यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा, स्त्री, (जयति रसमनयेति । जि + “शेता- यह्वजिह्वाग्रीवाप्वामीवाः ।” उणां । १ । १५४ । इति वन् प्रत्ययेन हुगागमे निपातनात् साधुः ।) रसज्ञानेन्द्रियम् । जिव् इति भाषा । तत्- पर्य्यायः । रसज्ञा २ रसना ३ । इत्यमरः । २ । ६ । ९१ ॥ रशना ४ रसनम् ५ जिह्वः ६ । इति तट्टीका ॥ रसालः ७ सुधास्रवा ८ रसिका ९ रसाङ्का १० । इति शब्दरत्नावली ॥ रसा ११ लोला १२ रसाला १३ रसला १४ ललना १५ । इति जटाधरः ॥ (यथा, मुकुन्दमाला- याम् । २६ । “जिह्वे ! कीर्त्तय केशवं मुररिपुं चेतो ! भज श्रीधरं पाणिद्बन्द्व ! समर्च्चयाच्युतकथां श्रोत्रद्बय ! त्वंशृणु । कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्द्धन्नमाधो- क्षजम् ॥”) अस्याः परीक्षा यथा, भावप्रकाशे । “शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् । रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् ॥ परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके । सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा ॥” (यथास्या उत्पत्तिविषयः । “उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ॥” इति सुश्रुते शारीरस्थाने ४ र्थे अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा स्त्री।

जिह्वा

समानार्थक:रसज्ञा,रसना,जिह्वा

2।6।91।2।3

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा¦ स्त्री लेढ्यनया लिह--स्वादे व
“शेवयह्वजिह्वेत्यादिना” नि॰।

१ रसास्वादकरणे इन्द्रियभेदे

२ तदधिष्ठाने गोलके(जिव) ख्याते पदार्थे च। तदिन्द्रियस्य जलीयत्वंमि॰ मु॰ समर्थितं यथा
“रसनं जलीयं गन्धाद्यव्य-ञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसव्यञ्जकोदकवत्रसनसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीति विशे-षणीयम्। तस्याधिष्ठातृदेवता च प्रचेताः
“दिग्यातार्कप्रचे-ऽश्वीत्यादि” शा॰ ति॰ उक्तेः। अग्नेर्जिह्वाश्च सप्त तन्ना-मानि
“काली कराली च मनोजवा च सुलोहिता याच सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना इति सप्त जिह्वाः” मुण्डकोप॰।
“तस्याः कफादि-दोषात् लक्षणादिकं भाव॰ प्र॰ दर्शितं यथा
“शाकपत्रप्रभारूक्षा स्फुटिता रसनाऽनिलात्। रक्ता श्यामा भवेत्पित्ताल्लिप्तार्द्रा धवला कफात्। परिदग्धा खरस्पर्शा कृष्णादोषत्रयेऽधिके। सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा” [Page3121-b+ 38] अस्य क्लीवत्वं भरत आह स्म। जिह्वलः। इन्द्रियप्ररत्वे तथात्वमिति तु युक्तम्।

३ वाक्ये निघण्टुः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा [jihvā], 1 The tongue.

The tongue of fire i. e. a flame.

A sentence. -Comp. -आस्वादः licking, lapping. -उल्लेखनी, -उल्लेखनिका, -निर्लेखनम् a tonguescraper.

पः a dog.

a cat.

a tiger.

a leopard.

a bear. -मलम् the fur of the tongue. -मूलम् the root of the tongue. -मूलीय a. a term particularly applied to the Visarga before क् and ख् and also to ऋ and लृ and the guttural class of consonants (in gram.)-रदः a bird. -लिह् m. a dog. -लौल्यम् greediness.-शल्यः the Khadira tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा f. (= जुहू) id. RV. AV. etc. ( ifc. f( आ). MBh. iii , 16137 Hcat. )

जिह्वा f. See. ह्व.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JIHVĀ : A servant woman who stole ornaments from the palace. For the detailed story of how she was caught with stolen goods see under Hariśarman.


_______________________________
*14th word in left half of page 356 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वा स्त्री.
जीभ (वध्य पशु की जीभ का एक भाग जुहू में पशु-याग के समय आहुति देने के लिए लिया जाता है), का.श्रौ.सू. 6.7.6; आप.श्रौ.सू. 7.24.2।

"https://sa.wiktionary.org/w/index.php?title=जिह्वा&oldid=499751" इत्यस्माद् प्रतिप्राप्तम्