यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशयः, पुं, (जलस्य आशय आधारः ।) जलाधारः । स तु पुष्करिण्यादिः । इत्यमरः । १ । १० । २६ ॥ (यथा, मनुः । ४ । १२९ । “न स्नानमाचरेद्भुक्त्रा नातुरो न महानिशि । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥” जलं आशेते तिष्ठत्यत्र । आ + शी + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) समुद्रः । इति हेमचन्द्रः ॥ शृङ्गाटकः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=जलाशयः&oldid=135781" इत्यस्माद् प्रतिप्राप्तम्