जगन्नाथः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जगन्नाथः, पुं, (जगतां नाथ ईश्वरः ।) विष्णुः । इति हेमचन्द्रः ॥ (यथा, देवीभागवते । १ । ४ । ३६ । “देवदेव ! जगन्नाथ ! भूतभव्यभवत्प्रभो ! । तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्द्दन ! ॥”) पुरुषोत्तमक्षेत्रम् । यथा, मुनय ऊचुः । “पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम् । यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥ दर्शनान्मुक्तिदः साक्षात् सर्व्वतीर्थफलप्रदः । तन्नो विस्तरतो ब्रूहि तत् क्षेत्रं केन निर्म्मितम् ॥ ज्योतिःप्रकाशो भगवान् साक्षान्नारायणः प्रभुः । कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥ जैमिनिरुवाच । एतत् क्षेत्रवरञ्चास्य वपुर्भूतं महात्मनः । स्वयं वपुष्मान् यत्रास्ते स्वनाम्नाख्यापितं हि तत् ॥ यथा चानुदिनं देवाः सिद्ध्वाः ब्रह्मर्षयस्तथा । समर्च्चितुमिहायान्ति देवेशं न तथान्यतः ॥ अहो ! तत् परमं क्षेत्रं विस्तृतं दशयोजनैः । तीर्थराजस्य सलिलादुत्थितं बालुकाचितम् ॥ नीलाचलेन महता मध्यस्थेन विराजितम् । एकं स्तनमिवावन्याः सुदूरात् परिभावितम् ॥” ब्रह्माणं प्रति विष्णुवाक्यम् । “सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे । स प्रदेशः पृथिव्यां हि सर्व्वतीर्थफलप्रदः ॥ एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः । पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः ॥ सिन्धुतीरे च यो ब्रह्मन् ! राजते नीलपर्व्वतः । पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥ सुरासुराणां दुर्ज्ञेयं माययाच्छादितं मम । सर्व्वसङ्गपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥ सृष्ट्यालयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् । नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः ॥ वारुण्यां दिशि यत् कुण्डं रोहिणं नामविश्रुतम् ॥ आनुष्टुभं मन्त्रराजं सहस्रं प्रजजाप ह ॥ वैशास्वस्यामले पक्षे अष्टम्यां पुष्ययोगतः । कृता प्रतिष्ठा भो विप्राः शोभने गुरुवासरे ॥” तन्महाप्रसादमाहात्म्यं यथा, -- “बहून् नियोजयेत्तत्र लोकान् त्रैवर्गिकानुत । लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम् । भुङ्क्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥ अमृतं तद्धि नैवेद्यं पापघ्नं मूर्द्ध्नि धारणात् । भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥ आघ्राणान्मानसं पापं दर्शनादृष्टिजं तथा । आस्वादाद्वाक्कृतं पापं श्रावणञ्च व्यपोहति ॥ स्पर्शनात् त्वक्कृतं पापं मिथ्यालापं तथा द्बिजाः ! । मात्रे लेपाद्दहेत् पापं शारीरं वै न संशयः ॥ महापवित्रं हि हरेर्निवेदितं नियोजयेद्यः पितृदेवकर्म्मसु । तृप्यन्ति तस्मै पितरः सुराश्च प्रयान्ति लोकं मधुसूदनस्य ॥ नातः परं हि वस्त्वस्ति हव्यकव्येषु भो द्बिजाः ! । नराणां रूपमास्थाय तदश्नन्ति दिवौकसः ॥ विष्ण्वालयगतं तद्धि निर्म्माल्यं पतितादयः । स्पृशन्ति चेन्न दुष्टं हि यथा विष्णुस्तथैव तत् ॥ निन्दन्ति ये तदमृतं मूढाः पण्डितमानिनः । स्वयं दण्डघरस्तेषु सहते नापराधिनः ॥ येषामत्र न दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः । कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे ॥ चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः । यथा तथोपयुक्तं तत् सर्व्वपापापनोदनम् ॥ नैवेद्यान्नं जगद्भर्त्तुर्गाङ्गं वारि समं द्बयम् । दृष्टिस्पर्शनचिन्ताभिर्भक्षणादघनाशनम् ॥” इत्युत्कलखण्डम् ॥ * ॥ स च कलेर्दशसहस्रवर्षपर्य्यन्तं पृथिव्यां स्थास्यति । यथा, -- “शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् । कलेर्द्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ (स्वनामख्यातो बहुलग्रन्थकर्त्ता पण्डितविशेषः । अयं हि तैलङ्गवंशोद्भवः । अस्य पिता पेरम- भट्ट इति ख्यातः । असौ पण्डितराजजगन्नाथो दिल्लीप्रभोः शाहजहान्-ज्येष्ठसूनोर्यवनस्य दाराशाहस्य सभायामासीत् । यतोऽनेन जगदाभरणकाव्ये दाराशाहस्यैव यशोवणनं कृतम् । अपिच भामिनीविलाससमाप्तौ “दिल्ली- वल्लभपाणिपल्लवतले नीतं नवीनं वयः” इत्यु- क्तम् । दाराशाहस्तु १५८१ एकाशीत्यधिकपञ्च- दशशतशकाब्दपर्य्यन्तं जीवित आसीत् । अतः पण्डितराजजगन्नाथोऽयं तात्कालिक इत्येवा- यातम् । अनेन पण्डितराजपदवी शाह- जहान्सम्राजो दिल्लीप्रभोः प्राप्तेति तत्कृतादा- सफविलासनामकग्रन्थादेवागम्यते यथा, --