यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा, स्त्री, (जटति परस्परं संलग्ना भवतीति । जट् + अच् । यद्बा, जायते प्रादुर्भवतीति । जन् + “जनेष्टन् लोपश्च ।” उणां । ५ । ३० । इनि टन् अन्त्यलोपश्च ।) व्रतिनां शिखा । लग्नकचः । तत्पर्य्यायः । शटा २ । इत्य- मरः ॥ जटिः ३ जटी ४ जूटः ५ जुटकम् ६ शटम् ७ कौटीरम् ८ जूटकम् ९ हस्तम् १० । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । ११२ । २ । “नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥”) मूलम् । यथा, -- “यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ॥” इति श्रीभागवते श्रुतिस्तवे ८७ अध्यायः ॥ मांसी । इति मेदिनी । टे, १५ ॥ रुद्रजटा । (यथा, सुश्रुते कल्पस्थाने ७ अध्याये । “कालेयकं पद्मकञ्च मधुकं नागरं जटाम् ॥”) शतावरी । इति राजनिर्घण्टः ॥ कपिकच्छुः । इति रत्नमाला ॥ (वेदपाठविशेषः । यथा, -- “जटा माला शिखा लेखा ध्वजो दण्डो रथो घनः । अष्टौ विकृतयः प्रोक्ताः क्रमपूर्ब्बं महर्षिभिः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा स्त्री।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

2।4।11।1।6

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

जटा स्त्री।

जटामांसी

समानार्थक:तपस्विनी,जटा,मांसी,जटिला,लोमश,मिसी

2।4।134।1।2

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

जटा स्त्री।

तपस्विजटा

समानार्थक:सटा,जटा

2।6।97।2।5

कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः। शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा॥

वैशिष्ट्य : तपस्वी

 : शिवस्य_जटाबन्धः

पदार्थ-विभागः : अवयवः

जटा स्त्री।

मूलम्

समानार्थक:जटा

3।3।38।1।2

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा¦ स्त्री जट--अच् जन--उणा॰ टन् अन्त्यलोपश्च।

१ केशविकारे अन्योन्यसंलग्नकेशे

२ व्रतिनः

३ शिखायां

४ शठा-याम् अमरः।

५ मूले

६ शाखायां मेदि॰।

७ कपिकच्छ्वम्राजनि॰।

८ जटामांस्यां

९ रुद्रजटायां

१० शतावर्य्यांरत्नमाला॰

११ वेदपाठवेदे ऋग्वेदशब्दे

१४

११ ।

१२ पृ॰ दृश्यम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा¦ f. (-टा)
1. The hair matted as worn by the god SIVA, and by ascetics; the long hairs occasionally clotted together, and brought over the head so as to project like a horn from the forehead, at other times allowed to fall carelessly over the back and shoulders.
2. The root of a tree, a fibrous root.
3. Spikenard: see जटामांसी।
4. A plant, (Asparagus racemosa.)
5. Cowach.
6. Hedysarum, vari- ous species. E. जट् to entangle, अच् affix; or जन् to be produced, टन् Unadi affix, and the radical final rejected.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा f. the hair twisted together (as worn by ascetics , by शिव, and persons in mourning) Pa1rGr2. ii , 6 Mn. vi , 6 MBh. ( ifc. f( आ). , iii , 16137 ) etc.

जटा f. See. s.v. ट.

"https://sa.wiktionary.org/w/index.php?title=जटा&oldid=499651" इत्यस्माद् प्रतिप्राप्तम्