यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगलः, पुं, (पुनःपुनरतिशयेन वा गलतीति । गल क्षरणे + यङ्लुगन्तात् अच् । संज्ञापूर्ब्बक- त्वात् “दीर्घोऽकितः ।” ७ । ४ । ८३ । इति न दीर्घः । यद्वा, जन् + डः । जः जातः सन् गलति निर्गच्छ- तीति । गल + अच् ।) सुराकल्कम् । मेया इति भाषा ॥ तत्पर्य्यायः । मेदकः २ । इत्य- मरः । २ । १० । ४२ ॥ (यथा, शार्ङ्गधरे मध्य- खण्डे दशमेऽध्याये । “तदधो जगलो ज्ञेयो मेदको जगलाद्घनः ॥”) मदनवृक्षः पिष्टमद्यम् । (तद्गुणा यथा, -- “शूलप्रवाहिकाटोपकफवातार्शसां हितः । जगलो ग्राहिरूक्षोष्णः शोफघ्नो भुक्तपाचनः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “ग्राह्युष्णो जगलः पक्ता रूक्षस्तृद्कफशोफहृत् । हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥) धूर्त्ते त्रि । इति मेदिनी । ले, ९१ ॥ कवचः । रलयोरैक्यात् ॥ गोमये, क्ली । इति रत्नमाला ॥ (यथा, वैद्यकरत्नमालायाम् । “गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल पुं।

सुराकल्कः

समानार्थक:मेदक,जगल

2।10।41।2।5

मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल¦ पु॰ जन--ड गल--अच् कर्म्मधा॰।

१ सुराकल्के(मेओया) अमरः

२ मदनवृक्षे

३ पिष्टमद्ये

४ धूर्त्ते त्रि॰मेदि॰ कवचे न॰ हेम॰। गोमये न॰ रत्नमाला। तत्रसुराकल्कगुणाः भावप्र॰ उक्ता यथा
“ग्राह्युष्णोऽजगलःपक्ता रूक्षतृट्कफ शोफहृत्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल¦ m. (-लः)
1. Vinous liquor for distilling.
2. Armour: see the pre- ceding. E. गल् to ooze, अच् affix, and the root reduplicated; other- wise ल interchanged with रः see जगर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल [jagala], a.

Rough, tricky, knavish.

Dark, black.

लम् Cowdung.

An armour.

A kind of liquor (m. also in the last two senses).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल mfn. fraudulent L.

जगल m. a kind of spirituous liquor (or fluid suitable for distillation L. ) Car. i , 27 Sus3r. i , 45 , 10 , 10 ; 10 Bhpr.

जगल m. Vangueria spinosa L.

जगल m. = गरW.

जगल n. = छगणL.

"https://sa.wiktionary.org/w/index.php?title=जगल&oldid=375842" इत्यस्माद् प्रतिप्राप्तम्