जघन्यजः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जघन्यजः, पुं स्त्री, (जघन्ये चरमे जायते इति । जन् + “सप्तम्यां जने र्डः ।” ३ । २ । ९७ । इति डः ।) शूद्रः । कनिष्ठे, त्रि ॥ इति मेदिनी ॥ जे, ३२ ॥ (यथा, महाभारते । १ । ६५ । १६ । “एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)