छदनम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छदनम्, क्ली, (छदति आच्छादयतीति । छद + ल्युः ।) पत्रम् । पक्षः । (यथा, महाभारते । ३ । १५८ । ६९ । “विमलस्फाठिकाभानि पाण्डरच्छदनैर्द्बिजैः । कलहंसैरुपेतानि सारसाभिरुतानि च ॥” छद + भावे ल्युट् ।) पिधानम् । इति मेदिनी । ने, ६५ ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥