यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रचक्रम्, क्ली, (छत्त्राकृति चक्रम् ।) चक्रविशेषः । यथा, समयामृते छत्त्रचक्रम् । “अश्विनीमघमूलाद्यं चक्रं छत्त्रत्रयात्मकम् । प्रतीचीमध्यरेखाया ईशानान्तं हयाधिपः ॥ आग्नेयान्तं नराधीशो नैरृ तान्तं गजाधिपः । एषां छत्त्रविभागेन ज्ञातव्यञ्च शुभाशुभम् ॥ अन्यस्य राज्ञो नामर्क्षं यत्र छत्त्रे ततः फलम् । चामरं कलसं बीणा छत्त्रं दण्डः पतद्ग्रहः ॥ आसनं कीलकं रज्जुर्नव भेदाः प्रकीर्त्तिताः । यत्र छत्त्रे स्थितः सौरिर्भङ्गं तस्य विनिर्द्दिशेत् ॥ चामरे चण्डता वायोरनावृष्टिः प्रजायते । दुर्भिक्षञ्च भवेत् घोरं प्रजापीडा न संशयः ॥ कलसस्थे भवेद्युद्धं भङ्गो घातादिकं ध्रुवम् । वीणास्थेनार्कपुत्त्रेण पट्टराज्ञी विनश्यति ॥ चलचित्तो भवेद्राजा भयभीता च मेदिनी । यदा ऋक्षत्रये सौरिश्छत्त्रे दण्डे पतद्ग्रहे ॥ तदा तस्य भवेद्भङ्गश्छत्त्रस्यास्य न संशयः । आसनस्य भवेन्नाश आसनस्थे शनैश्चरे ॥ युवराजक्षयः कीले बन्धनं रज्जुसंस्थिते । सौम्ययुक्तोऽतिचारस्थः शनिरुक्तफलो न हि ॥ वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोति सः । शनिराहुकुजादित्या यदा जीवेन्दुसंयुताः ॥ उत्तराधीशराङ्गो वै निश्चितं छत्त्रभङ्गदाः । क्रूरं चतुष्टयञ्चैव बुधचन्द्रेण संयुतम् ॥ पूर्ब्बच्छत्त्रविनाशाय तथा पापचतुष्टयम् । शुक्रेन्दुसंयुतं छत्त्रे दक्षिणे शस्यभङ्गदम् ॥ एवमन्येषु राज्येषु नामर्क्षात् फलमादिशेत् । यथा दुष्टफलः सौरिस्तथा सौम्यफलो गुरुः ॥ भौमज्ञौ गुरुराहू च रविचन्द्रौ बले समौ । यथा हानिकराः क्रूरास्तथा सौम्याः शुभङ्कराः ॥ एतेऽत्राष्टौ ग्रहाश्छत्त्रे परचक्रेण भङ्गदाः । नृपनामर्क्षगो राहुः केतुर्व्वा यत्र संस्थितः ॥ छत्त्रभङ्गो भवेत्तस्य विषदानेन भूपतेः । मृगयासाहसं यात्रां दुष्टहस्त्यश्ववाहनम् ॥ विग्रहञ्च त्यजेद्राजा छत्त्रस्थे क्रूरखेचरे । ज्ञात्वैवं शान्तिकं कुर्य्यात् ग्रहाणां जायते शुभम् ॥”

"https://sa.wiktionary.org/w/index.php?title=छत्त्रचक्रम्&oldid=134902" इत्यस्माद् प्रतिप्राप्तम्