोदनापदस्य वेदमात्रपरत्वमुररीकृतम्। तल्लक्षणे चार्थपदस्य इष्यमाणपरत्वेन[Page2969-a+ 38] सिद्धे इच्छाभावात् ब्रह्मणः सद्धत्वेन इष्यमाणत्वा-भावात् वेदप्रतिपाद्यत्वेऽपि नातिव्याप्तिरिति बोध्यम्।
५ चोदनाविषये यागादिप्रयत्ने च।
“एकं वा संयोगरूपचोदनाऽख्याऽविशेषात्” जै॰ सू॰।
“कर्स्मैक्यप्रति-पादका संयोगरूपचोदनासंज्ञारूपाः पदार्थास्तेषा-मपिशेषादैक्यम्।
“तत्र चोदना प्रवर्त्तकः शब्दः चोदित-प्रयत्नो वा” रत्नप्रभा।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चोदना¦ f. (-ना)
1. A precept, a sacred ordinance or commandment.
2. Sending, commanding, directing, &c.
3. Enjoining, ordaining.
4. Casting, throwing. E. चुद् to command, &c. affixes युच् and टाप्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चोदना [cōdanā], 1 Sending, directing, throwing.
Urging or driving onward; ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना Bg.
Prompting, inciting, encouraging, inspiration.
A precept, sacred commandment, scriptural injunction.
The category called अपूर्व (in पूर्वमीमांसा); चोदनेत्यपूर्वं बूमः ŚB. on MS.7.1.7. -Comp. -गुडः a ball for playing with.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चोदना f. reproof (as in पालि) DivyA7v. i , 54