यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गमविष¦ न॰ सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा
“अथाऽतो जङ्गमविषविज्ञानीयमध्यायं व्याख्यास्यामः। जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश। समासेनमया यानि विस्तरस्तेषु वक्ष्यते। तत्र दृष्टिनिःश्वास-दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखसन्दंशविशर्द्धितगुदा-स्थिपित्तशूकशवानीति। तत्र दृष्टिनिःश्वासविषास्तुदिव्याः सर्पाः। भौमास्तु दंष्ट्राविषाः। मार्जारश्ववा-नरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाक (सौम्यकीटभेदः)गृहगोधिका कृकलासचतुष्पादकीटास्तथान्ये दंष्ट्रान-खविषाः। चिपिटपिच्चटककषायवासिकसर्षपवासिकतोटकवर्च्चःकीटकौण्डिल्यकाःशकृन्मूत्रविषाः। मूषिकाःशुक्रविषाः। लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रा-र्त्तवविषाः। वृश्चिकविश्वम्भरराजीवमतस्योच्चिटिङ्गाःसमुद्रवृश्चिकाश्चालविषाः (अनःपुच्छाग्रवर्त्तिकण्ठकः)(हुल) इति। चित्रशिरःसरावकुर्दिशतदारुकारिमेदक-शारिकामुखामुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः। मक्षि-[Page3012-b+ 38] काकणभजलायुका मुखसन्दंशविषाः। विषहतास्थिसर्पक-ण्टकवरटीमत्स्यास्थिकेत्यस्थिविषाणि। शकुलीमत्स्यरक्त-राजीवरकमत्स्याश्च पित्तविषाः। सूक्ष्मतुण्डोच्चिटिङ्ग-वरटाशतपदीशूकवलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः। कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखस-न्दंशविषेष्वेव गणयितव्याः। राज्ञोऽरिदेशे रिपवस्तृ-णाम्बुमार्गान्नधूमश्वसनान् विषेण। संदूषयन्त्यभिरति-प्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेच्च। दुष्टं जलं पिच्छि-लमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च। मण्डूकम-त्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति। मज्जन्ति ये चात्र नराश्वनागास्तेच्छर्द्दिमोहज्वरदाहशो-फान्। गच्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोध-यितुं यतेत”।

"https://sa.wiktionary.org/w/index.php?title=जङ्गमविष&oldid=376145" इत्यस्माद् प्रतिप्राप्तम्