यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यः, त्रि, (कुटिलं हन्यते निन्द्यते इति । हन + यङन्तात् अचो यत् । अनित्यमागमशास्त्र- मिति नुगतोऽनुनासिकान्तस्येति न नुक् । यद्वा, जघनमिव । “शाखादिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।) चरमः । (यथा, वैद्यकचक्र- पाणिसंग्रहे स्नेहाधिकारे । “उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमे । जघन्यस्य पलार्द्धेन स्नेहक्वाथ्यौषधेषु च ॥”) गर्हितः । (यथा, महाभारते । ३ । ३५ । १३ । “तत्र द्यूतमभवन्नो जघन्यं तस्मिन् जिताः प्रव्रजिताश्च सर्व्वे ॥” * ॥ जघने कटिदेशे भवम् । दिगादित्वात् यत् ।) मेहने, क्ली । इति मेदिनी । ये, ८३ ॥ पुं, शूद्रः । इति शब्दरत्नावली ॥ (हीनजातिमात्रम् । यथा, मनौ । ८ । ३६६ । “उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥” “हीनजातिरुत्कृष्टजातीयां कन्यामिच्छन्ती- मनिच्छन्तीं वा गच्छन् जात्यपेक्षयाऽङ्गच्छेदन- मारणात्मकं वधमर्हति ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ पृष्ठभागः । यथा, रामा- यणे । २ । १०४ । २९ । “ततो जघन्यं सहितैः स्वमन्त्रिभिः पुरप्रधानैश्च तथैव सैनिकैः । जनेन धर्म्मज्ञतमेन धर्म्मवा- नुपोपविष्टो भरतस्तदाग्रजम् ॥” “जघन्यं जघनभागं पृष्ठभागमाश्रितः सन् ।” इति तट्टीकायां रामानुजः ॥ * ॥ राजानुचर- विशेषः । यथा, बृहत्संहितायाम् । ६९ । ३१, ३३ -- ३४ । “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ सामी । पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणु लक्षणैस्तान् ॥” “मालव्यसेवी तु जघन्यनामा खण्डेन्दुतुल्यश्रवणः सुगन्धिः । शुक्रेण सारः पिशुनः कविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः ॥ क्रूरो धनी स्थूलमतिः प्रतीत- स्ताम्रच्छविः स्यात् परिहासशीलः । उरोऽङ्घ्रिहस्तेष्वसिशक्तिपाश- परश्वधाङ्कश्च जघन्यनामा ॥”)

"https://sa.wiktionary.org/w/index.php?title=जघन्यः&oldid=135186" इत्यस्माद् प्रतिप्राप्तम्